युधिष्ठिर उवाच ।साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् ।प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥ १ ॥
भीष्म उवाच ।साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः ।पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥ २ ॥
गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ ।दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ ३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥ ४ ॥
कश्चित्तु बुद्धिसंपन्नो ब्राह्मणो विजने वने ।गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ ५ ॥
स बुद्धिश्रुतसंपन्नस्तं दृष्ट्वातीव भीषणम् ।सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥ ६ ॥
रक्षस्तु वाचा संपूज्य प्रश्नं पप्रच्छ तं द्विजम् ।मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ ७ ॥
मुहूर्तमथ संचिन्त्य ब्राह्मणस्तस्य रक्षसः ।आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥ ८ ॥
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः ।विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥ ९ ॥
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि ।स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥ १० ॥
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः ।अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ ११ ॥
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् ।प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥ १२ ॥
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् ।माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥ १३ ॥
संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः ।जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥ १४ ॥
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः ।मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥ १५ ॥
प्राज्ञैः संभावितो नूनं नप्राज्ञैरुपसंहितः ।ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥ १६ ॥
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् ।वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ १७ ॥
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती ।तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥ १८ ॥
असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् ।गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥ १९ ॥
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः ।महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ २० ॥
तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् ।बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥ २१ ॥
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् ।न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥ २२ ॥
दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् ।अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥ २३ ॥
नूनमासंजयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते ।कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥ २४ ॥
नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् ।मयार्थ इति जानाति तेनासि हरिणः कृशः ॥ २५ ॥
अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि ।विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥ २६ ॥
नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि ।ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥ २७ ॥
अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् ।यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ २८ ॥
चिराभिलषितं किंचित्फलमप्राप्तमेव ते ।कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ २९ ॥
नूनमात्मकृतं दोषमपश्यन्किंचिदात्मनि ।अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥ ३० ॥
सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् ।दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ ३१ ॥
साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् ।मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥ ३२ ॥
धर्म्यमर्थं च काले च देशे चाभिहितं वचः ।न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥ ३३ ॥
दत्तानकुशलैरर्थान्मनीषी संजिजीविषुः ।प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ ३४ ॥
पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः ।ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥ ३५ ॥
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि ।सुहृदामविरोधेन तेनासि हरिणः कृशः ॥ ३६ ॥
श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् ।मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥ ३७ ॥
एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत् ।सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥ ३८ ॥