युधिष्ठिर उवाच ।दानं बहुविधाकारं शान्तिः सत्यमहिंसता ।स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥ १ ॥
पितामहस्य विदितं किमन्यत्र तपोबलात् ।तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ॥ २ ॥
भीष्म उवाच ।तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर ।मतं मम तु कौन्तेय तपो नानशनात्परम् ॥ ३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥ ४ ॥
अतीत्य सुरलोकं च गवां लोकं च भारत ।ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ॥ ५ ॥
तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् ।कथं भगीरथागास्त्वमिमं देशं दुरासदम् ॥ ६ ॥
न हि देवा न गन्धर्वा न मनुष्या भगीरथ ।आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ ७ ॥
भगीरथ उवाच ।निःशङ्कमन्नमददं ब्राह्मणेभ्यः शतं सहस्राणि सदैव दानम् ।ब्राह्मं व्रतं नित्यमास्थाय विद्धि न त्वेवाहं तस्य फलादिहागाम् ॥ ८ ॥
दशैकरात्रान्दश पञ्चरात्रानेकादशैकादशकान्क्रतूंश्च ।ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥ ९ ॥
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम् ।अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥ १० ॥
दशायुतानि चाश्वानामयुतानि च विंशतिम् ।पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥ ११ ॥
सुवर्णचन्द्रोडुपधारिणीनां कन्योत्तमानामददं स्रग्विणीनाम् ।षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन ॥ १२ ॥
दशार्बुदान्यददं गोसवेज्यास्वेकैकशो दश गा लोकनाथ ।समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥ १३ ॥
अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् ।गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥ १४ ॥
दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह ।प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ॥ १५ ॥
वाजिनां बाह्लिजातानामयुतान्यददं दश ।कर्काणां हेममालानां न च तेनाहमागतः ॥ १६ ॥
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् ।एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥ १७ ॥
वाजिनां श्यामकर्णानां हरितानां पितामह ।प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥ १८ ॥
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् ।पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥ १९ ॥
अलंकृतानां देवेश दिव्यैः कनकभूषणैः ।रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ।सप्त चान्यानि युक्तानि वाजिभिः समलंकृतैः ॥ २० ॥
दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः ।वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ॥ २१ ॥
शक्रतुल्यप्रभावानामिज्यया विक्रमेण च ।सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ॥ २२ ॥
विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह ।अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ २३ ॥
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ।दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ २४ ॥
वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते ।वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ।तपस्वी नियताहारः शममास्थाय वाग्यतः ॥ २५ ॥
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् ।मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ।न तेनाप्यहमागच्छं फलेनेह पितामह ॥ २६ ॥
शम्याक्षेपैरयजं यच्च देवान्सद्यस्कानामयुतैश्चापि यत्तत् ।त्रयोदशद्वादशाहांश्च देव सपौण्डरीकान्न च तेषां फलेन ॥ २७ ॥
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं ब्राह्मणेभ्यः ।एकैकं वै काञ्चनं शृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः ॥ २८ ॥
हिरण्यरत्ननिचितानददं रत्नपर्वतान् ।धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ २९ ॥
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः ।इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥ ३० ॥
एकादशाहैरयजं सदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव ।आर्कायणैः षोडशभिश्च ब्रह्मंस्तेषां फलेनेह न चागतोऽस्मि ॥ ३१ ॥
निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम् ।वनं चूतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ॥ ३२ ॥
तुरायणं हि व्रतमप्रधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान् ।शतं गवामष्ट शतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः ॥ ३३ ॥
पयस्विनीनामथ रोहिणीनां तथैव चाप्यनडुहां लोकनाथ ।प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥ ३४ ॥
त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा ।अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ ३५ ॥
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः ।न चैव तेषां देवेश फलेनाहमिहागतः ॥ ३६ ॥
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे ।गवां शतानामयुतमददं न च तेन वै ॥ ३७ ॥
इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत् ।जाज्वल्यमानमुशनस्तेजसेह तत्साधयामास महं वरेण्यम् ॥ ३८ ॥
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते ।सहस्रमृषयश्चासन्ये वै तत्र समागताः ।उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ ३९ ॥
प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो ।इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ ४० ॥
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत् ।तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद ॥ ४१ ॥
भीष्म उवाच ।इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् ।पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥ ४२ ॥