Click on words to see what they mean.

वामदेव उवाच ।यत्राधर्मं प्रणयते दुर्बले बलवत्तरः ।तां वृत्तिमुपजीवन्ति ये भवन्ति तदन्वयाः ॥ १ ॥
राजानमनुवर्तन्ते तं पापाभिप्रवर्तकम् ।अविनीतमनुष्यं तत्क्षिप्रं राष्ट्रं विनश्यति ॥ २ ॥
यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः ।तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ ३ ॥
साहसप्रकृतिर्यत्र कुरुते किंचिदुल्बणम् ।अशास्त्रलक्षणो राजा क्षिप्रमेव विनश्यति ॥ ४ ॥
योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते ।जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ५ ॥
द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे ।यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ ६ ॥
शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि ।प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ ७ ॥
अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ ८ ॥
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ।न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् ॥ ९ ॥
नापत्रपेत प्रश्नेषु नाभिभव्यां गिरं सृजेत् ।न त्वरेत न चासूयेत्तथा संगृह्यते परः ॥ १० ॥
प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ ११ ॥
यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः ।तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया ॥ १२ ॥
निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये ।भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ॥ १३ ॥
अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् ।शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १४ ॥
एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् ।भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥ १५ ॥
मूढमैन्द्रियकं लुब्धमनार्यचरितं शठम् ।अनतीतोपधं हिंस्रं दुर्बुद्धिमबहुश्रुतम् ॥ १६ ॥
त्यक्तोपात्तं मद्यरतं द्यूतस्त्रीमृगयापरम् ।कार्ये महति यो युञ्ज्याद्धीयते स नृपः श्रियः ॥ १७ ॥
रक्षितात्मा तु यो राजा रक्ष्यान्यश्चानुरक्षति ।प्रजाश्च तस्य वर्धन्ते ध्रुवं च महदश्नुते ॥ १८ ॥
ये केचिद्भूमिपतयस्तान्सर्वानन्ववेक्षयेत् ।सुहृद्भिरनभिख्यातैस्तेन राजा न रिष्यते ॥ १९ ॥
अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥ २० ॥
दृढमूलस्त्वदुष्टात्मा विदित्वा बलमात्मनः ।अबलानभियुञ्जीत न तु ये बलवत्तराः ॥ २१ ॥
विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् ।आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ २२ ॥
मरणान्तमिदं सर्वं नेह किंचिदनामयम् ।तस्माद्धर्मे स्थितो राजा प्रजा धर्मेण पालयेत् ॥ २३ ॥
रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् ।मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥ २४ ॥
एतानि यस्य गुप्तानि स राजा राजसत्तम ।सततं वर्तमानोऽत्र राजा भुङ्क्ते महीमिमाम् ॥ २५ ॥
नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् ।एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥ २६ ॥
दातारं संविभक्तारं मार्दवोपगतं शुचिम् ।असंत्यक्तमनुष्यं च तं जनाः कुर्वते प्रियम् ॥ २७ ॥
यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते ।आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ २८ ॥
योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते ।शृणोति प्रतिकूलानि विमना नचिरादिव ॥ २९ ॥
अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते ।जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ३० ॥
मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान् ।स वै व्यसनमासाद्य गाधमार्तो न विन्दति ॥ ३१ ॥
यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते ।अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥ ३२ ॥
अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि ।प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३३ ॥
नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत् ।प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ॥ ३४ ॥
के मानुरक्ता राजानः के भयात्समुपाश्रिताः ।मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ ३५ ॥
न जातु बलवान्भूत्वा दुर्बले विश्वसेत्क्वचित् ।भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ ३६ ॥
अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् ।अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥ ३७ ॥
एतां राजोपनिषदं ययातिः स्माह नाहुषः ।मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥ ३८ ॥
« »