Click on words to see what they mean.

युधिष्ठिर उवाच ।केषां राजा प्रभवति वित्तस्य भरतर्षभ ।कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ।ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥ २ ॥
विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥ ३ ॥
यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।राज्ञ एवापराधं तं मन्यन्ते किल्बिषं नृप ॥ ४ ॥
अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा ।तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥ ५ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।गीतं केकयराजेन ह्रियमाणेन रक्षसा ॥ ६ ॥
केकयानामधिपतिं रक्षो जग्राह दारुणम् ।स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥ ७ ॥
राजोवाच ।न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।नानाहिताग्निर्नायज्वा मामकान्तरमाविशः ॥ ८ ॥
न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः ।नानाहिताग्निर्विषये मामकान्तरमाविशः ॥ ९ ॥
नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम ।अधीते नाव्रती कश्चिन्मामकान्तरमाविशः ॥ १० ॥
अधीयतेऽध्यापयन्ति यजन्ते याजयन्ति च ।ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥ ११ ॥
पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ।ब्राह्मणा मे स्वकर्मस्था मामकान्तरमाविशः ॥ १२ ॥
न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः ।नाध्यापयन्त्यधीयन्ते यजन्ते न च याजकाः ॥ १३ ॥
ब्राह्मणान्परिरक्षन्ति संग्रामेष्वपलायिनः ।क्षत्रिया मे स्वकर्मस्था मामकान्तरमाविशः ॥ १४ ॥
कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया ।अप्रमत्ताः क्रियावन्तः सुव्रताः सत्यवादिनः ॥ १५ ॥
संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः ।मम वैश्याः स्वकर्मस्था मामकान्तरमाविशः ॥ १६ ॥
त्रीन्वर्णाननुतिष्ठन्ति यथावदनसूयकाः ।मम शूद्राः स्वकर्मस्था मामकान्तरमाविशः ॥ १७ ॥
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।संविभक्तास्मि सर्वेषां मामकान्तरमाविशः ॥ १८ ॥
कुलदेशादिधर्माणां प्रथितानां यथाविधि ।अव्युच्छेत्तास्मि सर्वेषां मामकान्तरमाविशः ॥ १९ ॥
तपस्विनो मे विषये पूजिताः परिपालिताः ।संविभक्ताश्च सत्कृत्य मामकान्तरमाविशः ॥ २० ॥
नासंविभज्य भोक्तास्मि न विशामि परस्त्रियम् ।स्वतन्त्रो जातु न क्रीडे मामकान्तरमाविशः ॥ २१ ॥
नाब्रह्मचारी भिक्षावान्भिक्षुर्वाब्रह्मचारिकः ।अनृत्विजं हुतं नास्ति मामकान्तरमाविशः ॥ २२ ॥
नावजानाम्यहं वृद्धान्न वैद्यान्न तपस्विनः ।राष्ट्रे स्वपति जागर्मि मामकान्तरमाविशः ॥ २३ ॥
वेदाध्ययनसंपन्नस्तपस्वी सर्वधर्मवित् ।स्वामी सर्वस्य राज्यस्य श्रीमान्मम पुरोहितः ॥ २४ ॥
दानेन दिव्यानभिवाञ्छामि लोकान्सत्येनाथो ब्राह्मणानां च गुप्त्या ।शुश्रूषया चापि गुरूनुपैमि न मे भयं विद्यते राक्षसेभ्यः ॥ २५ ॥
न मे राष्ट्रे विधवा ब्रह्मबन्धुर्न ब्राह्मणः कृपणो नोत चोरः ।न पारजायी न च पापकर्मा न मे भयं विद्यते राक्षसेभ्यः ॥ २६ ॥
न मे शस्त्रैरनिर्भिन्नमङ्गे द्व्यङ्गुलमन्तरम् ।धर्मार्थं युध्यमानस्य मामकान्तरमाविशः ॥ २७ ॥
गोब्राह्मणे च यज्ञे च नित्यं स्वस्त्ययनं मम ।आशासते जना राष्ट्रे मामकान्तरमाविशः ॥ २८ ॥
राक्षस उवाच ।यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे ।तस्मात्प्राप्नुहि कैकेय गृहान्स्वस्ति व्रजाम्यहम् ॥ २९ ॥
येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय ।न रक्षोभ्यो भयं तेषां कुत एव तु मानुषात् ॥ ३० ॥
येषां पुरोगमा विप्रा येषां ब्रह्मबलं बलम् ।प्रियातिथ्यास्तथा दारास्ते वै स्वर्गजितो नराः ॥ ३१ ॥
भीष्म उवाच ।तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः ।आशीरेषां भवेद्राज्ञां राष्ट्रं सम्यक्प्रवर्धते ॥ ३२ ॥
तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः ।नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥ ३३ ॥
य एवं वर्तते राजा पौरजानपदेष्विह ।अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ ३४ ॥
« »