Click on words to see what they mean.

युधिष्ठिर उवाच ।किमाहुर्दैवतं विप्रा राजानं भरतर्षभ ।मनुष्याणामधिपतिं तन्मे ब्रूहि पितामह ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।बृहस्पतिं वसुमना यथा पप्रच्छ भारत ॥ २ ॥
राजा वसुमना नाम कौसल्यो धीमतां वरः ।महर्षिं परिपप्रच्छ कृतप्रज्ञो बृहस्पतिम् ॥ ३ ॥
सर्वं वैनयिकं कृत्वा विनयज्ञो बृहस्पतेः ।दक्षिणानन्तरो भूत्वा प्रणम्य विधिपूर्वकम् ॥ ४ ॥
विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः ।प्रजानां हितमन्विच्छन्धर्ममूलं विशां पते ॥ ५ ॥
केन भूतानि वर्धन्ते क्षयं गच्छन्ति केन च ।कमर्चन्तो महाप्राज्ञ सुखमत्यन्तमाप्नुयुः ॥ ६ ॥
इति पृष्टो महाराज्ञा कौसल्येनामितौजसा ।राजसत्कारमव्यग्रः शशंसास्मै बृहस्पतिः ॥ ७ ॥
राजमूलो महाराज धर्मो लोकस्य लक्ष्यते ।प्रजा राजभयादेव न खादन्ति परस्परम् ॥ ८ ॥
राजा ह्येवाखिलं लोकं समुदीर्णं समुत्सुकम् ।प्रसादयति धर्मेण प्रसाद्य च विराजते ॥ ९ ॥
यथा ह्यनुदये राजन्भूतानि शशिसूर्ययोः ।अन्धे तमसि मज्जेयुरपश्यन्तः परस्परम् ॥ १० ॥
यथा ह्यनुदके मत्स्या निराक्रन्दे विहंगमाः ।विहरेयुर्यथाकाममभिसृत्य पुनः पुनः ॥ ११ ॥
विमथ्यातिक्रमेरंश्च विषह्यापि परस्परम् ।अभावमचिरेणैव गच्छेयुर्नात्र संशयः ॥ १२ ॥
एवमेव विना राज्ञा विनश्येयुरिमाः प्रजाः ।अन्धे तमसि मज्जेयुरगोपाः पशवो यथा ॥ १३ ॥
हरेयुर्बलवन्तो हि दुर्बलानां परिग्रहान् ।हन्युर्व्यायच्छमानांश्च यदि राजा न पालयेत् ॥ १४ ॥
यानं वस्त्रमलंकारान्रत्नानि विविधानि च ।हरेयुः सहसा पापा यदि राजा न पालयेत् ॥ १५ ॥
ममेदमिति लोकेऽस्मिन्न भवेत्संपरिग्रहः ।विश्वलोपः प्रवर्तेत यदि राजा न पालयेत् ॥ १६ ॥
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम् ।क्लिश्नीयुरपि हिंस्युर्वा यदि राजा न पालयेत् ॥ १७ ॥
पतेद्बहुविधं शस्त्रं बहुधा धर्मचारिषु ।अधर्मः प्रगृहीतः स्याद्यदि राजा न पालयेत् ॥ १८ ॥
वधबन्धपरिक्लेशो नित्यमर्थवतां भवेत् ।ममत्वं च न विन्देयुर्यदि राजा न पालयेत् ॥ १९ ॥
अन्तश्चाकाशमेव स्याल्लोकोऽयं दस्युसाद्भवेत् ।पतेच्च नरकं घोरं यदि राजा न पालयेत् ॥ २० ॥
न योनिपोषो वर्तेत न कृषिर्न वणिक्पथः ।मज्जेद्धर्मस्त्रयी न स्याद्यदि राजा न पालयेत् ॥ २१ ॥
न यज्ञाः संप्रवर्तेरन्विधिवत्स्वाप्तदक्षिणाः ।न विवाहाः समाजा वा यदि राजा न पालयेत् ॥ २२ ॥
न वृषाः संप्रवर्तेरन्न मथ्येरंश्च गर्गराः ।घोषाः प्रणाशं गच्छेयुर्यदि राजा न पालयेत् ॥ २३ ॥
त्रस्तमुद्विग्नहृदयं हाहाभूतमचेतनम् ।क्षणेन विनशेत्सर्वं यदि राजा न पालयेत् ॥ २४ ॥
न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः ।विधिवद्दक्षिणावन्ति यदि राजा न पालयेत् ॥ २५ ॥
ब्राह्मणाश्चतुरो वेदान्नाधीयेरंस्तपस्विनः ।विद्यास्नातास्तपःस्नाता यदि राजा न पालयेत् ॥ २६ ॥
हस्तो हस्तं स मुष्णीयाद्भिद्येरन्सर्वसेतवः ।भयार्तं विद्रवेत्सर्वं यदि राजा न पालयेत् ॥ २७ ॥
न लभेद्धर्मसंश्लेषं हतविप्रहतो जनः ।कर्ता स्वेच्छेन्द्रियो गच्छेद्यदि राजा न पालयेत् ॥ २८ ॥
अनयाः संप्रवर्तेरन्भवेद्वै वर्णसंकरः ।दुर्भिक्षमाविशेद्राष्ट्रं यदि राजा न पालयेत् ॥ २९ ॥
विवृत्य हि यथाकामं गृहद्वाराणि शेरते ।मनुष्या रक्षिता राज्ञा समन्तादकुतोभयाः ॥ ३० ॥
नाक्रुष्टं सहते कश्चित्कुतो हस्तस्य लङ्घनम् ।यदि राजा मनुष्येषु त्राता भवति धार्मिकः ॥ ३१ ॥
स्त्रियश्चापुरुषा मार्गं सर्वालंकारभूषिताः ।निर्भयाः प्रतिपद्यन्ते यदा रक्षति भूमिपः ॥ ३२ ॥
धर्ममेव प्रपद्यन्ते न हिंसन्ति परस्परम् ।अनुगृह्णन्ति चान्योन्यं यदा रक्षति भूमिपः ॥ ३३ ॥
यजन्ते च त्रयो वर्णा महायज्ञैः पृथग्विधैः ।युक्ताश्चाधीयते शास्त्रं यदा रक्षति भूमिपः ॥ ३४ ॥
वार्तामूलो ह्ययं लोकस्त्रय्या वै धार्यते सदा ।तत्सर्वं वर्तते सम्यग्यदा रक्षति भूमिपः ॥ ३५ ॥
यदा राजा धुरं श्रेष्ठामादाय वहति प्रजाः ।महता बलयोगेन तदा लोकः प्रसीदति ॥ ३६ ॥
यस्याभावे च भूतानामभावः स्यात्समन्ततः ।भावे च भावो नित्यः स्यात्कस्तं न प्रतिपूजयेत् ॥ ३७ ॥
तस्य यो वहते भारं सर्वलोकसुखावहम् ।तिष्ठेत्प्रियहिते राज्ञ उभौ लोकौ हि यो जयेत् ॥ ३८ ॥
यस्तस्य पुरुषः पापं मनसाप्यनुचिन्तयेत् ।असंशयमिह क्लिष्टः प्रेत्यापि नरकं पतेत् ॥ ३९ ॥
न हि जात्ववमन्तव्यो मनुष्य इति भूमिपः ।महती देवता ह्येषा नररूपेण तिष्ठति ॥ ४० ॥
कुरुते पञ्च रूपाणि कालयुक्तानि यः सदा ।भवत्यग्निस्तथादित्यो मृत्युर्वैश्रवणो यमः ॥ ४१ ॥
यदा ह्यासीदतः पापान्दहत्युग्रेण तेजसा ।मिथ्योपचरितो राजा तदा भवति पावकः ॥ ४२ ॥
यदा पश्यति चारेण सर्वभूतानि भूमिपः ।क्षेमं च कृत्वा व्रजति तदा भवति भास्करः ॥ ४३ ॥
अशुचींश्च यदा क्रुद्धः क्षिणोति शतशो नरान् ।सपुत्रपौत्रान्सामात्यांस्तदा भवति सोऽन्तकः ॥ ४४ ॥
यदा त्वधार्मिकान्सर्वांस्तीक्ष्णैर्दण्डैर्नियच्छति ।धार्मिकांश्चानुगृह्णाति भवत्यथ यमस्तदा ॥ ४५ ॥
यदा तु धनधाराभिस्तर्पयत्युपकारिणः ।आच्छिनत्ति च रत्नानि विविधान्यपकारिणाम् ॥ ४६ ॥
श्रियं ददाति कस्मैचित्कस्माच्चिदपकर्षति ।तदा वैश्रवणो राजँल्लोके भवति भूमिपः ॥ ४७ ॥
नास्यापवादे स्थातव्यं दक्षेणाक्लिष्टकर्मणा ।धर्म्यमाकाङ्क्षता लाभमीश्वरस्यानसूयता ॥ ४८ ॥
न हि राज्ञः प्रतीपानि कुर्वन्सुखमवाप्नुयात् ।पुत्रो भ्राता वयस्यो वा यद्यप्यात्मसमो भवेत् ॥ ४९ ॥
कुर्यात्कृष्णगतिः शेषं ज्वलितोऽनिलसारथिः ।न तु राज्ञाभिपन्नस्य शेषं क्वचन विद्यते ॥ ५० ॥
तस्य सर्वाणि रक्ष्याणि दूरतः परिवर्जयेत् ।मृत्योरिव जुगुप्सेत राजस्वहरणान्नरः ॥ ५१ ॥
नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन् ।आत्मस्वमिव संरक्षेद्राजस्वमिह बुद्धिमान् ॥ ५२ ॥
महान्तं नरकं घोरमप्रतिष्ठमचेतसः ।पतन्ति चिररात्राय राजवित्तापहारिणः ॥ ५३ ॥
राजा भोजो विराट्सम्राट्क्षत्रियो भूपतिर्नृपः ।य एवं स्तूयते शब्दैः कस्तं नार्चितुमिच्छति ॥ ५४ ॥
तस्माद्बुभूषुर्नियतो जितात्मा संयतेन्द्रियः ।मेधावी स्मृतिमान्दक्षः संश्रयेत महीपतिम् ॥ ५५ ॥
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् ।धर्मनित्यं स्थितं स्थित्यां मन्त्रिणं पूजयेन्नृपः ॥ ५६ ॥
दृढभक्तिं कृतप्रज्ञं धर्मज्ञं संयतेन्द्रियम् ।शूरमक्षुद्रकर्माणं निषिद्धजनमाश्रयेत् ॥ ५७ ॥
राजा प्रगल्भं पुरुषं करोति राजा कृशं बृंहयते मनुष्यम् ।राजाभिपन्नस्य कुतः सुखानि राजाभ्युपेतं सुखिनं करोति ॥ ५८ ॥
राजा प्रजानां हृदयं गरीयो गतिः प्रतिष्ठा सुखमुत्तमं च ।यमाश्रिता लोकमिमं परं च जयन्ति सम्यक्पुरुषा नरेन्द्रम् ॥ ५९ ॥
नराधिपश्चाप्यनुशिष्य मेदिनीं दमेन सत्येन च सौहृदेन ।महद्भिरिष्ट्वा क्रतुभिर्महायशास्त्रिविष्टपे स्थानमुपैति सत्कृतम् ॥ ६० ॥
स एवमुक्तो गुरुणा कौसल्यो राजसत्तमः ।प्रयत्नात्कृतवान्वीरः प्रजानां परिपालनम् ॥ ६१ ॥
« »