Click on words to see what they mean.

भीष्म उवाच ।एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः ।अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥ १ ॥
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् ।तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥ २ ॥
अन्योन्यं च सभाज्यैवं सुप्रीतमनसः पुनः ।विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥ ३ ॥
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने ।वेदाननेकधा कर्तुं यदि ते रुचितं विभो ॥ ४ ॥
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः ।प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥ ५ ॥
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते ।अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥ ६ ॥
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना ।जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाभिवाद्य च ॥ ७ ॥
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् ।संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥ ८ ॥
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः ।याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥ ९ ॥
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् ।तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥ १० ॥
तं ददर्शाश्रमपदे नारदः सुमहातपाः ।अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥ ११ ॥
भो भो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥ १२ ॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।रजसा तमसा चैव सोमः सोपप्लवो यथा ॥ १३ ॥
न भ्राजते यथापूर्वं निषादानामिवालयः ।देवर्षिगणजुष्टोऽपि वेदध्वनिनिराकृतः ॥ १४ ॥
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः ।विमुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥ १५ ॥
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् ।महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥ १६ ॥
एतन्मनोनुकूलं मे भवानर्हति भाषितुम् ।सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥ १७ ॥
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् ।तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥ १८ ॥
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर ।वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥ १९ ॥
नारद उवाच ।अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।मलं पृथिव्या वाहीकाः स्त्रीणां कौतूहलं मलम् ॥ २० ॥
अधीयतां भवान्वेदान्सार्धं पुत्रेण धीमता ।विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥ २१ ॥
भीष्म उवाच ।नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् ।तथेत्युवाच संहृष्टो वेदाभ्यासे दृढव्रतः ॥ २२ ॥
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।स्वरेणोच्चैः स शैक्षेण लोकानापूरयन्निव ॥ २३ ॥
तयोरभ्यसतोरेवं नानाधर्मप्रवादिनोः ।वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥ २४ ॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥ २५ ॥
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् ।आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥ २६ ॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमविस्मितः ।अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥ २७ ॥
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निर्मलं मनः ।तमसा रजसा चापि त्यक्तः सत्त्वे व्यवस्थितः ॥ २८ ॥
आदर्शे स्वामिव छायां पश्यस्यात्मानमात्मना ।न्यस्यात्मनि स्वयं वेदान्बुद्ध्या समनुचिन्तय ॥ २९ ॥
देवयानचरो विष्णोः पितृयानश्च तामसः ।द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥ ३० ॥
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः ।सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥ ३१ ॥
तत्र देवगणाः साध्याः समभूवन्महाबलाः ।तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥ ३२ ॥
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः ।अपानश्च ततो ज्ञेयः प्राणश्चापि ततः परम् ॥ ३३ ॥
अनपत्योऽभवत्प्राणो दुर्धर्षः शत्रुतापनः ।पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥ ३४ ॥
प्राणिनां सर्वतो वायुश्चेष्टा वर्तयते पृथक् ।प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥ ३५ ॥
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः ।प्रथमः प्रथमे मार्गे प्रवहो नाम सोऽनिलः ॥ ३६ ॥
अम्बरे स्नेहमभ्रेभ्यस्तडिद्भ्यश्चोत्तमद्युतिः ।आवहो नाम संवाति द्वितीयः श्वसनो नदन् ॥ ३७ ॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।अन्तर्देहेषु चोदानं यं वदन्ति महर्षयः ॥ ३८ ॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् ।उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥ ३९ ॥
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ।उद्वहो नाम वर्षिष्ठस्त्रितीयः स सदागतिः ॥ ४० ॥
समुह्यमाना बहुधा येन नीलाः पृथग्घनाः ।वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥ ४१ ॥
संहता येन चाविद्धा भवन्ति नदतां नदाः ।रक्षणार्थाय संभूता मेघत्वमुपयान्ति च ॥ ४२ ॥
योऽसौ वहति देवानां विमानानि विहायसा ।चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥ ४३ ॥
येन वेगवता रुग्णा रूक्षेणारुजता रसान् ।वायुना विहता मेघा न भवन्ति बलाहकाः ॥ ४४ ॥
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् ।पञ्चमः स महावेगो विवहो नाम मारुतः ॥ ४५ ॥
यस्मिन्पारिप्लवे दिव्या वहन्त्यापो विहायसा ।पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥ ४६ ॥
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।योनिरंशुसहस्रस्य येन भाति वसुंधरा ॥ ४७ ॥
यस्मादाप्यायते सोमो निधिर्दिव्योऽमृतस्य च ।षष्ठः परिवहो नाम स वायुर्जवतां वरः ॥ ४८ ॥
सर्वप्राणभृतां प्राणान्योऽन्तकाले निरस्यति ।यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥ ४९ ॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाध्यात्मनित्यया ।ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥ ५० ॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ।दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ॥ ५१ ॥
येन सृष्टः पराभूतो यात्येव न निवर्तते ।परावहो नाम परो वायुः स दुरतिक्रमः ॥ ५२ ॥
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः ।अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः ॥ ५३ ॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।कम्पितः सहसा तेन वायुनाभिप्रवायता ॥ ५४ ॥
विष्णोर्निःश्वासवातोऽयं यदा वेगसमीरितः ।सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥ ५५ ॥
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति ।वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥ ५६ ॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामयात्तदा ॥ ५७ ॥
« »