Click on words to see what they mean.

युधिष्ठिर उवाच ।सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि ।तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम ॥ १ ॥
भीष्म उवाच ।सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः ।वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै ॥ २ ॥
अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन ।वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः ॥ ३ ॥
वदन्ति कारणं चेदं सांख्याः सम्यग्द्विजातयः ।विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः ॥ ४ ॥
ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा ।एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम् ॥ ५ ॥
स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम् ।शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः ॥ ६ ॥
प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः ।उभे चैते मते तत्त्वे मम तात युधिष्ठिर ॥ ७ ॥
उभे चैते मते ज्ञाने नृपते शिष्टसंमते ।अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम् ॥ ८ ॥
तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ ।व्रतानां धारणं तुल्यं दर्शनं न समं तयोः ॥ ९ ॥
युधिष्ठिर उवाच ।यदि तुल्यं व्रतं शौचं दया चात्र पितामह ।तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह ॥ १० ॥
भीष्म उवाच ।रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम् ।योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत् ॥ ११ ॥
यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम् ।प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः ॥ १२ ॥
तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः ।प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः ॥ १३ ॥
लोभजानि तथा राजन्बन्धनानि बलान्विताः ।छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम् ॥ १४ ॥
अबलाश्च मृगा राजन्वागुरासु तथापरे ।विनश्यन्ति न संदेहस्तद्वद्योगबलादृते ॥ १५ ॥
बलहीनाश्च कौन्तेय यथा जालगता झषाः ।अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः ॥ १६ ॥
यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम ।तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः ॥ १७ ॥
कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप ।अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः ॥ १८ ॥
अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः ।आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो ॥ १९ ॥
स एव च यदा राजन्वह्निर्जातबलः पुनः ।समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि ॥ २० ॥
तद्वज्जातबलो योगी दीप्ततेजा महाबलः ।अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत् ॥ २१ ॥
दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः ।बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः ॥ २२ ॥
तदेव च यथा स्रोतो विष्टम्भयति वारणः ।तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून् ॥ २३ ॥
विशन्ति चावशाः पार्थ योगा योगबलान्विताः ।प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः ॥ २४ ॥
न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः ।ईशते नृपते सर्वे योगस्यामिततेजसः ॥ २५ ॥
आत्मनां च सहस्राणि बहूनि भरतर्षभ ।योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत् ॥ २६ ॥
प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत् ।संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव ॥ २७ ॥
बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव ।विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम् ॥ २८ ॥
बलानि योगे प्रोक्तानि मयैतानि विशां पते ।निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव ॥ २९ ॥
आत्मनश्च समाधाने धारणां प्रति चाभिभो ।निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ ॥ ३० ॥
अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः ।युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम् ॥ ३१ ॥
स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम् ।पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः ॥ ३२ ॥
युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम् ।करोत्यमलमात्मानं भास्करोपमदर्शनम् ॥ ३३ ॥
यथा च नावं कौन्तेय कर्णधारः समाहितः ।महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम् ॥ ३४ ॥
तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित् ।दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप ॥ ३५ ॥
सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः ।देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ ॥ ३६ ॥
तथैव नृपते योगी धारणासु समाहितः ।प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः ॥ ३७ ॥
आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः ।पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम् ॥ ३८ ॥
नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः ।दर्शने स्पर्शने चापि घ्राणे चामितविक्रम ॥ ३९ ॥
स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः ।आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते ॥ ४० ॥
स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम् ।उत्तमं योगमास्थाय यदीच्छति विमुच्यते ॥ ४१ ॥
युधिष्ठिर उवाच ।आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत ।योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति ॥ ४२ ॥
भीष्म उवाच ।कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे ।स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात् ॥ ४३ ॥
भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम ।एकारामो विशुद्धात्मा योगी बलमवाप्नुयात् ॥ ४४ ॥
पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा ।अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात् ॥ ४५ ॥
अखण्डमपि वा मासं सततं मनुजेश्वर ।उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात् ॥ ४६ ॥
कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च ।भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा ॥ ४७ ॥
अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव ।स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम ॥ ४८ ॥
दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना ।वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा ॥ ४९ ॥
दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम् ।न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ ॥ ५० ॥
यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम् ।श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम् ॥ ५१ ॥
अभक्तमटवीप्रायं दावदग्धमहीरुहम् ।पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा ॥ ५२ ॥
योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः ।क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः ॥ ५३ ॥
सुस्थेयं क्षुरधारासु निशितासु महीपते ।धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः ॥ ५४ ॥
विपन्ना धारणास्तात नयन्ति नशुभां गतिम् ।नेतृहीना यथा नावः पुरुषानर्णवे नृप ॥ ५५ ॥
यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि ।मरणं जन्म दुःखं च सुखं च स विमुञ्चति ॥ ५६ ॥
नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम् ।परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु ॥ ५७ ॥
परं हि तद्ब्रह्म महन्महात्मन्ब्रह्माणमीशं वरदं च विष्णुम् ।भवं च धर्मं च षडाननं च षड्ब्रह्मपुत्रांश्च महानुभावान् ॥ ५८ ॥
तमश्च कष्टं सुमहद्रजश्च सत्त्वं च शुद्धं प्रकृतिं परां च ।सिद्धिं च देवीं वरुणस्य पत्नीं तेजश्च कृत्स्नं सुमहच्च धैर्यम् ॥ ५९ ॥
ताराधिपं वै विमलं सतारं विश्वांश्च देवानुरगान्पितॄंश्च ।शैलांश्च कृत्स्नानुदधींश्च घोरान्नदीश्च सर्वाः सवनान्घनांश्च ॥ ६० ॥
नागान्नगान्यक्षगणान्दिशश्च गन्धर्वसंघान्पुरुषान्स्त्रियश्च ।परस्परं प्राप्य महान्महात्मा विशेत योगी नचिराद्विमुक्तः ॥ ६१ ॥
कथा च येयं नृपते प्रसक्ता देवे महावीर्यमतौ शुभेयम् ।योगान्स सर्वानभिभूय मर्त्यान्नारायणात्मा कुरुते महात्मा ॥ ६२ ॥
« »