पराशर उवाच ।पिता सखायो गुरवः स्त्रियश्च न निर्गुणा नाम भवन्ति लोके ।अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥ १ ॥
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति ।ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥ २ ॥
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते ।प्रयाति लोकानमरैः सुदुर्लभान्निषेवते स्वर्गफलं यथासुखम् ॥ ३ ॥
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्मुखं परिबर्हैश्च हीनम् ।अनुद्यतं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥ ४ ॥
परिबर्हैः सुसंपन्नमुद्यतं तुल्यतां गतम् ।अतिक्रमेत नृपतिः संग्रामे क्षत्रियात्मजम् ॥ ५ ॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।निहीनात्कातराच्चैव नृपाणां गर्हितो वधः ॥ ६ ॥
पापात्पापसमाचारान्निहीनाच्च नराधिप ।पाप एव वधः प्रोक्तो नरकायेति निश्चयः ॥ ७ ॥
न कश्चित्त्राति वै राजन्दिष्टान्तवशमागतम् ।सावशेषायुषं चापि कश्चिदेवापकर्षति ॥ ८ ॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।हिंसात्मकानि कर्माणि नायुरिच्छेत्परायुषा ॥ ९ ॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥ १० ॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।नाकारणात्तद्भवति कारणैरुपपादितम् ॥ ११ ॥
तथा शरीरं भवति देहाद्येनोपपादितम् ।अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥ १२ ॥
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते ।तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥ १३ ॥
सिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् ।भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥ १४ ॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥ १५ ॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥ १६ ॥
भावितं कर्मयोगेन जायते तत्र तत्र ह ।इदं शरीरं वैदेह म्रियते यत्र तत्र ह ।तत्स्वभावोऽपरो दृष्टो विसर्गः कर्मणस्तथा ॥ १७ ॥
न जायते तु नृपते कंचित्कालमयं पुनः ।परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥ १८ ॥
स पुनर्जायते राजन्प्राप्येहायतनं नृप ।मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥ १९ ॥
द्विविधानां च भूतानां जङ्गमाः परमा नृप ।जङ्गमानामपि तथा द्विपदाः परमा मताः ।द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥ २० ॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः ॥ २१ ॥
जातमन्वेति मरणं नृणामिति विनिश्चयः ।अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥ २२ ॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥ २३ ॥
अयोजयित्वा क्लेशेन जनं प्लाव्य च दुष्कृतम् ।मृत्युनाप्राकृतेनेह कर्म कृत्वात्मशक्तितः ॥ २४ ॥
विषमुद्बन्धनं दाहो दस्युहस्तात्तथा वधः ।दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥ २५ ॥
न चैभिः पुण्यकर्माणो युज्यन्ते नाभिसंधिजैः ।एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥ २६ ॥
ऊर्ध्वं हित्वा प्रतिष्ठन्ते प्राणाः पुण्यकृतां नृप ।मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥ २७ ॥
एकः शत्रुर्न द्वितीयोऽस्ति शत्रुरज्ञानतुल्यः पुरुषस्य राजन् ।येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥ २८ ॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्यं च भवेत यस्य ।प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥ २९ ॥
अधीत्य वेदांस्तपसा ब्रह्मचारी यज्ञाञ्शक्त्या संनिसृज्येह पञ्च ।वनं गच्छेत्पुरुषो धर्मकामः श्रेयश्चित्वा स्थापयित्वा स्ववंशम् ॥ ३० ॥
उपभोगैरपि त्यक्तं नात्मानमवसादयेत् ।चण्डालत्वेऽपि मानुष्यं सर्वथा तात दुर्लभम् ॥ ३१ ॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीपते ।आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥ ३२ ॥
कथं न विप्रणश्येम योनितोऽस्या इति प्रभो ।कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥ ३३ ॥
यो दुर्लभतरं प्राप्य मानुष्यमिह वै नरः ।धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥ ३४ ॥
यस्तु प्रीतिपुरोगेण चक्षुषा तात पश्यति ।दीपोपमानि भूतानि यावदर्चिर्न नश्यति ॥ ३५ ॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।समदुःखसुखो भूत्वा स परत्र महीयते ॥ ३६ ॥
दानं त्यागः शोभना मूर्तिरद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् ।सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥ ३७ ॥
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् ।यानेन वै प्रापणं च श्मशाने शौचेन नूनं विधिना चैव दाहः ॥ ३८ ॥
इष्टिः पुष्टिर्यजनं याजनं च दानं पुण्यानां कर्मणां च प्रयोगः ।शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं सर्वाण्यात्मार्थे मानवो यः करोति ॥ ३९ ॥
धर्मशास्त्राणि वेदाश्च षडङ्गानि नराधिप ।श्रेयसोऽर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥ ४० ॥
भीष्म उवाच ।एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।विदेहराजाय पुरा श्रेयसोऽर्थे नराधिप ॥ ४१ ॥