Click on words to see what they mean.

वैशंपायन उवाच ।पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् ।अजातशत्रुं कौन्तेयमिदं वचनमर्थवत् ॥ १ ॥
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् ।मनोरथा महाराज ये तत्रासन्युधिष्ठिर ॥ २ ॥
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः ।प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः ॥ ३ ॥
अरण्ये दुःखवसतिरनुभूता तपस्विभिः ।दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे ॥ ४ ॥
धर्ममर्थं च कामं च भ्रातृभिः सह भारत ।अनुभूय ततः पश्चात्प्रस्थातासि विशां पते ॥ ५ ॥
अतिथीनां च पितॄणां देवतानां च भारत ।आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि ॥ ६ ॥
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन ।ततः पश्चान्महाराज गमिष्यसि परां गतिम् ॥ ७ ॥
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः ।संप्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि ॥ ८ ॥
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन ।शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः ॥ ९ ॥
आददानस्य च धनं निग्रहं च युधिष्ठिर ।समानं धर्मकुशलाः स्थापयन्ति नरेश्वर ॥ १० ॥
देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः ।शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते ॥ ११ ॥
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति ।प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः ॥ १२ ॥
निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः ।निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः ।कामक्रोधावनादृत्य पितेव समदर्शनः ॥ १३ ॥
दैवेनोपहते राजा कर्मकाले महाद्युते ।प्रमादयति तत्कर्म न तत्राहुरतिक्रमम् ॥ १४ ॥
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः ।पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत् ॥ १५ ॥
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर ।गोमतो धनिनश्चैव परिपाल्या विशेषतः ॥ १६ ॥
व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः ।गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः ॥ १७ ॥
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः ।एनसा युज्यते राजा दुर्दान्त इति चोच्यते ॥ १८ ॥
येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे ।तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम् ॥ १९ ॥
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते ।पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर ॥ २० ॥
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः ।कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम् ॥ २१ ॥
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् ।यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव ॥ २२ ॥
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः ।असहायस्य धीरस्य निर्जितस्य युधिष्ठिर ॥ २३ ॥
यत्कर्म वै निग्रहे शात्रवाणां योगश्चाग्र्यः पालने मानवानाम् ।कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे वाजिग्रीवो मोदते देवलोके ॥ २४ ॥
संत्यक्तात्मा समरेष्वाततायी शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः ।अश्वग्रीवः कर्मशीलो महात्मा संसिद्धात्मा मोदते देवलोके ॥ २५ ॥
धनुर्यूपो रशना ज्या शरः स्रुक्स्रुवः खड्गो रुधिरं यत्र चाज्यम् ।रथो वेदी कामगो युद्धमग्निश्चातुर्होत्रं चतुरो वाजिमुख्याः ॥ २६ ॥
हुत्वा तस्मिन्यज्ञवह्नावथारीन्पापान्मुक्तो राजसिंहस्तरस्वी ।प्राणान्हुत्वा चावभृथे रणे स वाजिग्रीवो मोदते देवलोके ॥ २७ ॥
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन संत्यक्तात्मा यज्ञशीलो महात्मा ।सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी वाजिग्रीवो मोदते देवलोके ॥ २८ ॥
दैवीं सिद्धिं मानुषीं दण्डनीतिं योगन्यायैः पालयित्वा महीं च ।तस्माद्राजा धर्मशीलो महात्मा हयग्रीवो मोदते स्वर्गलोके ॥ २९ ॥
विद्वांस्त्यागी श्रद्दधानः कृतज्ञस्त्यक्त्वा लोकं मानुषं कर्म कृत्वा ।मेधाविनां विदुषां संमतानां तनुत्यजां लोकमाक्रम्य राजा ॥ ३० ॥
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य सम्यग्राष्ट्रं पालयित्वा महात्मा ।चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे वाजिग्रीवो मोदते देवलोके ॥ ३१ ॥
जित्वा संग्रामान्पालयित्वा प्रजाश्च सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् ।युक्त्या दण्डं धारयित्वा प्रजानां युद्धे क्षीणो मोदते देवलोके ॥ ३२ ॥
वृत्तं यस्य श्लाघनीयं मनुष्याः सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः ।स्वर्गं जित्वा वीरलोकांश्च गत्वा सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा ॥ ३३ ॥
« »