Click on words to see what they mean.

युधिष्ठिर उवाच ।केन वृत्तेन वृत्तज्ञो जनको मिथिलाधिपः ।जगाम मोक्षं धर्मज्ञो भोगानुत्सृज्य मानुषान् ॥ १ ॥
भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।येन वृत्तेन वृत्तज्ञः स जगाम महत्सुखम् ॥ २ ॥
जनको जनदेवस्तु मिथिलायां जनाधिपः ।और्ध्वदेहिकधर्माणामासीद्युक्तो विचिन्तने ॥ ३ ॥
तस्य स्म शतमाचार्या वसन्ति सततं गृहे ।दर्शयन्तः पृथग्धर्मान्नानापाषण्डवादिनः ॥ ४ ॥
स तेषां प्रेत्यभावे च प्रेत्यजातौ विनिश्चये ।आगमस्थः स भूयिष्ठमात्मतत्त्वे न तुष्यति ॥ ५ ॥
तत्र पञ्चशिखो नाम कापिलेयो महामुनिः ।परिधावन्महीं कृत्स्नां जगाम मिथिलामपि ॥ ६ ॥
सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये ।सुपर्यवसितार्थश्च निर्द्वंद्वो नष्टसंशयः ॥ ७ ॥
ऋषीणामाहुरेकं यं कामादवसितं नृषु ।शाश्वतं सुखमत्यन्तमन्विच्छन्स सुदुर्लभम् ॥ ८ ॥
यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् ।स मन्ये तेन रूपेण विस्मापयति हि स्वयम् ॥ ९ ॥
आसुरेः प्रथमं शिष्यं यमाहुश्चिरजीविनम् ।पञ्चस्रोतसि यः सत्रमास्ते वर्षसहस्रिकम् ॥ १० ॥
तं समासीनमागम्य मण्डलं कापिलं महत् ।पुरुषावस्थमव्यक्तं परमार्थं निबोधयत् ॥ ११ ॥
इष्टिसत्रेण संसिद्धो भूयश्च तपसा मुनिः ।क्षेत्रक्षेत्रज्ञयोर्व्यक्तिं बुबुधे देवदर्शनः ॥ १२ ॥
यत्तदेकाक्षरं ब्रह्म नानारूपं प्रदृश्यते ।आसुरिर्मण्डले तस्मिन्प्रतिपेदे तदव्ययम् ॥ १३ ॥
तस्य पञ्चशिखः शिष्यो मानुष्या पयसा भृतः ।ब्राह्मणी कपिला नाम काचिदासीत्कुटुम्बिनी ॥ १४ ॥
तस्याः पुत्रत्वमागम्य स्त्रियाः स पिबति स्तनौ ।ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम् ॥ १५ ॥
एतन्मे भगवानाह कापिलेयाय संभवम् ।तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥ १६ ॥
सामान्यं कपिलो ज्ञात्वा धर्मज्ञानामनुत्तमम् ।उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥ १७ ॥
जनकस्त्वभिसंरक्तः कापिलेयानुदर्शनात् ।उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥ १८ ॥
तस्मै परमकल्याय प्रणताय च धर्मतः ।अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधीयते ॥ १९ ॥
जातिनिर्वेदमुक्त्वा हि कर्मनिर्वेदमब्रवीत् ।कर्मनिर्वेदमुक्त्वा च सर्वनिर्वेदमब्रवीत् ॥ २० ॥
यदर्थं कर्मसंसर्गः कर्मणां च फलोदयः ।तदनाश्वासिकं मोघं विनाशि चलमध्रुवम् ॥ २१ ॥
दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ।आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥ २२ ॥
अनात्मा ह्यात्मनो मृत्युः क्लेशो मृत्युर्जरामयः ।आत्मानं मन्यते मोहात्तदसम्यक्परं मतम् ॥ २३ ॥
अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ।अजरोऽयममृत्युश्च राजासौ मन्यते तथा ॥ २४ ॥
अस्ति नास्तीति चाप्येतत्तस्मिन्नसति लक्षणे ।किमधिष्ठाय तद्ब्रूयाल्लोकयात्राविनिश्चयम् ॥ २५ ॥
प्रत्यक्षं ह्येतयोर्मूलं कृतान्तैतिह्ययोरपि ।प्रत्यक्षो ह्यागमोऽभिन्नः कृतान्तो वा न किंचन ॥ २६ ॥
यत्र तत्रानुमानेऽस्ति कृतं भावयतेऽपि वा ।अन्यो जीवः शरीरस्य नास्तिकानां मते स्मृतः ॥ २७ ॥
रेतो वटकणीकायां घृतपाकाधिवासनम् ।जातिस्मृतिरयस्कान्तः सूर्यकान्तोऽम्बुभक्षणम् ॥ २८ ॥
प्रेत्य भूतात्ययश्चैव देवताभ्युपयाचनम् ।मृते कर्मनिवृत्तिश्च प्रमाणमिति निश्चयः ॥ २९ ॥
न त्वेते हेतवः सन्ति ये केचिन्मूर्तिसंस्थिताः ।अमर्त्यस्य हि मर्त्येन सामान्यं नोपपद्यते ॥ ३० ॥
अविद्याकर्मचेष्टानां केचिदाहुः पुनर्भवम् ।कारणं लोभमोहौ तु दोषाणां च निषेवणम् ॥ ३१ ॥
अविद्यां क्षेत्रमाहुर्हि कर्म बीजं तथा कृतम् ।तृष्णासंजननं स्नेह एष तेषां पुनर्भवः ॥ ३२ ॥
तस्मिन्व्यूढे च दग्धे च चित्ते मरणधर्मिणि ।अन्योऽन्याज्जायते देहस्तमाहुः सत्त्वसंक्षयम् ॥ ३३ ॥
यदा स रूपतश्चान्यो जातितः श्रुतितोऽर्थतः ।कथमस्मिन्स इत्येव संबन्धः स्यादसंहितः ॥ ३४ ॥
एवं सति च का प्रीतिर्दानविद्यातपोबलैः ।यदन्याचरितं कर्म सर्वमन्यः प्रपद्यते ॥ ३५ ॥
यदा ह्ययमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ।सुखितैर्दुःखितैर्वापि दृश्योऽप्यस्य विनिर्णयः ॥ ३६ ॥
तथा हि मुसलैर्हन्युः शरीरं तत्पुनर्भवेत् ।पृथग्ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते ॥ ३७ ॥
ऋतुः संवत्सरस्तिथ्यः शीतोष्णे च प्रियाप्रिये ।यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः ॥ ३८ ॥
जरया हि परीतस्य मृत्युना वा विनाशिना ।दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ ३९ ॥
इन्द्रियाणि मनो वायुः शोणितं मांसमस्थि च ।आनुपूर्व्या विनश्यन्ति स्वं धातुमुपयान्ति च ॥ ४० ॥
लोकयात्राविधानं च दानधर्मफलागमः ।यदर्थं वेदशब्दाश्च व्यवहाराश्च लौकिकाः ॥ ४१ ॥
इति सम्यङ्मनस्येते बहवः सन्ति हेतवः ।एतदस्तीदमस्तीति न किंचित्प्रतिपद्यते ॥ ४२ ॥
तेषां विमृशतामेवं तत्तत्समभिधावताम् ।क्वचिन्निविशते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ ४३ ॥
एवमर्थैरनर्थैश्च दुःखिताः सर्वजन्तवः ।आगमैरपकृष्यन्ते हस्तिपैर्हस्तिनो यथा ॥ ४४ ॥
अर्थांस्तथात्यन्तसुखावहांश्च लिप्सन्त एते बहवो विशुल्काः ।महत्तरं दुःखमभिप्रपन्ना हित्वामिषं मृत्युवशं प्रयान्ति ॥ ४५ ॥
विनाशिनो ह्यध्रुवजीवितस्य किं बन्धुभिर्मित्रपरिग्रहैश्च ।विहाय यो गच्छति सर्वमेव क्षणेन गत्वा न निवर्तते च ॥ ४६ ॥
भूव्योमतोयानलवायवो हि सदा शरीरं परिपालयन्ति ।इतीदमालक्ष्य कुतो रतिर्भवेद्विनाशिनो ह्यस्य न शर्म विद्यते ॥ ४७ ॥
इदमनुपधि वाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ।नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥ ४८ ॥
« »