१२।२०३ महाभारतम् Click on words to see what they mean. युधिष्ठिर उवाच ।योगं मे परमं तात मोक्षस्य वद भारत ।तमहं तत्त्वतो ज्ञातुमिच्छामि वदतां वर ॥ १ ॥ भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ २ ॥ कश्चिद्ब्राह्मणमासीनमाचार्यमृषिसत्तमम् ।शिष्यः परममेधावी श्रेयोर्थी सुसमाहितः ।चरणावुपसंगृह्य स्थितः प्राञ्जलिरब्रवीत् ॥ ३ ॥ उपासनात्प्रसन्नोऽसि यदि वै भगवन्मम ।संशयो मे महान्कश्चित्तन्मे व्याख्यातुमर्हसि ॥ ४ ॥ कुतश्चाहं कुतश्च त्वं तत्सम्यग्ब्रूहि यत्परम् ।कथं च सर्वभूतेषु समेषु द्विजसत्तम ।सम्यग्वृत्ता निवर्तन्ते विपरीताः क्षयोदयाः ॥ ५ ॥ वेदेषु चापि यद्वाक्यं लौकिकं व्यापकं च यत् ।एतद्विद्वन्यथातत्त्वं सर्वं व्याख्यातुमर्हसि ॥ ६ ॥ गुरुरुवाच ।शृणु शिष्य महाप्राज्ञ ब्रह्मगुह्यमिदं परम् ।अध्यात्मं सर्वभूतानामागमानां च यद्वसु ॥ ७ ॥ वासुदेवः सर्वमिदं विश्वस्य ब्रह्मणो मुखम् ।सत्यं दानमथो यज्ञस्तितिक्षा दम आर्जवम् ॥ ८ ॥ पुरुषं सनातनं विष्णुं यत्तद्वेदविदो विदुः ।सर्गप्रलयकर्तारमव्यक्तं ब्रह्म शाश्वतम् ।तदिदं ब्रह्म वार्ष्णेयमितिहासं शृणुष्व मे ॥ ९ ॥ ब्राह्मणो ब्राह्मणैः श्राव्यो राजन्यः क्षत्रियैस्तथा ।माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ।अर्हस्त्वमसि कल्याण वार्ष्णेयं शृणु यत्परम् ॥ १० ॥ कालचक्रमनाद्यन्तं भावाभावस्वलक्षणम् ।त्रैलोक्यं सर्वभूतेषु चक्रवत्परिवर्तते ॥ ११ ॥ यत्तदक्षरमव्यक्तममृतं ब्रह्म शाश्वतम् ।वदन्ति पुरुषव्याघ्रं केशवं पुरुषर्षभम् ॥ १२ ॥ पितॄन्देवानृषींश्चैव तथा वै यक्षदानवान् ।नागासुरमनुष्यांश्च सृजते परमोऽव्ययः ॥ १३ ॥ तथैव वेदशास्त्राणि लोकधर्मांश्च शाश्वतान् ।प्रलये प्रकृतिं प्राप्य युगादौ सृजते प्रभुः ॥ १४ ॥ यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये ।दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु ॥ १५ ॥ अथ यद्यद्यदा भावि कालयोगाद्युगादिषु ।तत्तदुत्पद्यते ज्ञानं लोकयात्राविधानजम् ॥ १६ ॥ युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयः ।लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा ॥ १७ ॥ वेदविद्वेद भगवान्वेदाङ्गानि बृहस्पतिः ।भार्गवो नीतिशास्त्रं च जगाद जगतो हितम् ॥ १८ ॥ गान्धर्वं नारदो वेदं भरद्वाजो धनुर्ग्रहम् ।देवर्षिचरितं गार्ग्यः कृष्णात्रेयश्चिकित्सितम् ॥ १९ ॥ न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।हेत्वागमसदाचारैर्यदुक्तं तदुपास्यते ॥ २० ॥ अनाद्यं यत्परं ब्रह्म न देवा नर्षयो विदुः ।एकस्तद्वेद भगवान्धाता नारायणः प्रभुः ॥ २१ ॥ नारायणादृषिगणास्तथा मुख्याः सुरासुराः ।राजर्षयः पुराणाश्च परमं दुःखभेषजम् ॥ २२ ॥ पुरुषाधिष्ठितं भावं प्रकृतिः सूयते सदा ।हेतुयुक्तमतः सर्वं जगत्संपरिवर्तते ॥ २३ ॥ दीपादन्ये यथा दीपाः प्रवर्तन्ते सहस्रशः ।प्रकृतिः सृजते तद्वदानन्त्यान्नापचीयते ॥ २४ ॥ अव्यक्तकर्मजा बुद्धिरहंकारं प्रसूयते ।आकाशं चाप्यहंकाराद्वायुराकाशसंभवः ॥ २५ ॥ वायोस्तेजस्ततश्चापस्त्वद्भ्यो हि वसुधोद्गता ।मूलप्रकृतयोऽष्टौ ता जगदेतास्ववस्थितम् ॥ २६ ॥ ज्ञानेन्द्रियाण्यतः पञ्च पञ्च कर्मेन्द्रियाण्यपि ।विषयाः पञ्च चैकं च विकारे षोडशं मनः ॥ २७ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं पञ्चेन्द्रियाण्यपि ।पादौ पायुरुपस्थश्च हस्तौ वाक्कर्मणामपि ॥ २८ ॥ शब्दः स्पर्शोऽथ रूपं च रसो गन्धस्तथैव च ।विज्ञेयं व्यापकं चित्तं तेषु सर्वगतं मनः ॥ २९ ॥ रसज्ञाने तु जिह्वेयं व्याहृते वाक्तथैव च ।इन्द्रियैर्विविधैर्युक्तं सर्वं व्यस्तं मनस्तथा ॥ ३० ॥ विद्यात्तु षोडशैतानि दैवतानि विभागशः ।देहेषु ज्ञानकर्तारमुपासीनमुपासते ॥ ३१ ॥ तद्वत्सोमगुणा जिह्वा गन्धस्तु पृथिवीगुणः ।श्रोत्रं शब्दगुणं चैव चक्षुरग्नेर्गुणस्तथा ।स्पर्शं वायुगुणं विद्यात्सर्वभूतेषु सर्वदा ॥ ३२ ॥ मनः सत्त्वगुणं प्राहुः सत्त्वमव्यक्तजं तथा ।सर्वभूतात्मभूतस्थं तस्माद्बुध्येत बुद्धिमान् ॥ ३३ ॥ एते भावा जगत्सर्वं वहन्ति सचराचरम् ।श्रिता विरजसं देवं यमाहुः परमं पदम् ॥ ३४ ॥ नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् ।व्याप्य शेते महानात्मा तस्मात्पुरुष उच्यते ॥ ३५ ॥ अजरः सोऽमरश्चैव व्यक्ताव्यक्तोपदेशवान् ।व्यापकः सगुणः सूक्ष्मः सर्वभूतगुणाश्रयः ॥ ३६ ॥ यथा दीपः प्रकाशात्मा ह्रस्वो वा यदि वा महान् ।ज्ञानात्मानं तथा विद्यात्पुरुषं सर्वजन्तुषु ॥ ३७ ॥ सोऽत्र वेदयते वेद्यं स शृणोति स पश्यति ।कारणं तस्य देहोऽयं स कर्ता सर्वकर्मणाम् ॥ ३८ ॥ अग्निर्दारुगतो यद्वद्भिन्ने दारौ न दृश्यते ।तथैवात्मा शरीरस्थो योगेनैवात्र दृश्यते ॥ ३९ ॥ नदीष्वापो यथा युक्ता यथा सूर्ये मरीचयः ।संतन्वाना यथा यान्ति तथा देहाः शरीरिणाम् ॥ ४० ॥ स्वप्नयोगे यथैवात्मा पञ्चेन्द्रियसमागतः ।देहमुत्सृज्य वै याति तथैवात्रोपलभ्यते ॥ ४१ ॥ कर्मणा व्याप्यते पूर्वं कर्मणा चोपपद्यते ।कर्मणा नीयतेऽन्यत्र स्वकृतेन बलीयसा ॥ ४२ ॥ स तु देहाद्यथा देहं त्यक्त्वान्यं प्रतिपद्यते ।तथा तं संप्रवक्ष्यामि भूतग्रामं स्वकर्मजम् ॥ ४३ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha