Click on words to see what they mean.

मनुरुवाच ।यथा व्यक्तमिदं शेते स्वप्ने चरति चेतनम् ।ज्ञानमिन्द्रियसंयुक्तं तद्वत्प्रेत्य भवाभवौ ॥ १ ॥
यथाम्भसि प्रसन्ने तु रूपं पश्यति चक्षुषा ।तद्वत्प्रसन्नेन्द्रियवाञ्ज्ञेयं ज्ञानेन पश्यति ॥ २ ॥
स एव लुलिते तस्मिन्यथा रूपं न पश्यति ।तथेन्द्रियाकुलीभावे ज्ञेयं ज्ञाने न पश्यति ॥ ३ ॥
अबुद्धिरज्ञानकृता अबुद्ध्या दुष्यते मनः ।दुष्टस्य मनसः पञ्च संप्रदुष्यन्ति मानसाः ॥ ४ ॥
अज्ञानतृप्तो विषयेष्ववगाढो न दृश्यते ।अदृष्ट्वैव तु पूतात्मा विषयेभ्यो निवर्तते ॥ ५ ॥
तर्षच्छेदो न भवति पुरुषस्येह कल्मषात् ।निवर्तते तथा तर्षः पापमन्तं गतं यथा ॥ ६ ॥
विषयेषु च संसर्गाच्छाश्वतस्य नसंश्रयात् ।मनसा चान्यदाकाङ्क्षन्परं न प्रतिपद्यते ॥ ७ ॥
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ।अथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥ ८ ॥
प्रसृतैरिन्द्रियैर्दुःखी तैरेव नियतैः सुखी ।तस्मादिन्द्रियरूपेभ्यो यच्छेदात्मानमात्मना ॥ ९ ॥
इन्द्रियेभ्यो मनः पूर्वं बुद्धिः परतरा ततः ।बुद्धेः परतरं ज्ञानं ज्ञानात्परतरं परम् ॥ १० ॥
अव्यक्तात्प्रसृतं ज्ञानं ततो बुद्धिस्ततो मनः ।मनः श्रोत्रादिभिर्युक्तं शब्दादीन्साधु पश्यति ॥ ११ ॥
यस्तांस्त्यजति शब्दादीन्सर्वाश्च व्यक्तयस्तथा ।विमुञ्चत्याकृतिग्रामांस्तान्मुक्त्वामृतमश्नुते ॥ १२ ॥
उद्यन्हि सविता यद्वत्सृजते रश्मिमण्डलम् ।स एवास्तमुपागच्छंस्तदेवात्मनि यच्छति ॥ १३ ॥
अन्तरात्मा तथा देहमाविश्येन्द्रियरश्मिभिः ।प्राप्येन्द्रियगुणान्पञ्च सोऽस्तमावृत्य गच्छति ॥ १४ ॥
प्रणीतं कर्मणा मार्गं नीयमानः पुनः पुनः ।प्राप्नोत्ययं कर्मफलं प्रवृद्धं धर्ममात्मवान् ॥ १५ ॥
विषया विनिवर्तन्ते निराहारस्य देहिनः ।रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ १६ ॥
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते ।तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ १७ ॥
अस्पर्शनमशृण्वानमनास्वादमदर्शनम् ।अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् ॥ १८ ॥
मनस्याकृतयो मग्ना मनस्त्वतिगतं मतिम् ।मतिस्त्वतिगता ज्ञानं ज्ञानं त्वभिगतं परम् ॥ १९ ॥
इन्द्रियैर्मनसः सिद्धिर्न बुद्धिं बुध्यते मनः ।न बुद्धिर्बुध्यतेऽव्यक्तं सूक्ष्मस्त्वेतानि पश्यति ॥ २० ॥
« »