Click on words to see what they mean.

सूत उवाच ।अथावरणमुख्यानि नानाप्रहरणानि च ।प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ॥ १ ॥
ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ २ ॥
ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति ॥ ३ ॥
ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥ ४ ॥
तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ ५ ॥
ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ ६ ॥
तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् ।चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥ ७ ॥
ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥ ८ ॥
विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥ ९ ॥
ततः प्रवृत्तः संग्रामः समीपे लवणाम्भसः ।सुराणामसुराणां च सर्वघोरतरो महान् ॥ १० ॥
प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः ।तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ॥ ११ ॥
ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु ।असिशक्तिगदारुग्णा निपेतुर्धरणीतले ॥ १२ ॥
छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे ।तप्तकाञ्चनजालानि निपेतुरनिशं तदा ॥ १३ ॥
रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः ।अद्रीणामिव कूटानि धातुरक्तानि शेरते ॥ १४ ॥
हाहाकारः समभवत्तत्र तत्र सहस्रशः ।अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ॥ १५ ॥
परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः ।निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ॥ १६ ॥
छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च ।व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ॥ १७ ॥
एवं सुतुमुले युद्धे वर्तमाने भयावहे ।नरनारायणौ देवौ समाजग्मतुराहवम् ॥ १८ ॥
तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥ १९ ॥
ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ।विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममजय्यमुत्तमम् ॥ २० ॥
तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः ।मुमोच वै चपलमुदग्रवेगवन्महाप्रभं परनगरावदारणम् ॥ २१ ॥
तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा ।विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे ॥ २२ ॥
दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत ।प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमथो पिशाचवत् ॥ २३ ॥
अथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमर्दयंस्तदा ।महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह ॥ २४ ॥
अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।महाद्रयः प्रविगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः ॥ २५ ॥
ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः ।परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते ॥ २६ ॥
नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत् ।विदारयन्गिरिशिखराणि पत्रिभिर्महाभयेऽसुरगणविग्रहे तदा ॥ २७ ॥
ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च ॥ २८ ॥
ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् ॥ २९ ॥
ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम् ।ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह ॥ ३० ॥
« »