ब्राह्मण उवाच ।अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान् ।अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून् ॥ १ ॥
पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः ।नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत् ॥ २ ॥
जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत् ।निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया ॥ ३ ॥
प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च ।क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत ।प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत ॥ ४ ॥
अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन् ।ब्राह्मणावसथं पुण्यमाससाद महीपतिः ॥ ५ ॥
तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः ।तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ ॥ ६ ॥
याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः ।संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ ॥ ७ ॥
तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ ।स तावामन्त्रयामास सर्वकामैरतन्द्रितः ॥ ८ ॥
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे ।प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम् ॥ ९ ॥
पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः ।अर्हयित्वा यथान्यायमुपयाजमुवाच सः ॥ १० ॥
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे ।उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम् ॥ ११ ॥
यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत् ।सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः ॥ १२ ॥
इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह ।आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः ॥ १३ ॥
ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः ।उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा ॥ १४ ॥
ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे ।अपरिज्ञातशौचायां भूमौ निपतितं फलम् ॥ १५ ॥
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन् ।विमर्शं संकरादाने नायं कुर्यात्कथंचन ॥ १६ ॥
दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः ।विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत् ॥ १७ ॥
संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः ।भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा ।कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः ॥ १८ ॥
तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा ।तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति ॥ १९ ॥
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन् ।उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित् ।अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह ॥ २० ॥
अयुतानि ददान्यष्टौ गवां याजय मां विभो ।द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि ॥ २१ ॥
स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः ।तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे ॥ २२ ॥
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः ।कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः ॥ २३ ॥
द्रोणस्य शरजालानि प्राणिदेहहराणि च ।षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत् ॥ २४ ॥
स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम् ।प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः ॥ २५ ॥
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः ।तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि ॥ २६ ॥
ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः ।समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः ।ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते ॥ २७ ॥
सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान् ।द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम् ॥ २८ ॥
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम् ।तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम् ॥ २९ ॥
तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत् ।गुर्वर्थ इति चाकाममुपयाजमचोदयत् ।याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः ॥ ३० ॥
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः ।आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै ॥ ३१ ॥
स च पुत्रो महावीर्यो महातेजा महाबलः ।इष्यते यद्विधो राजन्भविता ते तथाविधः ॥ ३२ ॥
भारद्वाजस्य हन्तारं सोऽभिसंधाय भूमिपः ।आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये ॥ ३३ ॥
याजस्तु हवनस्यान्ते देवीमाह्वापयत्तदा ।प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम् ॥ ३४ ॥
देव्युवाच ।अवलिप्तं मे मुखं ब्रह्मन्पुण्यान्गन्धान्बिभर्मि च ।सुतार्थेनोपरुद्धास्मि तिष्ठ याज मम प्रिये ॥ ३५ ॥
याज उवाच ।याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम् ।कथं कामं न संदध्यात्सा त्वं विप्रैहि तिष्ठ वा ॥ ३६ ॥
ब्राह्मण उवाच ।एवमुक्ते तु याजेन हुते हविषि संस्कृते ।उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः ॥ ३७ ॥
ज्वालावर्णो घोररूपः किरीटी वर्म चोत्तमम् ।बिभ्रत्सखड्गः सशरो धनुष्मान्विनदन्मुहुः ॥ ३८ ॥
सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा ।ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधु साध्विति ॥ ३९ ॥
भयापहो राजपुत्रः पाञ्चालानां यशस्करः ।राज्ञः शोकापहो जात एष द्रोणवधाय वै ।इत्युवाच महद्भूतमदृश्यं खेचरं तदा ॥ ४० ॥
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता ।सुभगा दर्शनीयाङ्गी वेदिमध्या मनोरमा ॥ ४१ ॥
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा ।मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी ॥ ४२ ॥
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रवायति ।या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि ॥ ४३ ॥
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी ।सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति ॥ ४४ ॥
सुरकार्यमियं काले करिष्यति सुमध्यमा ।अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम् ॥ ४५ ॥
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसंघवत् ।न चैतान्हर्षसंपूर्णानियं सेहे वसुंधरा ॥ ४६ ॥
तौ दृष्ट्वा पृषती याजं प्रपेदे वै सुतार्थिनी ।न वै मदन्यां जननीं जानीयातामिमाविति ॥ ४७ ॥
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया ।तयोश्च नामनी चक्रुर्द्विजाः संपूर्णमानसाः ॥ ४८ ॥
धृष्टत्वादतिधृष्णुत्वाद्धर्माद्द्युत्संभवादपि ।धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति ॥ ४९ ॥
कृष्णेत्येवाब्रुवन्कृष्णां कृष्णाभूत्सा हि वर्णतः ।तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे ॥ ५० ॥
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं विवेशनम् ।उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान् ॥ ५१ ॥
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः ।तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात् ॥ ५२ ॥