लक्ष्मीनृसिंहकरुणारसस्तोत्रम्

श्रीमत्पयोनिधिनिकेतनचक्रपाणेभोगीन्द्रभोगमणिराजितपुण्यमूर्ते ।योगीश शाश्वत शरण्य भवाब्धिपोतलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥
ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि-संघट्टिताङ्घ्रिकमलामलकान्तिकान्त ।लक्ष्मीलसत्कुचसरोरुहराजहंसलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥
संसारदावदहनाकरभीकरोरु-ज्वालावलीभिरतिदग्धतनूरुहस्य ।त्वत्पादपद्मसरसीरुहमागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥
संसारजालपतितस्य जगन्निवाससर्वेन्द्रियार्थबडिशाग्रझषोपमस्य ।प्रोत्कम्पितप्रचुरतालुकमस्तकस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥
संसारकूपमतिघोरमगाधमूलंसंप्राप्य दुःखशतसर्पसमाकुलस्य ।दीनस्य देव कृपया पदमागतस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥
संसारभीकरकरीन्द्रकराभिघात-निष्पीड्यमानवपुषः सकलार्तिनाश ।प्राणप्रयाणभवभीतिसमाकुलस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥
संसारसर्पविषदिग्धमहोग्रतीव्र-दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः ।नागारिवाहन सुधाब्धिनिवास शौरेलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥
संसारवृक्षमघबीजमनन्तकर्म-शाखायुतं करणपत्रमनङ्गपुष्पम् ।आरुह्य दु:खफलितं चकितं दयालोलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥
संसारसागरविशालकरालकाल-नक्रग्रहग्रसितनिग्रहविग्रहस्य ।व्यग्रस्य रागनिचयोर्मिनिपीडितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥
संसारसागरनिमज्जनमुह्यमानंदीनं विलोकय विभो करुणानिधे माम् ।प्रह्लादखेदपरिहारपरावतारलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥
संसारघोरगहने चरतो मुरारेमारोग्रभीकरमृगप्रचुरार्दितस्य ।आर्तस्य मत्सरनिदाघसुदुःखितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥
बद्ध्वा गले यमभटा बहु तर्जयन्तःकर्षन्ति यत्र भवपाशशतैर्युतं माम् ।एकाकिनं परवशं चकितं दयालोलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥
लक्ष्मीपते कमलनाभ सुरेश विष्णोयज्ञेश यज्ञ मधुसूदन विश्वरूप ।ब्रह्मण्य केशव जनार्दन वासुदेवलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥
एकेन चक्रमपरेण करेण शङ्ख-मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् ।वामेतरेण वरदाभयपद्मचिह्नंलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥
अन्धस्य मे हृतविवेकमहाधनस्यचोरैर्महाबलिभिरिन्द्रियनामधेयैः ।मोहान्धकारकुहरे विनिपातितस्यलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥
प्रह्लादनारदपराशरपुण्डरीक-व्यासादिभागवतपुंगवहृन्निवास ।भक्तानुरुक्तपरिपालनपारिजातलक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥
लक्ष्मीनृसिंहचरणाब्जमधुव्रतेनस्तोत्रं कृतं शुभकरं भुवि शंकरेण ।ये तत्पठन्ति मनुजा हरिभक्तियुक्ता-स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ लक्ष्मीनृसिंहकरुणारसस्तोत्रं संपूर्णम् ॥

Settings