दशांश होमयेत्तदनु तर्पयेत् । अथ के यज्ञान्कामानद्वैतज्ञानादीननिरुद्धसरस्वतीति । अथ हैष: कालिकामनुजापी यः सदा शुद्धात्मा ज्ञानवैराग्ययुक्तः शाम्भवीदीक्षासु रक्तः शाक्तासु । यदि वा ब्रह्मचारी रात्रौ नग्नः सर्वदा मधुनाशक्तो मनसा जपपूजादिनियमवान् । योषित्प्रियकरो भगोदकेन तर्पणं तेनैव पूजनं कुर्यात् । सर्वदा कालिकारूपमात्मानं विभावयेत् । स सर्वदा योषिदासक्तो भवेत । स सर्वहत्यां तरति तेन मधुदानेन । अथ पञ्चमकारण सर्वमायादिविद्यां पशुधनधान्यं सर्वेशत्वं च कवित्वं च । नान्यः परमः पन्था विद्यते मोक्षाय ज्ञानाय धर्माधर्माय । तत्सर्वं भूतं भव्यं यत्किञ्चिद्दृश्यमानं स्थावरजङ्गमं तत्सर्वं कालिकातन्त्र ओतं प्रातं वेद । य एवं मनुजापी स पाप्मानं तरति । स भ्रूणहत्यां तरति । सोऽगम्यागमनं तरति । स सर्वसुखमाप्नोति । स सर्वं जानाति । स सर्वसंन्यासी भवति । स विरक्तो भवति । स सर्ववेदाध्यायी भवति । स सर्वमन्त्रजापी भवति । स सर्वशास्त्रवेत्ता भवति । स सर्वज्ञानकारी भवति । स आवयोर्मित्रभूतो भवति । इत्याह भगवान् शिवः । निर्विकल्पेन मनसा स वन्द्यो भवति ।