गुर्वष्टकम्

शरीरं सुरूपं तथा वा कलत्रंयशश्चारु चित्रं धनं मेरुतुल्यम् ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
कलत्रं धनं पुत्रपौत्रादि सर्वंगृहं बान्धवाः सर्वमेतद्धि जातम् ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ २ ॥
षडङ्गादिवेदो मुखे शास्त्रविद्याकवित्वादि गद्यं सुपद्यं करोति ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ३ ॥
विदेशेषु मान्यः स्वदेशेषु धन्यःसदाचारवृत्तेषु मत्तो न चान्यः ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ४ ॥
श्रमामण्डले भूपभूपालबृन्दैःसदा सेवितं यस्य पादारविन्दम् ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ५ ॥
यशो मे गतं दिक्षु दानप्रतापा-ज्जगद्वस्तु सर्वं करे यत्प्रसादात् ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ६ ॥
न भोगे न योगे न वा वाजिराजौन कान्तामुखे नैव वित्तेषु चित्तम् ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ७ ॥
अरण्ये न वा स्वस्य गेहे न कार्येन देहे मनो वर्तते मे त्वनर्घ्ये ।मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मेततः किं ततः किं ततः किं ततः किम् ॥ ८ ॥
गुरोरष्टकं यः पठेत्पुण्यदेहीयतिर्भूपतिर्ब्रह्मचारी च गेही ।लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञंगुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गुर्वष्टकं संपूर्णम् ॥

Settings