<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-08</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrividyaganeshashtottarashatanamastotram" xml:lang="sa">
    <body>
      <title n="title">९ ॥ श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रम् ॥</title>
      <lg n="1">
        <l>श्रीमद्विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ।</l>
        <l>वक्ष्यामि शृणु देवेशि सावधानेन चेतसा ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>सर्वपापप्रशमनं सर्वविघ्ननिवारकम् ।</l>
        <l>सर्वरोगहरं दिव्यं साधकाभीष्टदायकम् ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>ब्रह्मादयः सुराः सर्वे वसिष्ठाद्या मुनीश्वराः ।</l>
        <l>विद्यागणाधिनाथस्य चक्राराधनतत्पराः ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>स्तोत्रेणानेन सम्पूज्य जप्त्वा स्वे स्वे पदे स्थिताः ।</l>
        <l>सुखिनोऽद्यापि दृश्यन्ते सद्यः सन्तुष्टमानसाः ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>तादृशं परमं दिव्यं प्रत्यक्षफलदायकम् ।</l>
        <l>यः पठेत् प्रातरुत्थाय चिन्तयेन्मूर्ध्नि<subst>
            <del>वे</del>
            <add>बा</add>
          </subst>लकम्<add>?</add>॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>स सर्वदुरितान्मु<subst>
            <del>क्त्वा</del>
            <add>क्तो</add>
          </subst>सर्वान् कामानवाप्नुयात् ।</l>
        <l>चक्रपूजाविधानेन प्रयाणे समुपस्थिते ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>शोभनेषु समस्तेषु कार्येष्वन्येषु बुद्धिमान् ।</l>
        <l>स्तोत्रेणानेन सम्पूज्य जप्त्वाभीष्टमवाप्नुयात् ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>धान्यकामी लभेद्धान्यं धनकामी धनं लभेत् ।</l>
        <l>सन्तानकामी सन्तानं क्षेत्रार्थी क्षेत्रमुत्तमम् ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>सर्वं लभेत् सर्वकामी निष्कामी तत्फलं लभेत् ।</l>
        <l>विद्यागणपतिर्विघ्नहरो गजमुखोऽव्ययः ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>विज्ञानात्मा वियत्कायो विश्वाकारो विनायकः ।</l>
        <l>विश्वसृग्विश्वभुग्विश्वसंहर्ता विश्वगोपनः ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>विश्वानुग्राहकः सत्यः<subst>
            <del>शिवस्तुल्य</del>
            <add>शिवतुल्यः</add>
          </subst>शिवात्मजः ।</l>
        <l>विचित्रनर्तनो वीरो विश्वसन्तोषवर्धनः ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>विमर्शी विमलाचारो विश्वाकारो विनायकः ।</l>
        <l>स्वतन्त्रः सुलभः खर्चः सुमुखः सुखबोधकः ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>सूर्याग्निशशिदृक् सोमकलाचूडः सुखा<subst>
            <del>न</del>
            <add>स</add>
          </subst>नः ।</l>
        <l>स्वप्रकाशः<subst>
            <del>सुधावक्रः</del>
            <add>स्वधावक्त्रः</add>
          </subst>स्वयं<subst>
            <del>वक्त्रः</del>
            <add>व्यक्तः</add>
          </subst>स्मृतिप्रियः॥१३॥</l>
      </lg>
      <lg n="14">
        <l>शक्तीशः शङ्करः शम्भुः प्रभुर्विभुरुमासुतः ।</l>
        <l>शान्तः शतमखाराध्यश्चतुरश्चक्रनायकः ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>कालजित् करुणामूर्तिरव्यक्तः शाश्वतः शुभः ।</l>
        <l>उग्रकर्मोदितानन्दी शिवभक्तः शिवान्तरः ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>चैतन्यधृतिरव्यग्रः सर्वज्ञः सर्वशत्रु<subst>
            <del>भृ</del>
            <add>हृ</add>
          </subst>त् ।</l>
        <l>सर्वाग्रः समरानन्दी संसिद्धगणनायकः ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>साम्बप्रमोदको वज्री मानसो मोदकप्रियः ।</l>
        <l>एकदन्तो बृहत्कुक्षिः<add rend="brackets">दीर्घतुण्डो</add>विकर्णकः ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>ब्रह्माण्डकन्दुकश्चित्रवर्णश्चित्ररथासनः ।</l>
        <l>तेजस्वी तीक्ष्णधिषणः शक्तिबृन्दनिषेवितः ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>परापराश्च पश्यन्ती प्राणनाथः प्र<add rend="brackets">म</add>त्तहृत् ।<add>(?)</add>
        </l>
        <l>संक्लिष्टमध्यमस्पष्टो वैखरीजनकः शुचिः ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>धर्मप्रवर्तकः कामो भूमिस्फुरितविग्रहः ।</l>
        <l>तपस्वी तरुणोल्लासी योगिनीभोगतत्परः ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>जितेन्द्रियो जयश्रीको जन्ममृत्युविदारणः ।</l>
        <l>जगद्गुरुरमेयात्मा जङ्गमस्थावरात्मकः ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>नमस्कारप्रियो नानामतभेदविभेदकः ।</l>
        <l>नयवित् समदृक् शूरः सर्वलोकैकशासनः ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>विशुद्धविक्रमो वृद्धः संवृद्धः ससुहृद्गणः ।</l>
        <l>सर्वसाक्षी सदानन्दी सर्वलोकप्रियङ्करः ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>सर्वातीतः समरसः सत्यावासः सतां गतिः ।</l>
        <l>इति विद्यागणेशस्य नाम्नामष्टोत्तरं शतम् ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः ।</l>
        <l>तस्य साधकवर्यस्य सर्वावस्थासु सर्वदा ।</l>
        <l>नासाध्यमस्ति किमपि विद्याविघ्नेश्वरात्म<subst>
            <del>ज</del>
            <add>नः</add>
          </subst>॥ २५ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति <add rend="brackets">महाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्पे शङ्करविरचिते</add>
श्रीविद्यागणेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>