<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीशङ्करकवचम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-04-26</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrishankarakavacam" xml:lang="sa">
    <body>
      <title n="title">४२. ॥ अथ श्रीशङ्करकवचम् ॥</title>
      <lg n="1">
        <l>ऐश्वरं परमं तत्त्वमादिमध्यान्तवर्जितम् ।</l>
        <l>आधारं सर्वभूतानामनाधारमविक्रियम् ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>अनन्तानन्दबोधाम्बुनिधिमद्भुतविक्रमम् ।</l>
        <l>अम्बिकापतिमीशानमनीशं प्रणमाम्यहम् ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>एकदा मुनयः सर्वे द्वारकां द्रष्टुमागताः ।</l>
        <l>वासुदेवं च सोत्कण्ठाः कृष्णदर्शनलालसाः ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>ततः स भगवान् प्रीतः पूजां चक्रे यथाविधि ।</l>
        <l>तेषामाशीस्ततो गृह्य बहुमानपुरःसरम् ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>तैः पृष्टः कथयामास कुमारप्रभवं च यत् ।</l>
        <l>चरितं भूमिभारघ्नं लोकानन्दकरं परम् ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>मार्कण्डेयमुखाः सर्वे माध्याह्निकक्रियोत्थिताः ।</l>
        <l>कृष्णः स्नानमथो चक्रे मृदक्षतकुशादिभिः ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>सूर्योपस्थानसन्ध्यां च स्मृतिधर्ममनुस्मरन् ।</l>
        <l>शिवपूजां ततः कृष्णो गन्धपुष्पाक्षतादिभिः ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>चकार विधिवद्भक्त्या नमस्कारयुतां शुभाम् ।</l>
        <l>जय शङ्कर सोमेश रक्ष रक्षेति चाब्रवीत् ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>जजाप शिवसाहस्रं भक्तिमुक्तिप्रदं विभोः ।</l>
        <l>अनन्यमानसः शान्तः पद्मासनगतः शुचिः ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>ततस्ते विस्मयापन्ना दृष्ट्वा कृष्णविचेष्टितम् ।</l>
        <l>मार्कण्डेयोऽवदत् कृष्णं बहुशो मुनिसंमितम् ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>मार्कण्डेयः ---</l>
        <l>त्वं कृष्ण कमलाकान्तः परमात्मा जगद्गुरुः ।</l>
        <l>भवत्पूज्यः कथं शम्भुरेतत्सर्वं वदस्व मे ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>श्रीकृष्ण उवाच ---</l>
        <l>साधु साधु मुने पृष्टं हिताय सकलस्य च ।</l>
        <l>अज्ञातं तव नास्त्येव तथापि च वदाम्यहम् ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>दैवतं सर्वलोकानां सर्वकारणकारणम् ।</l>
        <l>ज्योतिर्यत्परमानन्दं सावधानमतिः शृणु ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>विश्वसाधनमीशानं गुणातीतमजं परम् ।</l>
        <l>जगतस्तस्थुषो ह्यात्मा मम मूलं महामुने ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>यो देवः सर्वदेवानां ध्येयः पूज्यः सदाशिवः ।</l>
        <l>स शिवः स महादेवः शङ्करश्च निरञ्जनः ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>तस्मान्नान्यः परो देवस्त्रिषु लोकेषु विद्यते ।</l>
        <l>सर्वज्ञः सर्वगः शक्तः सर्वात्मा सर्वतोमुखः ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>पठ्यते सर्वसिद्धान्तैर्वेदान्तैर्यो मुनीश्वर ।</l>
        <l>तस्मिन् भक्तिर्महादेवे मम धातुश्च निर्मल ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>महेशः परमं ब्रह्म शान्तः सूक्ष्मः परात्परः ।</l>
        <l>सर्वान्तरः सर्वसाक्षी चिन्मयस्तमसः परः ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>निर्विकल्पो निराभासो निःसङ्गो निरुपद्रवः ।</l>
        <l>निर्लेपः सकलाध्यक्षो महापुरुष ईश्वरः ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>तस्य चेच्छाभवत् पूर्वं जगत्स्थित्यन्तकारिणी ।</l>
        <l>वामाङ्गादभवं तस्य सोऽहं विष्णुरिति स्मृतिः ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>जनयामास धातारं दक्षिणाङ्गात् सदाशिवः ।</l>
        <l>मध्यतो रुद्रमीशानं कालात्मा परमेश्वरः ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>तपस्तपन्तु भो वत्सा अब्रवीदिति तान् शिवः ।</l>
        <l>स्तुत्वा तु विधिवत् स्तोत्रैः प्रणम्य च पुनः पुनः ।</l>
        <l>ततस्ते शिवमात्मानं प्रोचुः संयतमानसाः ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>ब्रह्मविष्णुरुद्रा ऊचुः —</l>
        <l>तपः केन प्रकारेण कर्तव्यं परमेश्वर ।</l>
        <l>ब्रूहि सर्वमशेषेण स्वात्मानं वेत्सि नापरः ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>महादेव उवाच---</l>
        <l>कायेन मनसा वाचा ध्यानपूजाजपादिभिः ।</l>
        <l>कामक्रोधादिरहितं तपः कुर्वन्तु भो सुराः ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>देवा ऊचुः---</l>
        <l>त्वया यत्कथितं शम्भो दुर्ज्ञेयमजितात्मभिः ।</l>
        <l>सौम्योपायमथो ब्रह्मन् वद कारुण्यवारिधे ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>शङ्कर उवाच---</l>
        <l>शृणुध्वं सर्वपापघ्नं भुक्तिमुक्तिप्रदं नृणाम् ।</l>
        <l>सहस्रनाम सद्विद्यां जपन्तु मम सुव्रताः ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>यया संसारमग्नानां मुक्तिर्भवति शाश्वती ।</l>
        <l>शृण्वन्तु तद्विधानं तु महापातकनाशनम् ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>पठतां शृण्वतां सद्यो मुक्तिः स्यादनपायिनी ।</l>
        <l>ब्रह्मचारी कृतस्नानः शुक्लवासा जितेन्द्रियः ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>भस्मधारी मुनिर्मौनी पद्मासनसमन्वितः ।</l>
        <l>ध्यात्वा मां सकलाधीशं निराकारं निरीश्वरम् ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>पार्वतीसहितं शम्भुं जटामकुटमण्डितम् ।</l>
        <l>वसानं चर्म वैयाघ्रं चन्द्रार्धकृतशेखरम् ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>त्र्यम्बकं वृषभारूढं कृत्तिवाससमुज्ज्वलम् ।</l>
        <l>सुरार्चितपदद्वन्द्वं दिव्यभोगं सुसुन्दरम् ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>बिभ्राणं सुप्रसन्नं च कुठारवरदाभयम् ।</l>
        <l>दुरन्तं कमलासीनं नागयज्ञोपवीतिनम् ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>विश्वकायं चिदानन्दं शुद्धमक्षरमव्ययम् ।</l>
        <l>सहस्रशिरसं शम्भुमनन्तकरसंयुतम् ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>सहस्रचरणं दिव्यं सोमसूर्याग्निलोचनम् ।</l>
        <l>जगद्योनिमजं ब्रह्म शिवमाद्यं सनातनम् ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>दंष्ट्राकरालं दुष्प्रेक्षं सूर्यकोटिसमप्रभम् ।</l>
        <l>निशाकरकराकारं भेषजं भवरोगिणाम् ॥ ३५ ॥</l>
      </lg>
      <lg n="36">
        <l>पिनाकिनं विशालाक्षं पशूनां पतिमीश्वरम् ।</l>
        <l>कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ ३६ ॥</l>
      </lg>
      <lg n="37">
        <l>ज्ञानवैराग्यसंपन्नं नित्यानन्दमयं परम् ।</l>
        <l>शाश्वतैश्वर्यसंपूर्णं महायोगीश्वरेश्वरम् ॥ ३७ ॥</l>
      </lg>
      <lg n="38">
        <l>समस्तशक्तिसंपन्नं पुण्यकायं दुरासदम् ।</l>
        <l>तारकं ब्रह्म संपूर्णमणीयांसं महत्तरम् ॥ ३८ ॥</l>
      </lg>
      <lg n="39">
        <l>यतीनां परमं ब्रह्म यतीनां तपसः फलम् ।</l>
        <l>संयमीहृत्समासीनं तपस्विजनसंवृतम् ॥ ३९ ॥</l>
      </lg>
      <lg n="40">
        <l>विधीन्द्रविष्णुनमितं मुनिसिद्धनिषेवितम् ।</l>
        <l>महादेवं महानन्दं देवानामपि दैवतम् ॥ ४० ॥</l>
      </lg>
      <lg n="41">
        <l>शान्तं पवित्रमोङ्कारं ज्योतिषां ज्योतिरुत्तमम् ।</l>
        <l>शंकरो मे शिरः पातु ललाटं फाललोचनः ॥ ४१ ॥</l>
      </lg>
      <lg n="42">
        <l>विश्वचक्षुर्दृशौ पातु रुद्रः पातु भ्रुवौ मम ।</l>
        <l>गण्डौ पातु महेशानः श्रुती रक्षतु पूर्वजः ॥ ४२ ॥</l>
      </lg>
      <lg n="43">
        <l>कपोलौ मे महादेवः पातु नासां सदाशिवः ।</l>
        <l>मुखं पातु हविर्भोक्ता ओष्ठौ पातु महेश्वरः ॥ ४३ ॥</l>
      </lg>
      <lg n="44">
        <l>दन्तान् रक्षतु देवेशस्तालू सोमकलाधरः ।</l>
        <l>रसनां परमानन्दः पातु शङ्खौ शिवाप्रियः ॥ ४४ ॥</l>
      </lg>
      <lg n="45">
        <l>चुबुकं पातु मे शम्भुः श्मश्रुं शत्रुविनाशनः ।</l>
        <l>कुचं पातु भवः कण्ठं नीलकण्ठोऽवतु ध्रुवम् ॥ ४५ ॥</l>
      </lg>
      <lg n="46">
        <l>स्कन्धौ स्कन्दपतिः पातु बाहू पातु महाभुजः ।</l>
        <l>उपबाहू महावीर्यः करौ विबुधसत्तमः ॥ ४६ ॥</l>
      </lg>
      <lg n="47">
        <l>अङ्गुलीः पातु पञ्चास्यः पर्वाणि च सहस्रपात् ।</l>
        <l>हृदयं पातु सर्वात्मा स्तनौ पातु पितामहः ॥ ४७ ॥</l>
      </lg>
      <lg n="48">
        <l>उदरं हुतभुक् पातु मध्यं मे मध्यमेश्वरः ।</l>
        <l>कुक्षिं पातु भवानीशः पृष्ठं पातु कुलेश्वरः ॥ ४८ ॥</l>
      </lg>
      <lg n="49">
        <l>प्राणान् मे प्राणदः पातु नाभिं भीमः कटिं विभुः ।</l>
        <l>सक्थिनी पातु मे भर्गो जानुनी जनताधिपः ॥ ४९ ॥</l>
      </lg>
      <lg n="50">
        <l>जङ्घे पुररिपुः पातु चरणौ भवनाशनः ।</l>
        <l>शरीरं पातु मे शर्वो बाह्यमाभ्यन्तरं शिवः ॥ ५० ॥</l>
      </lg>
      <lg n="51">
        <l>इन्द्रियाणि हरः पातु सर्वत्र जयवर्धनः ।</l>
        <l>पूर्वे दिशि मृडः पातु दक्षिणे यमसूदनः ॥ ५१ ॥</l>
      </lg>
      <lg n="52">
        <l>वारुण्यां सलिलाधीश उदीच्यां मे महीधरः ।</l>
        <l>ऐशान्यां पातु भूतेश आग्नेय्यां रविलोचनः ॥ ५२ ॥</l>
      </lg>
      <lg n="53">
        <l>नैर्ऋत्यां भूतभृत् पातु वायव्यां बलवर्धनः ।</l>
        <l>ऊर्ध्वं पातु मखद्वेषी ह्यधः संसारनाशनः ॥ ५३ ॥</l>
      </lg>
      <lg n="54">
        <l>सर्वतः सुखदः पातु बुद्धिं पातु सुलोचनः ।</l>
        <l>एवं न्यासादिकं कृत्वा साक्षाच्छम्भुमयो भवेत् ॥ ५४ ॥</l>
      </lg>
      <lg n="55">
        <l>नमो हिरण्यबाह्वादि पठेन्मन्त्रं तु भक्तिमान् ।</l>
        <l>सद्योजातादिभिर्मन्त्रैर्नमस्कुर्यात्सदाशिवम् ॥ ५५ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीशङ्करकवचं सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>