<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीरामकर्णामृतम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-04-26</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shriramakarnamrtam" xml:lang="sa">
    <body>
      <title n="title">१९. ॥ अथ श्रीरामकर्णामृतम् ॥</title>
      <lg n="1">
        <l>दिशतु स कुशलं जिते दशास्ये</l>
        <l>विधिविहितस्तुतिवेदितस्वरूपः ।</l>
        <l>उपदिशति शिवो नृणां यदीयं</l>
        <l>मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>विहितविधिमपास्यता निषिद्धा-</l>
        <l>न्यपि चरताप्यकृताक्षनिग्रहेण ।</l>
        <l>यदघमुपचितं मया यतिष्ये</l>
        <l>रघुवरसंस्मरणेन तन्निमार्ष्टुम् ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>चिरपरिचितया मनो विकृष्टं</l>
        <l>दिशि दिशि वासनया न मे नियाम्यम् ।</l>
        <l>इति कवनपथे तवार्य राम</l>
        <l>स्मरणविधावनधे करोम्युपायान् ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>प्रकृतिरिति सरस्वतीति लक्ष्मी-</l>
        <l>रिति गिरिजेति जगत्त्रयीति वा याम् ।</l>
        <l>गदति मुनिगणः कवित्वसिद्ध्यै</l>
        <l>कथमपि तां कलये विदेहकन्याम् ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>मधुरभणितये पतिव्रनानां</l>
        <l>मकुटमणिं कलये महीकुमारीम् ।</l>
        <l>पतिकृतरिपुपातनप्रतिज्ञा-</l>
        <l>दलनभयादहितेऽप्यदत्तशापाम् ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>हृदय विषयमेव सेवसे किं</l>
        <l>यदयमुदग्रविषोपमः क्रमेण ।</l>
        <l>मदयति च निहन्ति च प्रकामं</l>
        <l>तदयनमेत्य गिरा भजस्व रामम् ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>रघुवरचरणारविन्दभक्ति-</l>
        <l>च्छलमकरन्दनिरन्तराभिषिक्ताः ।</l>
        <l>वकुलपरिमला गिरा मदीया</l>
        <l>कविकुलकर्णरसायनानि सन्तु ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>भरतविदितपादुकाप्रभावं</l>
        <l>धरतनुजारमणीयनामधेयम् ।</l>
        <l>करतलधृतकार्मुकं पुमांसं</l>
        <l>मरतकनीलशरीरमाश्रयामः ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>निटिलनयननिर्वृतिप्रदाख्यं</l>
        <l>कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् ।</l>
        <l>कटिलसदसिमम्बुदाभमेकं</l>
        <l>जटिलमुरीकृतचापबाणमीडे ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>निलयमखिलमङ्गलस्य रक्षो-</l>
        <l>बलयवसप्रबलानिलायितास्त्रम् ।</l>
        <l>कलयति हृदयं विदेहकन्या-</l>
        <l>वलयपदाङ्कितकन्धरं पुमांसम् ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>विमोहयति विष्टपत्रयजनान् गुणारोपण-</l>
        <l>क्षणत्रुटितचण्डिकारमणचापचण्ड<subst>
            <del>ध्वनिम्</del>
            <add>ध्वनौ</add>
          </subst>।</l>
        <l>जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं</l>
        <l>परपस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधे-</l>
        <l>र्निबन्धनमपीन्धन<add>... ...</add>बन्धुतूणीशयम् ।</l>
        <l>न कश्चिदपि दृश्यते जगति यस्य शक्तो जये</l>
        <l>स्मरप्रहितजानकीनयनपद्मबाणं विना ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>क एष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः</l>
        <l>स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते ।</l>
        <l>स एष ननु जानकीकुचतटीपटीरद्रव-</l>
        <l>प्रसक्तरसवासनाघुमुघुमायमानः प्रभुः ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>भजे शरधनुर्धरं विकटचित्रकूटाटवी-</l>
        <l>चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् ।</l>
        <l>स्फुटं कलितकुङ्कुमा वदति यस्य वक्षस्तटी</l>
        <l>मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>चिराय विधुरस्य मे विषयघर्मघोरातपैः</l>
        <l>पयोदनिचयोदयप्रतिनिधिः किलेयं दशा ।</l>
        <pb n="299"/>
        <l>नराधमुषि राघवे यदधुना मनः प्रीयते</l>
        <l>समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>कटीघटितवल्कलं घनलसज्जटामण्डलं</l>
        <l>करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् ।</l>
        <l>तमालदलमेचकं धरणिकन्यकाकामुकं</l>
        <l>तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>अचोदितफुलक्रमं पुनरपृष्टजातिक्रियं</l>
        <l>नयानयविचारणाविधुरमस्तशङ्काकणम् ।</l>
        <l>उपेयुषि विभीषणे झटिति दत्तमस्याभयं</l>
        <l>मयेति समुदीरिता भगवतो गिरः पातु नः ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>कल्हाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते</l>
        <l>कूजत्कोकिलबालचूतगहने कूले सरय्वाः शुभे ।</l>
        <l>पश्यान्वेति शुकं शुकीति चिबुके गृह्णन् करेण प्रियां</l>
        <l>चित्ते भाति हि कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>कूजत्केकिनि चित्रकूटकटके गोदावरीमेदुरे</l>
        <l>प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले ।</l>
        <l>कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो</l>
        <l>नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>त्रस्तप्रस्थितहंसयूथमभितो नृत्यन्मयूरव्रजं</l>
        <l>वल्मीकान्तरसंप्रविष्टभुजगं पङ्क्तीभवच्चातकम् ।</l>
        <l>पुष्प्यन्नीपसिलीन्ध्रकेतकजनस्थानाटवीमेयुषा</l>
        <l>कालिम्ना मम केनचित् कवचितं चेतो विराधद्विषः ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>संरम्भस्खलितोत्तरीयमवनिन्यस्ताम्रपादाम्बुजा-</l>
        <l>वुद्यम्य श्लथनीवि पुष्पनिचयं संगृह्णतीं जानकीम् ।</l>
        <l>पश्यन् पञ्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके</l>
        <l>हस्तोपात्तधनुश्शरः स्फुरति मे चित्ते रघुग्रामणीः ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>निर्वृत्ते खरदूषणत्रिशिरसामुन्<subst>
            <del>मा</del>
            <add>मू</add>
          </subst>लनादाहवे</l>
        <l>वैदेही परिषस्वजे सपदि यं मूर्ता जयश्रीरिव ।</l>
        <l>उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तैकहस्ताम्बुजे</l>
        <l>तस्मिन् सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>पायात् पर्णकुटीगतो घनघटासिक्तावनीसौरभ-</l>
        <l>घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले ।</l>
        <l>केकाकण्ठशिखण्डिताण्डव<choice>
            <sic>व</sic>
            <corr/>
          </choice>पदे खेलत्पुरोमारुते</l>
        <l>नन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित-</l>
        <l>ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् ।</l>
        <l>दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे</l>
        <l>कन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्वणन्नूपुरं</l>
        <l>चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् ।</l>
        <l>कान्तव्याघ्रनखानुबन्धिकनकग्रैवेयकालङ्कृतं</l>
        <l>कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे</l>
        <l>गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी ।</l>
        <l>दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं</l>
        <l>पश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>उन्मीलन्नवमञ्जरीपरिमलोदञ्चद्विरेफारवै-</l>
        <l>रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले ।</l>
        <l>शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला-</l>
        <l>ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>सीतादत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं</l>
        <l>हर्षावेक्षिविहारबर्ह्यपसृताभ्यर्णं घटोधन्या गवा ।</l>
        <l>स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं</l>
        <l>साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये विभ्रतीं</l>
        <l>वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् ।</l>
        <l>पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया</l>
        <l>मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>शैलान्मत्तोऽवतरति करिर्ज्यास्वनैर्वारय त्वं</l>
        <l>सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् ।</l>
        <pb n="301"/>
        <l>तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्ग्या</l>
        <l>गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥ । ३० ॥</l>
      </lg>
      <lg n="31">
        <l>हंसी मन्दं चरति हरिणी वीक्षते लोललोलं</l>
        <l>रम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ ।</l>
        <l>इत्याश्चर्याद्वभुवि वधूं दर्शयन्तीं यदि त्वां</l>
        <l>पश्याम्येतैरलमिति वदन् पातु नः कौसलेयः ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतं</l>
        <l>कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव ।</l>
        <l>किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतः</l>
        <l>स्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कले</l>
        <l>नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे ।</l>
        <l>सीतां पुष्पसमित्कुशं हृतवतीं संभावयन्तं दृशा</l>
        <l>बद्धस्वस्तिकमेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः</l>
        <l>संक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् ।</l>
        <l>मृष्टा नेह मनश्शिलेति विसृतां रत्नाङ्गुलीयश्रियं</l>
        <l>वैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>श्लथकचभरान्नैतद्भूमौ निपातय सुन्दरी-</l>
        <l>त्युदितहसितं सव्रीडाया महीदुहितुर्दिशन् ।</l>
        <l>वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं<ref type="noteAnchor" target="347.1">1</ref>
        </l>
        <l>दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५ ॥</l>
      </lg>
      <lg n="36">
        <l>दलितदनुजाटोपे चापाधिरोपितसायके</l>
        <l>मरतकमणिच्छायादायाददायिमहोभरे ।</l>
        <l>प्रणतजनताप्राणत्राणप्रवीणपराक्रमे</l>
        <l>स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६ ॥</l>
      </lg>
      <lg n="37">
        <l>अविदितनतक्लेशानीशानपास्य दिशामहो</l>
        <l>सह परिहरत् कालीकेलीसखं मुरलीभृता ।</l>
        <l>वनमृगपरीवारे वीरे वरेण्यधनुर्धरे</l>
        <l>कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७ ॥</l>
      </lg>
      <note type="footnote" n="note1">1. गर्भकः = शिरोवृतपुष्पगुञ्जा</note>
      <lg n="38">
        <l>स्फटिकधवलान्मेघश्यामे गृहीतमृगानलात्</l>
        <l>धृतधनुरिषौ भूतेशानात् प्लवङ्गमसेविते ।</l>
        <l>मतिरवतरत्यात्तव्याघ्राजिनाद्धृतवल्कले</l>
        <l>शिखरितनयानाथात् पृथ्वीसुतापरिणेतरि ॥ ३८ ॥</l>
      </lg>
      <lg n="39">
        <l>स्वच्छन्दं व्रजसुन्दरीजनविटाद्बद्धैकदारव्रते</l>
        <l>लीलावेणुलसत्करात् त्रिभुवनत्राणाय चापस्पृशि ।</l>
        <l>चोराकृष्टवधूजनात् परिणतौ कीटादिमुक्तिप्रदे</l>
        <l>व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३९ ॥</l>
      </lg>
      <lg n="40">
        <l>कश्चिद्बालो मृत्तिकां भक्षयित्वा</l>
        <l>कश्चिद्वृद्धश्चूतमूले लुठित्वा ।</l>
        <l>मां रक्षेच्चेन्मास्तु तद्यन्ममास्ते</l>
        <l>त्राता सीताकेलिलोलो युवैकः ॥ ४० ॥</l>
      </lg>
      <lg n="41">
        <l>अभिमतफलसिद्ध्यै ध्यातुमेकं सुराणां</l>
        <l>अनुसरति मनो मे यावदाबद्धमेकम् ।</l>
        <l>अपहरति निरुन्धन्नन्तरा तावदेतत्</l>
        <l>कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१ ॥</l>
      </lg>
      <lg n="42">
        <l>क्षणचलितनिरूढस्वर्णदीकर्णभूषे</l>
        <l>परिहृतमयकन्यापत्रलेखप्रसङ्गे ।</l>
        <l>विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये</l>
        <l>कुतुकितमतिभव्ये क्वापि कालिम्नि चेतः ॥ ४२ ॥</l>
      </lg>
      <lg n="43">
        <l>कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ-</l>
        <l>स्तनजघननितम्बं पश्यदन्याङ्गनानाम् ।</l>
        <l>मलिनयति मनश्चेन्मन्मथस्तावता किं</l>
        <l>विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३ ॥</l>
      </lg>
      <lg n="44">
        <l>नवकुवलयदामश्यामलः कोमलाङ्ग्या</l>
        <l>विरचितमधुरश्रीरेकया विद्युतेव ।</l>
        <l>जलधर इव काले जृम्भमाणो मयूरं</l>
        <l>कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४ ॥</l>
      </lg>
      <lg n="45">
        <l>मनसि मम समिन्धे पुण्यभाजामवेक्ष्यः</l>
        <l>कपिसदसि मुनीनां चेतसास्वादनीयः ।</l>
        <pb n="303"/>
        <l>जनकनृपतिकन्यासस्पृहालिङ्गनार्हः</l>
        <l>श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५ ॥</l>
      </lg>
      <lg n="46">
        <l>कुवलयदलनीलः कोऽपि रक्षोवधूनां</l>
        <l>कुचगिरिषु निपातं वाष्पवृष्टेर्विधाता ।</l>
        <l>निखिलभुवनचेतोबर्हिनृत्तैकहेतुः</l>
        <l>शमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६ ॥</l>
      </lg>
      <lg n="47">
        <l>निगमशिखरिशृङ्गान्नित्यमागत्य खेल-</l>
        <l>न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते ।</l>
        <l>दशवदनगजेन्द्रे दर्शिताघातलीलो</l>
        <l>वशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७ ॥</l>
      </lg>
      <lg n="48">
        <l>करयोः शरकार्मुकाभिरामं</l>
        <l>पदयोरश्मविवेककृप्तरागम् ।</l>
        <l>कलितेषुधिमंसयोः प्रभुं तं</l>
        <l>करुणापूर्णमपाङ्गयोरुपासे ॥ ४८ ॥</l>
      </lg>
      <lg n="49">
        <l>अवलम्ब्य शरासमद्रिसारं</l>
        <l>गुणमाकृष्य घनध्वनिं विमुञ्चन् ।</l>
        <l>विशिखानहितेषु रुक्मपुङ्खान्</l>
        <l>विहरत्याहवसीम्नि वीररामः ॥ ४९ ॥</l>
      </lg>
      <lg n="50">
        <l>चरमाङ्गनिबद्धचारुतूणं</l>
        <l>सुरमाङ्गल्यधुरीणचापबाणम् ।</l>
        <l>अलिनीलमुपैति मानसं मे</l>
        <l>नलिनीनायकवंशभागधेयम् ॥ ५० ॥</l>
      </lg>
      <lg n="51">
        <l>दृशि कारुणिकः करे धनुष्मान्</l>
        <l>कुशिकापत्यमखस्य रक्षिता यः ।</l>
        <l>रजनीचरतूलचण्डवातो</l>
        <l>भजनीयो मम सोऽयमेक एव ॥ ५१ ॥</l>
      </lg>
      <lg n="52">
        <l>नवनीरदनीलमात्तचापं</l>
        <l>भवनीहाररविं शृणोति लोकः ।</l>
        <l>अवनीतनयासखं जगत्या</l>
        <l>स्तवनीयं मम दैवमेकमेव ॥ ५२ ॥</l>
      </lg>
      <lg n="53">
        <l>भरिता दयया दृशोः सुराणां</l>
        <l>परितापक्षतये गृहीतचापा ।</l>
        <l>दुरितानि धुनोतु कापि लीला-</l>
        <l>च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५३ ॥</l>
      </lg>
      <lg n="54">
        <l>सुरचारणसिद्धबद्धसेवः</l>
        <l>शरचापाभरणो नवाम्बुदश्रीः ।</l>
        <l>अहिमांशुकुलार्णवेन्दुरेको</l>
        <l>महिमान्तःकरणे ममाविरस्तु ॥ ५४ ॥</l>
      </lg>
      <lg n="55">
        <l>धनुषा सह सायकं दधाने</l>
        <l>जनुषा भूषितचण्डरश्मिवंशे ।</l>
        <l>कुचनम्रमहीसुतानुरक्ते</l>
        <l>क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५५ ॥</l>
      </lg>
      <lg n="56">
        <l>भयकम्पितसागरप्रशस्ते</l>
        <l>मयकन्यातनुमण्डनासहिष्णौ ।</l>
        <l>नवगारुडरत्नभासुरे स्या-</l>
        <l>दवगाढं हृदयं क्वचित् प्रभौ मे ॥ ५६ ॥</l>
      </lg>
      <lg n="57">
        <l>निजनामरसज्ञनीलकण्ठं</l>
        <l>भजनाय प्लवगावृतोपकण्ठम् ।</l>
        <l>बलयन्त्रितसिन्धुमन्तरेकं</l>
        <l>कलयन्नन्यमुपासितुं यते कम् ॥ ५७ ॥</l>
      </lg>
      <lg n="58">
        <l>विकटभ्रुकुटीन् विलोकतेऽरीन्</l>
        <l>विशिखान् मुञ्चति विग्रहान् बिभर्ति ।</l>
        <l>अनुलिम्पति शोणितैर्धरित्रीं</l>
        <l>रणरङ्गे रघुपुङ्गवः समिन्धे<add>(?)</add>॥ ५८ ॥</l>
      </lg>
      <lg n="59">
        <l>स्मयमानमुखेन्दुरिन्द्रनील-</l>
        <l>द्युतिरम्भोजदलेक्षणो धनुष्मान् ।</l>
        <l>तरलीकृतजानकीद्दगन्त-</l>
        <l>स्तरुणः कश्चन में मनो<ref type="noteAnchor" target="350.1">1</ref>धिनोति ॥ ५९ ॥</l>
      </lg>
      <lg n="60">
        <l>दलदुत्पलदामकोमलाङ्गी</l>
        <l>दशकण्ठायुरपायकालभङ्गी ।</l>
        <pb n="305"/>
        <l>मनसे मम रोचतेऽभिरूपा</l>
        <l>करुणा काचिदुपात्तबाणचापा ॥ ६० ॥</l>
      </lg>
      <note type="footnote" n="note2">1. धुनोति</note>
      <lg n="61">
        <l>मौलौ निधेहि मकुटं त्यज बर्हिगर्हं</l>
        <l>बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।</l>
        <l>शाखामृगैर्विहर सन्त्यज गोपबालान्</l>
        <l>रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥</l>
      </lg>
      <lg n="62">
        <l>कृष्णैकसूतरथकेतनभूतदूत</l>
        <l>आनूरुसारथिरथात्मजमित्रभूतः ।</l>
        <l>पाणीश<ellipsis>. . . .</ellipsis>रथस्य शरासभूतः</l>
        <l>कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥</l>
      </lg>
      <lg n="63">
        <l>दृप्यद्दशाननकलत्रकठोरगर्भ-</l>
        <l>विभ्रंशविभ्रमपरिस्फुटसाहसेन ।</l>
        <l>घण्टा विलुण्ठयतु नः कलुषं रवेण</l>
        <l>कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥</l>
      </lg>
      <lg n="64">
        <l>देवद्विषां विजयदेहभृतां शरण्यं</l>
        <l>कारुण्यभूषितकटाक्षमुदग्रचापम् ।</l>
        <l>टङ्कत्रुटन्मरतकोपलरत्ननील-</l>
        <l>धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥</l>
      </lg>
      <lg n="65">
        <l>आस्ते कृतान्त इति पापिषु दण्डधारी-</l>
        <l>त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।</l>
        <l>रक्षिष्यतीति रघुनन्दनमेव साक्षा-</l>
        <l>द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥</l>
      </lg>
      <lg n="66">
        <l>तिष्ठन्तु दारुणतरा निरयाः सहस्रं</l>
        <l>तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।</l>
        <l>पापात्मनोऽपि नियतं परिपालनाय</l>
        <l>कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥</l>
      </lg>
      <lg n="67">
        <l>लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा</l>
        <l>वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।</l>
        <l>दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं</l>
        <l>प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥</l>
      </lg>
      <lg n="68">
        <l>सौवर्णीमवसक्थिकामधिवसन् पार्श्वस्थपृथ्वीसुता</l>
        <l>हास्ताम्भोजयुगक्रमप्रसृतया जातिस्रजा दीर्घया ।</l>
        <l>पाणिभ्यामपि वेष्टयन् कचभरं मौल्येकपार्श्वो चितं</l>
        <l>देवो मे हृदि भाति दत्तनयनो दृश्ये तदेकस्तने ॥ ६८ ॥</l>
      </lg>
      <lg n="69">
        <l>स्वप्नदृष्टं श्लोकान्तरम् ---</l>
        <l>चापसंहितशरं चरमाङ्ने</l>
        <l>बद्धतूणमुपनीविकृपाणम् ।</l>
        <l>वञ्चनामृगवधाय वनान्ते</l>
        <l>सञ्चरन्तमिममन्तरुपासे ॥ ६९ ॥</l>
      </lg>
      <lg n="70">
        <l>कौणपाधिपकदर्शितामरी-</l>
        <l>काङ्क्षितप्रणयिबाणकार्मुकम् ।</l>
        <l>कञ्चन श्रुतिकरण्डमौक्तिकं</l>
        <l>कालिमानमवलोकयामहे ॥ ७० ॥</l>
      </lg>
      <lg n="71">
        <l>जानकीस्तनतटैकपालिका-</l>
        <l>जातकुङ्कमविभागपिञ्जरः ।</l>
        <l>दृश्यते हृदि दयाधुरन्धरः</l>
        <l>कोऽपि कोसलकुलीनकुञ्जरः ॥ ७१ ॥</l>
      </lg>
      <lg n="72">
        <l>मामके हृदि महीकुमारिका</l>
        <l>कामकेलिकुतुकी नृपात्मजः ।<ellipsis>... ...</ellipsis>पदमस्त्रबन्धुरो</l>
        <l>नूतनोदयपयोदसुन्दरः ॥ ७२ ॥</l>
      </lg>
      <lg n="73">
        <l>चन्द्रशेखरशरासनच्छिदा</l>
        <l>चातुरीचणकरारविन्दया ।</l>
        <l>स्वीकृतं मम सुरानुकूलया<ellipsis>. . . . . . </ellipsis>भ्रनीलया ॥ ७३ ॥</l>
      </lg>
      <lg n="74">
        <l>कौणपालिकदलीविषाणिना</l>
        <l>बाणचापपरिकर्मपाणिना ।</l>
        <l>चण्डिकारमणचापखण्डने</l>
        <l>पण्डितेन मम मण्डितं मनः ॥ ७४ ॥</l>
      </lg>
      <lg n="75">
        <l>तुन्नकीर्णकुटिलक्षपाचरे</l>
        <l>कृत्रिमेतरगिरामगोचरे ।</l>
        <pb n="307"/>
        <l>धावते हि कुलदेवतेति मे</l>
        <l>चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥</l>
      </lg>
      <lg n="76">
        <l>कालिकानिभरुचिः कनीयसा</l>
        <l>कान्तया च सह कल्पितासिका ।</l>
        <l>कार्मुकाशुगलसत्कराम्बुजा</l>
        <l>काचिदस्ति करुणा गतिर्मम ॥ ७६ ॥</l>
      </lg>
      <lg n="77">
        <l>मामके मनसि धान्यमालिनी-</l>
        <l>भूषणासहभुजोष्मशालिनी ।</l>
        <l>सा चकास्ति शरचापधारिणी</l>
        <l>भालुमालिकुलभाग्यधोरणी ॥ ७७ ॥</l>
      </lg>
      <lg n="78">
        <l>याति तेजसि मनः सनातने</l>
        <l>दूतभूषितकिरीटिकेतने ।</l>
        <l>यामिनीचरचमूभयङ्करे</l>
        <l>जानकीनयनकेलिकिङ्करे ॥ ७८ ॥</l>
      </lg>
      <lg n="79">
        <l>चङ्क्रमानुकृतगन्धसिन्धुरा</l>
        <l>सिन्धुराजकृतसेतुबन्धना ।</l>
        <l>वासनाधृतशरासनाशुगा</l>
        <l>मेचका मनसि मे चकास्ति सा ॥ ७९ ॥</l>
      </lg>
      <lg n="80">
        <l>बानरक्षपितराक्षसव्रजं</l>
        <l>दीनरक्षणविचक्षणं प्रभुम् ।</l>
        <l>श्रीमदग्र्यशरचापमेति मे</l>
        <l>जामदग्न्यमदनिग्रहं मनः ॥ ८० ॥</l>
      </lg>
      <lg n="81">
        <l>कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं</l>
        <l>कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।</l>
        <l>पाणिद्वन्द्वगृहीतबाणधनुषं पाथोदनीलत्विषं</l>
        <l>पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥</l>
      </lg>
      <lg n="82">
        <l>कुवलयदलनीलश्रीभृतां भूकुमारी-</l>
        <l>कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।</l>
        <l>दशमुखभुजतेजोदर्पतूलानिलानां</l>
        <l>दशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥</l>
      </lg>
      <lg n="83">
        <l>करधृतशरचापः कान्तिमत्पङ्कजाक्षो</l>
        <l>निहितशरधिरंसे नीरदस्निग्धनीलः ।</l>
        <l>वनमृगपरिवारो वन्दनीयो मुनीनां</l>
        <l>मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३ ॥</l>
      </lg>
      <lg n="84">
        <l>मघवदुपलनीले मण्डलीकृत्य चापं</l>
        <l>मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।</l>
        <l>रणधरणिरजोभिर्धूसरे वासरेश-</l>
        <l>प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४ ॥</l>
      </lg>
      <lg n="85">
        <l>शुभगुणकलकण्ठस्तोममाकन्दशाखा-</l>
        <l>नियमिनिवहचेतोनीलकण्ठाभ्ररेखा ।</l>
        <l>दशवदनवधूटीचक्रवाकीत्रियामा</l>
        <l>जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५ ॥</l>
      </lg>
      <lg n="86">
        <l>तारुण्यदर्पतरलीकृतगोपकन्या</l>
        <l>दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।</l>
        <l>काकुत्स्थवीर कमलानयनाभिरामं</l>
        <l>गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६ ॥</l>
      </lg>
      <lg n="87">
        <l>कल्याणमावहतु दाशरथेः कटाक्षः</l>
        <l>शाखामृगे शतमखादपि सानुकम्पः ।</l>
        <l>आभाति भूमितनयाधरबिम्बलोभ-</l>
        <l>सम्पातसंक्रमितलाक्ष इवारुणो यः ॥ ८७ ॥</l>
      </lg>
      <lg n="88">
        <l>(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया ।)</l>
        <l>स कश्चन गिरीन्द्रजासखशरासनव्रश्चको</l>
        <l>मनो हरति मामकं मरतकोपलश्यामलः ।</l>
        <l>धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-</l>
        <l>र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८ ॥</l>
      </lg>
      <lg n="89">
        <l>धन्या वयं धरणिकन्याकया सनाथे</l>
        <l>नाथे स्थिते जगति नः परिपालनाय ।</l>
        <l>यश्शीलितो यतिभिरात्मनि निष्कलङ्के</l>
        <l>लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९ ॥</l>
      </lg>
      <lg n="90">
        <l>दीनानुकम्पि दिवसेश्वरवंशरत्नं</l>
        <l>कर्तृव्यपेतवचसां कथमप्युपेयम् ।</l>
        <pb n="309"/>
        <l>तापिञ्छनीलरुचि तामरसायताक्षं</l>
        <l>चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९० ॥</l>
      </lg>
      <lg n="91">
        <l>आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।</l>
        <l>पश्यामि हृदयकमले रामं दूर्वादलश्याम<add>(ल)</add>म् ॥ ९१ ॥</l>
      </lg>
      <lg n="92">
        <l>मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।</l>
        <l>महिमनि महीकुमारीकुचकुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२ ॥</l>
      </lg>
      <lg n="93">
        <l>जगदघहरप्रशंसे जनकसुतावलयपदविलसदंसे ।</l>
        <l>निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३ ॥</l>
      </lg>
      <lg n="94">
        <l>सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।</l>
        <l>कमपि दलितमयकन्यामङ्गलमालिङ्गति मनो मे ॥ ९४ ॥</l>
      </lg>
      <lg n="95">
        <l>विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।</l>
        <l>निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५ ॥</l>
      </lg>
      <lg n="96">
        <l>गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।</l>
        <l>कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६ ॥</l>
      </lg>
      <lg n="97">
        <l>कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।</l>
        <l>कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७ ॥</l>
      </lg>
      <lg n="98">
        <l>कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।</l>
        <l>करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८ ॥</l>
      </lg>
      <lg n="99">
        <l>दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।</l>
        <l>धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९ ॥</l>
      </lg>
      <lg n="100">
        <l>निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।</l>
        <l>रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०० ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीरामकर्णामृतं सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>