<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीअपराधस्तवः</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-04-26</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shriaparadhastava" xml:lang="sa">
    <body>
      <title n="title">४४. ॥ अथ श्रीअपराधस्तवः ॥</title>
      <lg n="1">
        <l>शम्भो शङ्कर शान्त शाश्वत शिव स्थाणो भवोमापते</l>
        <l>भूतेश त्रिपुरान्तक त्रिनयन श्रीकण्ठ कालान्तक ।</l>
        <l>शर्वोग्राभय भर्ग भीम जगतां नाथाक्षय श्रीनिधे</l>
        <l>रुद्रेशान महेश्वरेश्वर महायोगीशतुभ्यं नमः ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>स्वामिन् सर्वजगद्गुरो हर महालीलाक्षमाक्षेत्रस-</l>
        <l>च्चिद्रूपाखिलभूतभाव्यजगतां नाथ प्रपन्नार्तिहन् ।</l>
        <l>पापघ्नाशुभपाशदुःखभयहृद्भक्तेष्टद ज्ञानद</l>
        <l>श्रीदातर्क्य षडङ्ग मोक्षण महायोगीश तुभ्यं नमः ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>क्रूरं कष्टतरं विनष्टहृदयं भ्रष्टं शठं निष्ठुरं</l>
        <l>निर्लज्जं कृपणं कृतघ्नमशुचिं बह्वाशिनं हिंसकम् ।</l>
        <l>आशापाशशतप्रबद्धमनसं दुष्कीर्तिभाजं जडं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>मूर्खं बालमतिं स्वधर्मरहितं धर्मार्थहीनं खलं</l>
        <l>कामान्धं क्षणिकं कदर्थनपरं दौश्शील्यजन्मस्थलम् ।</l>
        <pb n="124"/>
        <l>अज्ञं लुब्धमसत्यनिष्ठमधमं प्रज्ञायशोवजितं</l>
        <l>कारुण्याकरवारिधे भवपितर्दोषाकरं पाहि माम् ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>क्षुद्रं दुर्भगमल्पसत्त्वमलसं भग्नव्रतं रागिणं</l>
        <l>भीरुं डाम्भिकमीर्ष्यकं व्यसनिनं पापात्मकं सूतकम् ।</l>
        <l>आधिव्याधिनिपीडितं जडधियं सद्भिः सदा निन्दितं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>आकाङ्क्षाश्रयमार्यवर्तिविमुखं क्षीणं गुणद्वेषिणं</l>
        <l>धूर्तं दुर्गुणमत्यशुद्धहृदयं सर्वत्र संदेहिनम् ।</l>
        <l>दीनं पापरतं समस्तविषयेष्वासक्तमन्यायिनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>अश्रद्धं गतपौरुषं कुपथगं जाज्वल्यमानं हृषा</l>
        <l>संसारार्णवमग्नमूर्मितरलं नीचप्रियं निर्दयम् ।</l>
        <l>वैराग्यानतिदानयोगनियमद्वेष्टारमुन्मादिनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>द्वन्द्वग्रस्तसमस्तवृत्तिकुशलं सत्सङ्गविद्वेषिणं</l>
        <l>दुःसङ्गप्रियमप्रतिष्ठवचनं कामातुरं तस्करम् ।</l>
        <l>शैवज्ञानपराङ्मुखं खलजनव्यापारपारङ्गतं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>दुर्मत्यावमतिप्रवृद्धरजसं सद्वृद्धसेवारिपुं</l>
        <l>सद्धर्मेष्वसमुत्सुकं गुरुजने मान्येषु चात्युद्धतम् ।</l>
        <l>शिष्टाशिष्टकरप्रियं च सततं दुष्टस्य तुष्टिप्रदं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि मान् ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>स्मप्नेऽप्युत्तमगन्धपुष्पनिकरैरीशार्चनावर्जितं</l>
        <l>ध्यानाध्यानविचारणागुणरिपुं तुच्छं मदोच्छृङ्गलम् ।</l>
        <l>दारिद्र्यास्पदमात्मवैरिवशगं तापत्रयस्याश्रयं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>आत्मातिस्तुतिकारिणं परमहानिन्दाकरं निन्दितं</l>
        <l>लुण्टाकं पतितं विपर्ययगतस्वान्तं सदा याचकम् ।</l>
        <l>व्याक्रोशाद्विहतस्वकार्यनिचयं सर्वापदां सञ्चयं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>कृत्याकृत्यविचारवर्जितमतिं व्रात्यं महावञ्चकं</l>
        <l>दुर्बुद्धिं मदमानमत्सरनिधिं दुर्वृत्तवृत्त्याश्रयम् ।</l>
        <l>मिथ्याज्ञानिनमार्यकण्टकमलं लोकत्रये दूषितं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>दुष्कर्मप्रचये प्रहृष्टहृदयं क्लेशैश्च संपीडितं</l>
        <l>चार्वाकं कुमतिं कुचेलमलसं कार्पण्यजन्मस्थलम् ।</l>
        <l>भार्यापुत्रगृहादिसक्तमनसं गाम्भीर्यधैर्यच्युतं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>चित्तक्षोभकरं कलङ्कहृदयं शोकास्पदं लोलुपं</l>
        <l>सारासारविचारहीनमनसं नीचप्रियं नीरसम् ।</l>
        <l>मत्तोन्मत्तनिकृष्टनष्टचकितं शून्यं हृदालापिनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>आत्मज्ञानविहीनमात्मविमुखं सर्वात्मभावद्विषं</l>
        <l>सङ्कल्पैर्बहुभिर्विभिन्नहृदयं दैत्यप्रसक्तं सदा ।</l>
        <l>मर्माविद्वचनं कठोरहृदयं मित्रद्रुहं चुम्बकं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>वेदोक्ताचरणाशिवात्मचरितं स्वेच्छाप्रवृत्तिं सदा</l>
        <l>सच्छास्त्रेष्वपरागिणं प्रियतमालक्ष्मीगुणावेष्टितम् ।</l>
        <l>दाक्षिण्यप्रतिपन्नताविरहितं स्वार्थैकदृष्टिं सदा</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>सत्यत्यागद्याक्षमाशमदमाद्यर्थानभिज्ञात्मकं</l>
        <l>देवब्राह्मणगोव्रजातिथिपितृज्ञानात्मकापूजकम् ।</l>
        <l>विश्वस्तेष्वपकारवञ्चनपरं मैत्रीरिपुं दुर्जनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषकरं पाहि माम् ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>कृत्वाधर्ममतिं कथंचिदपरः को मत्समोऽस्मिन्भवे-</l>
        <l>दित्येवं बहुजल्पिनं कुपुरुषं भ्रान्त्याश्रयं राक्षसम् ।</l>
        <l>दृष्टादृष्टसुखैषिणं बत मुदा मुक्त्वा शिवाराधनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>मार्जालाखुबकाश्वकुक्कुटकपिक्रोडाहिवृत्तिं सदा</l>
        <l>तीर्थध्वाङ्क्षमनर्थकं परसुखे सन्तापिनं दुःसहम् ।</l>
        <pb n="126"/>
        <l>त्यक्तोपायममेयकाङ्क्षिणमहो शुण्ठं च चोरोपमं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>अस्पृश्यं विकलं कुधैर्यमखिले दोषे स्वकीये गुणं</l>
        <l>पश्यन्तं चलमात्मकार्यनिरतं पूज्यं विषादात्मकम् ।</l>
        <l>चिन्ताशोकपरीतचेतसमलं सर्वाशुभानां पदं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>दुष्पूरस्वककुक्षिपूरणपरं भारं भुवः केवलं</l>
        <l>दासीमेषखरस्वभावमपटुं संमानने भाजने ।</l>
        <l>रिक्तं बालकदीर्घसूत्रिणमलं हृच्छल्यशीलं सदा</l>
        <l>कारुण्याकर वारिघे भव पितर्दोषाकरं पाहि माम् ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>अत्यादेशिनमुत्तमस्थितिमतां संत्यागिनं नास्तिकं</l>
        <l>रन्ध्रान्वेषिणमन्धमूकबधिरं शम्भोस्तु विश्वात्मनः ।</l>
        <l>माहात्म्य श्रवणस्तुतीक्षणविधौ माहेश्वरा वत्सलं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>दुष्कार्यालघुभारवाहनपशुं तृष्णातृणग्राहिणं</l>
        <l>संसारार्णवदुःखपङ्कपतितं यान्तं सदाधो भृशम् ।</l>
        <l>स्वत्वाहन्त्वममत्वमोहमकरैराकृष्यमाणं सदा</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>भ्रष्टं सर्वजुगुप्सितं परहितव्याघातिनं तामसं</l>
        <l>संभ्रान्तं चपलं विधानविहितव्यापारविद्वेषिणम् ।</l>
        <l>शम्भो त्वत्पदभक्तिहीनमदृढं संमूढमात्मद्विषं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>ज्येष्ठावासमतिप्रमादितमतिं क्षुत्तृड्जराद्यर्दितं</l>
        <l>स्वप्नेऽप्यन्यपरोपकाररहितं सर्वाहितं दुर्लभम् ।</l>
        <l>लोके सत्परिहार्यनिन्दितमहो दुःखप्रदेशक्रियं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम्<supplied>॥</supplied>२५ ॥</l>
      </lg>
      <lg n="26">
        <l>त्वक्चुक्लान्त्रसिरातनूरुहमयं काराख्यरन्ध्रस्थितं</l>
        <l>नानापायपतिष्णु कालशिखिना पापच्यमानं भृशम् ।</l>
        <l>दृष्ट्वापि स्वकलेबरं कृशतरं तत्रापि रक्तं पशुं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>किं वाचा बहुविस्तरेण भगवन् मत्संनिभो भूतले</l>
        <l>नाभून्नास्ति च नो भविष्यति पुमान् निर्भाग्यचूडामणिः ।</l>
        <l>तस्मादीदृशमात्मवञ्चकमहो त्रैलोक्यचूडामणे</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>सर्वश्रेष्ठ गुणैकभाजन विभो सत्त्वोत्तमेषूत्तमा-</l>
        <l>संख्येयावगुणैकभाजनमलं कष्टातिकष्टक्रियम् ।</l>
        <l>श्रीशाश्रीशमतीन्द्रियेन्द्रियवशं निस्सङ्गिनं सङ्गिनं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि<supplied> </supplied>माम्<supplied>॥</supplied>२८ ॥</l>
      </lg>
      <lg n="29">
        <l>विण्मूत्रकृमिमांसशोणितमयं मेदोऽस्थिमज्जात्मकं</l>
        <l>निर्गन्धैकनिधिं जरापरिगतं वातादिदोषात्मकम् ।</l>
        <l>दृष्ट्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि<choice>
            <sic>मात्</sic>
            <corr>माम्</corr>
          </choice>॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>विष्ठामूत्रजन्त्वनिष्टमशुभं स्वाभाव्यतो नश्वरं</l>
        <l>कृष्णक्षेण्यविषूचिकाज्वरशिरश्शूलादिरोगास्पदम् ।</l>
        <l>ज्ञात्वा तु स्वशरीरमत्र तु सदा वैराग्यहीनं पशुं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>पङ्गुत्वान्ध्यजरित्वमौर्यखलताबाधिर्यजन्मस्थलं</l>
        <l>क्लेद्यच्छेद्यविशोष्यदाह्यकृशतास्थौल्यस्वभावात्मकम् ।</l>
        <l>संपश्यन्नपि दोषमत्र तु सदा संप्रीतियुक्तं पशुं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>देहक्षालनलेपनादिविधिना संस्पर्शयोग्यं त्वचा</l>
        <l>दन्नं<add>(?)</add>क्लिन्नमहार्णवं व्रणमुखैर्नित्यं स्रवन्तं मलम् ।</l>
        <l>तं दृष्ट्वाप्यविरागिणं च नरके शूनं सरागं पशुं</l>
        <l>कारुण्याकरवारिधे भव पितर्दोषाकरं पाहि माम् ॥ ३२ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीअपराधस्तवः सम्पूर्णः ॥</trailer>
    </body>
  </text>
</TEI>