दशश्लोकीस्तुतिः

साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयंसाम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजेसाम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयंयं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत-स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयंकोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः ।तूणीरो जलधियाः श्रुतिचयो मौर्वी भुजंगाधिप-स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समंयेन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् ।येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समंतस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः ।यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायतेशीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।वेदान्त निलयायते सुविनयो यस्य स्वभावायतेतस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।संपूज्यासुरसंहतिं दिविलयंस्त्रैलोक्यपालोऽभव-त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शनेचक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।मिथ्यावाचमपूज्यमेव सततं इंसस्वरूपं विधिंतस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयोविख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवंतस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९ ॥
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदासंभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्घक्षणा-त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ दशश्लोकीस्तुतिः संपूर्णा ॥

Settings