दशश्लोकी

न भूमिर्न तोयं न तेजो न वायु-र्न खं नेन्द्रियं वा न तेषां समूहः ।अनेकान्तिकत्वात्सुषुप्त्येकसिद्ध-स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ १ ॥
न वर्णा न वर्णाश्रमाचारधर्मान मे धारणाध्यानयोगादयोऽपि ।अनात्माश्रयाहं ममाध्यासहाना-त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ २ ॥
न माता पिता वा न देवा न लोकान वेदा न यज्ञा न तीर्थं ब्रुवन्ति ।सुषुप्तौ निरस्तातिशून्यात्मकत्वा-त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ३ ॥
न सांख्यं न शैवं न तत्पाञ्चरात्रंन जैनं न मीमांसकादेर्मतं वा ।विशिष्टानुभूत्या विशुद्धात्मकत्वा-तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ४ ॥
न चोर्ध्वं न चाधो न चान्तर्न बाह्यंन मध्यं न तिर्यङ् न पूर्वापरा दिक् ।वियद्व्यापकत्वादखण्डैकरूप-स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ५ ॥
न शुक्लं न कृष्णं न रक्तं न पीतंन कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।अरूपं तथा ज्योतिराकारकत्वा-त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ६ ॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षान च त्वं न चाहं न चायं प्रपञ्चः ।स्वरूपावबोधो विकल्पासहिष्णु-स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ७ ॥
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-र्न विश्वो न वा तैजसः प्राज्ञको वा ।अविद्यात्मकत्वात्त्रयाणां तुरीय-स्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ८ ॥
अपि व्यापकत्वाद्धि तत्त्वप्रयोगा-त्स्वतः सिद्धभावादनन्याश्रयत्वात् ।जगत्तुच्छमेतत्समस्तं तदन्य-त्तदेकोऽवशिष्टः शिवः केवलोऽहम् ॥ ९ ॥
न चैकं तदन्यद्द्वितीयं कुतः स्था-न वा केवलत्वं न चाकेवलत्वम् ।न शून्यं न चाशून्यमद्वैतकत्वा-त्कथं सर्ववेदान्तसिद्धं ब्रवीमि ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ दशश्लोकी समाप्ता ॥

Settings