ब्रह्मानुचिन्तनम्

अहमेव परं ब्रह्म वासुदेवाख्यमव्ययम् ।इति स्यान्निश्चितो मुक्तो बद्ध एवान्यथा भवेत् ॥ १ ॥
अहमेव परं ब्रह्म निश्चितं चित्त चिन्त्यताम् ।चिद्रूपत्वादसङ्गत्वादवाध्यत्वात्प्रयत्नतः ॥ २ ॥
अहमेव परं ब्रह्म न चाहं ब्रह्मणः पृथक् ।इत्येवं समुपासीत ब्राह्मणो ब्रह्मणि स्थितः ॥ ३ ॥
सर्वोपाधिविनिर्मुक्तं चैतन्यं च निरन्तरम् ।तद्ब्रह्माहमिति ज्ञात्वा कथं वर्णाश्रमी भवेत् ॥ ४ ॥
अहं ब्रह्मास्मि यो वेद स सर्वं भवति त्विदम् ।नाभूत्या ईशते देवास्तेषामात्मा भवेद्धि सः ॥ ५ ॥
अन्योऽसावहमन्योऽस्मीत्युपास्ते योऽन्यदेवताम् ।न स वेद नरो ब्रह्म स देवानां यथा पशुः ॥ ६ ॥
अहमात्मा न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥ ७ ॥
आत्मानं सततं ब्रह्म संभाव्य विहरन्ति ये ।न तेषां दुष्कृतं किंचिद्दुष्कृतोत्था न चापदः ॥ ८ ॥
आत्मानं सततं ब्रह्म संभाव्य विहरेत्सुखम् ।क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ॥ ९ ॥
तन्महापातकं हन्ति तमः सूर्योदयो यथा ।अज्ञानाद्ब्रह्मणो जातमाकाशं बुद्बुदोपमम् ॥ १० ॥
आकाशाद्वायुरुत्पन्नो वायोस्तेजस्ततः पयः ।अद्भ्यश्च पृथिवी जाता ततो व्रीहियवादिकम् ॥ ११ ॥
पृथिव्यप्सु पयो वह्नौ वह्निर्वायौ नभस्यसौ ।नभोऽप्यव्याकृते तच्च शुद्धे शुद्धोऽस्म्यहं हरिः ॥ १२ ॥
अहं विष्णुरहं विष्णुरहं विष्णुरहं हरिः ।कर्तृभोक्त्रादिकं सर्वं तदविद्योत्थमेव च ॥ १३ ॥
अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः ।आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १४ ॥
नित्योऽहं निर्विकल्पोऽहं निराकारोऽहमव्ययः ।सच्चिदानन्दरूपोऽहं पञ्चकोशातिगोऽस्म्यहम् ॥ १५ ॥
अकर्ताहमभोक्ताहमसङ्गः परमेश्वरः ।सदा मत्संनिधानेन चेष्टते सर्वमिन्द्रियम् ॥ १६ ॥
आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन ।स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥ १७ ॥
ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ।अशक्नुवन्भावयितुं वाक्यमेतत्सदाभ्यसेत् ॥ १८ ॥
यदभ्यासेन तद्भावो भवेद्भ्रमरकीटवत् ।अत्रापहाय संदेहमभ्यसेत्कृतनिश्चयः ॥ १९ ॥
ध्यानयोगेन मासैकाद्ब्रह्महत्यां व्यपोहति ।संवत्सरं सदाभ्यासात्सिद्ध्यष्टकमवाप्नुयात् ॥ २० ॥
यावज्जीवं सदाभ्यासाज्जीवन्मुक्तो भवेद्यतिः ।नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ॥ २१ ॥
न मनोऽहं न बुद्धिश्च नैव चित्तमहंकृतिः ।नाहं पृथ्वी न सलिलं न च वह्निस्तथानिलः ॥ २२ ॥
न चाकाशो न शब्दश्च न च स्पर्शस्तथा रसः ।नाहं गन्धो न रूपं च न मायाहं न संसृतिः ॥ २३ ॥
सदा साक्षिस्वरूपत्वाच्छिव एवास्मि केवलः ।मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ॥ २४ ॥
मयि सर्वं लयं याति तद्ब्रह्मास्म्यहमद्वयम् ।सर्वज्ञोऽहमनन्तोऽहं सर्वेशः सर्वशक्तिमान् ॥ २५ ॥
आनन्दः सत्यबोधोऽहमिति ब्रह्मानुचिन्तनम् ।अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमव्ययम् ॥ २६ ॥
अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा ।ब्रह्मैवाहं न संसारी न चाहं ब्रह्मणः पृथक् ॥ २७ ॥
नाहं देहो न मे देहः केवलोऽहं सनातनः ।एकमेवाद्वितीयं वै ब्रह्मणो नेह किंचन ॥ २८ ॥
हृदयकमलमध्ये दीपवद्वेदसारंप्रणवमयमतर्क्यं योगिभिर्ध्यानगम्यम् ।हरिगुरुशिवयोगं सर्वभूतस्थमेकंसकृदपि मनसा वै चिन्तयेद्यः स मुक्तः ॥ २९ ॥

Settings