ब्रह्मज्ञानावलीमाला

सकृच्छ्रवणमात्रेण ब्रह्मज्ञानं यतो भवेत् ।ब्रह्मज्ञानावलीमाला सर्वेषां मोक्षसिद्धये ॥ १ ॥
असङ्गोऽहमसङ्गोऽहमसङ्गोऽहं पुनः पुनः ।सच्चिदानन्दरूपोऽहमहमेवाहमव्ययः ॥ २ ॥
नित्यशुद्धविमुक्तोऽहं निराकारोऽहमव्ययः ।भूमानन्दस्वरूपोऽहमहमेवाहमव्ययः ॥ ३ ॥
नित्योऽहं निरवद्योऽहं निराकारोऽहमच्युतः ।परमानन्दरूपोऽहमहमेवाहमव्ययः ॥ ४ ॥
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।अखण्डानन्दरूपोऽहमहमेवाहमव्ययः ॥ ५ ॥
प्रत्यक्चैतन्यरूपोऽहं शान्तोऽहं प्रकृतेः परः ।शाश्वतानन्दरूपोऽहमहमेवाहमव्ययः ॥ ६ ॥
तत्त्वातीतः परात्माहं मध्यातीतः परः शिवः ।मायातीतः परंज्योतिरहमेवाहमव्ययः ॥ ७ ॥
नानारूपव्यतीतोऽहं चिदाकारोऽहमच्युतः ।सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ ८ ॥
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ ९ ॥
गुणत्रयव्यतीतोऽहं ब्रह्मादीनां च साक्ष्यहम् ।अनन्तानन्तरूपोऽहमहमेवाहमव्ययः ॥ १० ॥
अन्तर्यामिस्वरूपोऽहं कूटस्थः सर्वगोऽस्म्यहम् ।परमात्मस्वरूपोऽहमहमेवाहमव्ययः ॥ ११ ॥
निष्कलोऽहं निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ १२ ॥
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ १३ ॥
प्रज्ञानघन एवाहं विज्ञानघन एव च ।अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ १४ ॥
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ॥
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।अवस्थात्रयसाक्ष्यम्मि चाहमेवाहमव्ययः ॥ १६ ॥
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।दृग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥ १७ ॥
अहं साक्षीति यो विद्याद्विविच्यैवं पुनः पुनः ।स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥ १८ ॥
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ १९ ॥
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ।अनेन वेद्यं सच्छास्त्रमिति वेदान्तडिण्डिमः ॥ २० ॥
अन्तर्ज्योतिर्बहिर्ज्योतिः प्रत्यग्ज्योतिः परात्परः ।ज्योतिर्ज्योतिः स्वयंज्योतिरात्मज्योतिः शिवोऽस्म्यहम् ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ब्रह्मज्ञानावलीमाला संपूर्णा ॥

Settings