अथ वामदेवः परमेश्वरं सृष्टिस्थितिलयकारणमुमासहितं स्वशिरसा प्रणम्येति होवाच । अधीहि भगवन् सर्वविद्यां सर्वरहस्यवरिष्ठां सदा सद्भिः पूज्यमानां निगूढाम् । कया च पूजया सर्वपापं व्यपोह्य परात्परं शिवसायुज्यमाप्नोति ? केनैकेन वस्तुना मुक्तो भवति ? तं होवाच भगवान् सदाशिवः ।