भगवन्मानसपूजा

हृदम्भोजे कृष्णः सजलजलदश्यामलतनुःसरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।शरद्राकानाथप्रतिमवदनः श्रीमुरलिकांवहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥
पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव-न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै-गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥
त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरंभजस्वेमं पञ्चामृतफलरसाप्लावमघहन् ।सुनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदंजलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥
तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरणप्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले ।ललाटे पाटीरं मृगमदयुतं धारय हरेगृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥
दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदंमुखं दीपेनेन्दुप्रभविरजसं देव कलये ।इमौ पाणी वाणीपतिनुत सकर्पूररजसाविशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥
सदा तृप्तान्नं षड्रसवदखिलव्यञ्जनयुतंसुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।यशोदासूनो तत्परमदययाशान सखिभिःप्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥
सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरेफलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदंप्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥
विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितंचतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ॥
नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुःकृतं नृत्यं गीतं स्तुनिरपि रमाकान्त त इयम् ।तव प्रीत्यै भूयादहमपि च दासस्तव विभोकृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
सदा सेव्यः कृष्णः सजलघननीलः करतलेदधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।कदाचित्कान्तानां कुचकलशपत्रालिरचना-समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भगवन्मानसपूजा संपूर्णा ॥

Settings