आथर्वणद्वितीयोपनिषत्

Click Settings to choose another script or language.
ह्रीं श्रीं या वै शिवा भगवती अणिमासिद्ध्यादिदशकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अणिमासिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती लघिमासिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती महिमासिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ईशित्वसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती वशित्वसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्राकाम्यसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती मुक्तिसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती इच्छासिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्राप्तिसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्रकामसिद्धिस्तस्यै वै नमोनमः । ह्रीं श्रीं या वै शिवा भगवती ब्राह्म्यष्टकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती आं ब्राह्मीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या शिवा भगवती ईं माहेश्वरीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऊं कौमारीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ॠं वैष्णवीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ॡं वाराहीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऐं इन्द्राणीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती औं चामुण्डाशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती महालक्ष्मीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती मुद्रादशकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती द्रां सर्वसंक्षोभिणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा मगवती द्रीं दाविणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती क्लीं सर्वाकर्षिणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती क्लीं सर्ववशङ्करीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सः उन्मादिनीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वे शिवा भगवती क्रों महाङ्कुशमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वैं शिवा भगवती हस्खफ्र्Eं खेचरीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सौं बीजमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऐं सर्वयोनिमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सौं त्रिखण्डमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्रथमचक्रेश्वरी त्रिपुरा देवी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अणिमादिसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंक्षोभिणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कामाकर्षिण्यादिषोडशकंतस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कामाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती बुद्ध्याकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अहङ्काराकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती शब्दाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्री या वै शिवा भगवती स्पर्शाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती रूपाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या शिवा भगवती रसाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती गन्धाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती चित्ताकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती धैर्याकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती स्मृत्याकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती नामाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती बीजाकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती आत्माकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अमृताकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती शरीराकर्षिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती द्वितीयचक्रेश्वरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऐं क्लीं सौः त्रिपुरेश्वरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती द्रीं सर्वविद्राविणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अनङ्गकुसुमाष्टकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कं खं गं घं ङं अनङ्गकुसुमा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती चं छं जं झं ञं अनङ्गमेखला तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती टं ठं डं ढं णं अनङ्गमदना तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती तं थं दं धं नं अनङ्गमदनातुरा तस्यै वै नमो नमः ।ह्रीं श्रीं या शिवा भगवती पं फं बं भं मं अनङ्गरेखा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती यं रं लं वं अनङ्गवेगा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती शं षं सं हं अनङ्गाङ्कुशा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती लं क्षं अनङ्गमालिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्रीं क्लीं सौः तृतीयचक्रेश्वरी त्रिपुरसुन्दरी देवी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती क्लीं सर्वाकर्षिणीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंक्षोभिण्यादिचतुर्दशकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंक्षोभिणीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वविद्राविणीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वाकर्षिणीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वाह्लादिनीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंमोहिनीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वन्तंभिनीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वजृंभणीशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वरञ्जनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्ववशङ्करी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वोन्मादिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वार्थसाधकी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंपत्तिपूरणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वमन्त्रमयी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वद्वन्द्वक्षयङ्करी देवी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऐं क्लीं सौः त्रिपुरवासिनी देवी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ईशित्वसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवतीब्लूं सर्ववशङ्करीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसिद्धिप्रदादिदशकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसिद्धिप्रदा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वसंपत्प्रदा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वप्रियङ्करी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वमङ्गलकारिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वकामप्रदा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वदुःखविमोचनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वमृत्युप्रशमनी तम्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वविघ्ननिवारणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वाङ्गसुन्दरी तस्यै वै नमो नमः । ह्रीं श्रीं या शिवा भगवती सर्वसौभाग्यदायिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सैं ह्स्लीं ह्सौः पञ्चमचक्रेश्वरी त्रिपुराश्रीस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती वशित्वसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती उन्मादिनीमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वज्ञादिदशकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वज्ञशक्तिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वशक्तिदेवी तम्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वैश्वर्यप्रदायिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वज्ञानमयी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वव्याधिविनाशिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वाधारस्वरूपिणी तस्यै वै नमो नमः । ह्रीं श्रीं वै शिवा भगवती सर्वपापहरा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वानन्दमयी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वरक्षास्वरूपिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वैं शिवा भगवतीसर्वेप्सितफलप्रदा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्रीं क्लीं ब्लें त्रिपुरामालिनी नित्या तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्राकाम्यसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती क्रों महाङ्कुशमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती वशिन्याद्यष्टकं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः वशिनी वाग्वादिनी देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कं खं गं घं डं कलह्रीं कामेश्वरी वाग्देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती चं छं जं झं ञं क्लीं मोदिनी वाग्देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती टं ठं डं ढं णं ह्लूं विमला वाग्देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती तं थं दं धं नं अरुणा वाग्देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती पं फं बं भं मं हसलव्यूं जयिनी वाग्देवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती यं रं लं वं ह्स्म्यों सर्वेश्वरी तम्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती शं षं सं हं क्ष्वीं कौलिनी तम्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्रीं श्रीं सौः सप्तमचक्रेश्वरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती त्रिपुरा सिद्धा नित्या तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती भुक्तिसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्स्ख्फ्रें खेचरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती यां रां लां वां शां द्रां द्रीं क्लीं ब्लूं सः बाणस्तम्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती धं थं सं मोहनकोदण्डरूपिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती आं ह्रीं पाशरूपिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती क्रों अङकुशरूपिणी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सैंह्स्लीं ह्सौः त्रिपुरजननी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती इच्छासिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सौं बीजमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कामेश्वर्यादिदेवतात्रयं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती वाग्भवकूटे कामेश्वरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती कामराजकुटे वज्रेश्वरी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती शक्तिकूटे भगमालिनी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती हसकलरडैं हसकलरडां हसकलरडैं तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती प्राप्तिसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ऐं योनिमुद्रा तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ओङ्कारपीठदेवता तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वात्मकेन सर्वेश्वरी देवी तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वकामसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती त्रिपुरसुन्दरी त्रिपुरवासिनी त्रिपुराश्रीस्त्रिपुरमालिनी त्रिपुरासिद्धिस्त्रिपुरजननी त्रिपुरभैरवी ताभ्यो वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती सर्वकामसिद्धिस्तस्यै वै नमो नमः । ह्रीं श्रीं या वै शिवा भगवती ह्सौ त्रिखण्डमुद्रा तस्यै नमो नमः ।
ब्रह्मब्रह्मविदित्यतैर्मन्त्रैर्भगवतीं यजेत् ।
इत्याह भगवान् । ततो देवी स्वात्मानं दर्शयति । तस्माद्य एतैर्मन्त्रैर्यजति स ब्रह्म पश्यति । स सर्वं पश्यति । सोऽमृतत्वं च गच्छति । य एवं वेद । इति महोपनिषत् ॥
इत्याथर्वणद्वितीयोपनिषत् समाप्ता