अर्धनारीश्वरस्तोत्रम्

चाम्पेयगौरार्धशरीरकायैकर्पूरगौरार्धशरीरकाय ।धम्मिल्लकायै च जटाधरायनमः शिवायै च नमः शिवाय ॥ १ ॥
कस्तूरिकाकुङ्कुमचर्चितायैचितारजःपुञ्जविचर्चिताय ।कृतस्मरायै विकृतस्मरायनमः शिवायै च नमः शिवाय ॥ २ ॥
झणत्क्वणत्कङ्कणनूपुरायैपादाब्जराजत्फणिनूपुराय ।हेमाङ्गदायै भुजगाङ्गदायनमः शिवायै च नमः शिवाय ॥ ३ ।
विशालनीलोत्पललोचनायैविकासिपङ्केरुहलोचनाय ।समेक्षणायै विषमेक्षणायनमः शिवायै च नमः शिवाय ॥ ४ ॥
मन्दारमालाकलितालकायैकपालमालाङ्कितकन्धराय ।दिव्याम्बरायै च दिगम्बरायनमः शिवायै च नमः शिवाय ॥ ५ ॥
अम्भोधरश्यामलकुन्तलायैतटित्प्रभाताम्रजटाधराय ।निरीश्वरायै निखिलेश्वरायनमः शिवायै च नमः शिवाय ॥ ६ ॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायैसमस्तसंहारकताण्डवाय ।जगज्जनन्यै जगदेकपित्रेनमः शिवायै च नमः शिवाय ॥ ७ ॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायैस्फुरन्महापन्नगभूषणाय ।शिवान्वितायै च शिवान्वितायनमः शिवायै च नमः शिवाय ॥ ८ ॥
एतत्पठेदष्ठकमिष्टदं योभक्त्या स मान्यो भुवि दीर्घजीवी ।प्राप्नोति सौभाग्यमनन्तकालंभूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रं संपूर्णम् ॥

Settings