आनन्दलहरी

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैःप्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-र्विशिष्यानाख्येयो भवति रसनामात्रविषयः ।तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयःकथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
मुखे ते ताम्बूलं नयनयुगले कज्जलकलाललाटे काश्मीरं विलसति गले मौक्तिकलता ।स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयीभजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवतीसती शंभोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४ ॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-र्वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।तटित्पीता पीताम्बरललितमञ्जीरसुभगाममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥
हिमाद्रेः संभूता सुललितकरैः पल्लवयुतासुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसारुजां हन्त्री गन्त्री विलसति चिदानन्दलतिका ॥ ६ ॥
सपर्णामाकीर्णां कतिपयगुणैः सादरमिहश्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।अपर्णैका सेव्या जगति सकलैर्यत्परिवृतःपुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥
विधात्री धर्माणां त्वमसि सकलाम्नायजननीत्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।त्वमादिः कामानां जननि कृतकन्दर्पविजयेसतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥
प्रभूता भक्तिस्ते यदपि न ममालोलमनस-स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।पयोदः पानीयं दिशति मधुरं चातकमुखेभृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥
कृपापाङ्गालोकं वितर तरसा साधुचरितेन ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।न चेदिष्टं दद्यादनुपदमहो कल्पलतिकाविशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥
महान्तं विश्वासं तव चरणपङ्केरुहयुगेनिधायान्यन्नैवाश्रितमिह मया दैवतमुमे ।तथापि त्वच्चेतो यदि मयि न जायेत सदयंनिरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥
अयः स्पर्शे लग्नं सपदि लभते हेमपदवींयथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।तथा तत्तत्पापैरतिमलिनमन्तर्मम यदित्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥
त्वदन्यस्मादिच्छाविषयफललाभे न नियम-स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-त्वदाकारं चञ्चच्छशधरकलासौधशिखरम् ।मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयतेतवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥
निवासः कैलासे विधिशतमखाद्याः स्तुतिकराःकुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।महेशः प्राणेशस्तदवनिधराधीशतनयेन ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥
वृषो वृद्धो यानं विषमशनमाशा निवसनंश्मशानं क्रीडाभूर्भुजगनिवहो भूषणविधिः ।समग्रा सामग्री जगति विदितैव स्मररिपो-र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा ॥ १६ ॥
अशेषब्रह्माण्डप्रलयविधिनैसर्गिकमतिःश्मशानेष्वासीनः कृतभसितलेपः पशुपतिः ।दधौ कण्ठे हालाहलमखिलभूगोलकृपयाभवत्याः संगत्याः फलमिति च कल्याणि कलये ॥ १७ ॥
त्वदीयं सौन्दर्यं निरतिशयमालोक्य परयाभियैवासीद्गङ्गा जलमयतनुः शैलतनये ।तदेतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपयाप्रतिष्ठामातन्वन्निजशिरसि वासेन गिरिशः ॥ १८ ॥
विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-प्रसूनव्यामिश्रं भगवति तवाभ्यङ्गसलिलम् ।समादाय स्रष्टा चलितपदपांसून्निजकरैःसमाधत्ते सृष्टिं विबुधपुरपङ्केरुहदृशाम् ॥ १९ ॥
वसन्ते सानन्दे कुसुमितलताभिः परिवृतेस्फुरन्नानापद्मे सरसि कलहंसालिसुभगे ।सखीभिः खेलन्तीं मलयपवनान्दोलितजलेस्मरेद्यस्त्वां तस्य ज्वरजनितपीडापसरति ॥ २० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ आनन्दलहरी संपूर्णा ॥

Settings