This text does not support clickable word meanings.

( नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः —यो गाधिपुत्रमखविघ्नकराभिहन्तायुद्धे विराधखरदूषणवीर्यहन्ता ।दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्तापायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्ये )
सुग्रीव ! इत इतः ।
( प्रविश्य )
पारिपार्श्विकः —भाव !कुतोनुखल्वेष समुत्थितो ध्वनिःप्रवर्तते श्रोत्रविदारणो महान् ।प्रचण्डवातोद्धतभीमगामिनांबलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥
सूत्रधारः —मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनितसन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,दाराभिमर्शननिर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयोः सर्ववानराधिपतिं हेममालिनं वालिनं हन्तुं समुद्योगः प्रवर्तते । तत एतौ हि,इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ ।पुनः स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ॥ ३ ॥
( निष्क्रान्तौ )
स्थापना ।
( ततः प्रविशति रामो लक्ष्मणसुग्रीवौ, हनुमांश्च । )
राम: —सुग्रीव ! इत इतः ।मत्सायकान्निहतभिन्नविकीर्णदेहंशत्रुं तवाद्य सहसा भुवि पातयामि ।राजन् ! भयं त्यज ममापि समीपवर्तीदृष्टस्त्वया च समरे निहतः स वाली ॥ ४ ॥
सुग्रीवः —देव ! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के, किं पुनर्वानराणाम् । कुतः,मुक्तो देव ! तवाद्य वालिहृदयं भेत्तुं न मे संशयःसालान् सप्त महावने हिमगिरेः शृङ्गोपमालीधर ! ।भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयंमज्जन् वीर ! पयोनिधौ पुनरयं सम्प्राप्तवान् सायकः ॥ ५ ॥
हनुमान् —तव नृप ! मुखनिःसृतैर्वचोभि-र्विगतभया हि वयं विनष्टशोकाः ।रघुवर ! हरये जयं प्रदातुंगिरिमभिगच्छ सनीरनीरदाभम् ॥ ६ ॥
लक्ष्मणः —आर्य ! सोपस्नेहतया वनान्तरस्याभितः खलु किष्किन्धया भवितव्यम् ।
सुग्रीवः —सम्यगाह कुमारः ।सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ताकिष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता ।तिष्ठ त्वं नृवर ! करोम्यहं विसंज्ञंनादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥
रामः —भवतु, गच्छ ।
सुग्रीवः —यदाज्ञापयति देवः ।( परिक्रम्य ) भोः !अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! ।युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥
( नेपथ्ये )
कथं कथं सुग्रीव इति ।
( ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह । )
वाली — —कथं कथं सुग्रीव इति ।तारे ! विमुञ्च मम वस्त्रमनिन्दिताङ्गि !प्रस्रस्तवक्त्रनयने ! किमसि प्रवृत्ता ।सुग्रीवमद्य समरे विनिपात्यमानंतं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥
तारा —पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आगमिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वं ।[ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः । तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ]
वाली —आः,शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !शत्रोर्मे निशितपरश्वधः शिवो वा ।नालं मामभिमुखमेत्य सम्प्रहर्तुंविष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥
तारा —पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं दाव करेउं अरिहदि महाराओ । [ प्रसीदतु प्रसीदतु महाराजः । अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ]
वाली —श्रूयतां मत्पराक्रमः ।तारे ! मया खलु पुरामृतमन्थनेऽपिगत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥
तारा —पसीअउ पसीअउ महाराओ।प्रसीदतु प्रसीदतु महाराज: ।
वाली —आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।
तारा —एसा गच्छामि मन्दभाआ ।( निष्क्रान्ता ) [ एषा गच्छामि मन्दभागा । ]
वाली —हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।( द्रुतमुपगम्य ) सुप्रीव ! तिष्ठ तिष्ठ ।इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥इत इतः ।
सुग्रीवः —यदाज्ञापयति महाराज: ।
( उभौ नियुद्धं कुरुतः । )
राम: —एष एष वाली,सन्दष्टोष्ठश्चण्डसंरक्तनेत्रोमुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।गर्जन् भीमं वानरो भाति युद्धेसंवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥
लक्ष्मणः —सुग्रीवमपि पश्यत्वार्यः,विकसितशतपत्ररक्तनेत्रःकनकमयाङ्गदनद्धपीनबाहुः ।हरिवरमुपयाति वानरत्वाद्गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥वालिना ताडितः पतितः सुग्रीवः ।
हनुमान् —हा ! धिक् ।( ससम्भ्रमं राममुपगम्य ) जयतु देवः । अस्यैषावस्था ।बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥
रामः —हनूमन् ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते ।( शरं मुक्त्वा ) हन्त पतितो वाली ।
लक्ष्मणः —एष एष वाली,रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रःकठिणविपुलबाहुः काललोकं विविक्षुः ।अभिपतति कथञ्चिद् धीरमाकर्षमाणःशरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥
वाली —( ( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा राममुद्दिश्य ) )युक्तं भो ! नरपतिधर्ममास्थितेनयुद्धे मां छलयितुमक्रमेण राम ! ।वीरेण व्यपगतधर्मसंशयेनलोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥हन्त भोः ! भवता सौम्यरूपेण यशसो भाजनेन च ।छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।
रामः —कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
वाली —कः संशयः ।
रामः —न खल्वेतत् । पश्य,वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥
वाली —दण्ड्य इति मां भवान् मन्यते ।
रामः —कः संशयः ।
वाली —केन कारणेन ।
रामः —अगम्यागमनेन ।
वाली —अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
रामः —ननु युक्तं भोः !भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥
वाली —भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।
रामः —दण्डितस्त्वं हि दण्ड्यत्वाद्, अदण्डयो नैव दण्ड्यते ।
वाली —सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।तस्य दाराभिमर्शेन कथं दण्ड्योऽस्मि राघव ! ॥ २१ ॥
रामः —न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् ।
वाली —हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपापोऽहं ननु ।
रामः —एवमस्तु
सुग्रीवः —हा धिक् ।करिकरसदृशौ गजेन्द्रगामि-स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।अवनितलगतौ समीक्ष्य बाहूहरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥
वाली —मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः ।
( नेपथ्ये )
हा हा महाराओ ।
वाली —सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवंगतं नार्हति मां द्रष्टुम् ।
सुग्रीवः —यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् ।हनूमान् - यदाज्ञापयति कुमारः । ( निष्क्रान्तः । )
( ततः प्रविशत्यङ्गदो हनूमांश्च )
हनूमान् —अङ्गद ! इत इतः ।
अङ्गदः —श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३ ॥हनूमन् ! कुत्र महाराजः ।
हनूमान् —एष महाराजः,शरनिर्भिन्नहृदयो विभाति धरणीतले ।गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥
अङ्गदः —( उपसृत्य ) हा महाराज !अतिबलमुखशायी पूर्वमासीर्हरीन्द्रःक्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।शरवरपरिवीतं व्यक्तमुत्सृज्य देहंकिमभिलषसि वीर स्वर्गमद्याभिगन्तुम् ॥ २५ ॥
( इति भूमौ पतितः । )
वाली —अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !मया कृतं दोषमपास्य बुद्ध्यात्वया हरीणामधिपेन सम्यक् ।विमुच्य रोषं परिगृह्य धर्मंकुलप्रवालं परिगृह्यतां नः ॥ २६ ॥
सुग्रीवः —यदाज्ञापयति महाराजः ।
वाली —भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं क्षन्तुमर्हसि ।
रामः —बाढम् ।
वाली —सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
सुग्रीवः —अनुगृहीतोऽस्मि ।( प्रतिगृह्णाति । )
वाली —हनूमन् ! आपस्तावत् ।
हनूमान् —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) इमा आपः ।
वाली —( आचम्य ) परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र-हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः । १भवतु । अयमयमागच्छामि । ( स्वर्यातः । )
सर्वे —हा हा महाराज !
रामः —हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः ।
सुग्रीवः —यदाज्ञापयति देवः ।
रामः —लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।
( निष्क्रान्ताः सर्वे । )

अथ द्वितीयोऽङ्कः ।

( ततः प्रविशति ककुभः । )
ककुभः —निष्ठितप्रायत्वात् कार्यस्याहारव्यावृताः सर्वे वानरयूथपाः । तस्मादहमपि किञ्चिदाहारजातं सम्भावयामि ।( तथा करोति )
( प्रविश्य )
बिलमुखः —पेसिओ म्हि महाळाएण सुग्गीवेण--अय्यरामस्स किदोवआरप्पच्चुवआरणिमित्तं सव्वासु दिसासु सीदाविअअणे पेसिआ सव्वे वाणरा आअदा । तेसं दक्खिणापहमुहस्स कुमारस्स अङ्गदस्स पवुत्तिं जाणिअ सिग्घं आअच्छत्ति । ता कहिंणुहु गओ कुमारो ।( परिक्रम्याग्रतो विलोक्य ) एसो अय्यकउहो । जाव णं पुच्छामि । ( उपसृत्य ) सुहं अय्यस्स । [ प्रेषितोऽस्मि महाराजेन सुग्रीवेण--आर्यरामस्य कृतोपकारप्रत्युपकारनिमित्तं सर्वासु दिशासु सीताविचयने प्रेषिताः सर्वे वानरा आगताः । तेषां दक्षिणापथमुखस्यकुमारस्याङ्गदस्य प्रवृत्तिं ज्ञात्वा शीघ्रमागच्छेति । तत् क्वनुखलु गतः कुमारः । एष आर्यककुभः । यावदेनं पृच्छामि । सुखमार्यस्य । ]
ककुभः —अये बिलमुखः । कुतो भवान् ।
बिलमुखः —अय्य! महाळाअस्स सासणेण कुमारं अङ्गदं पेक्खिदुं आउदो म्हि ।[ आर्य ! महाराजस्य शासनेन कुमारमङ्गदं प्रेक्षितमागतोऽस्मि । ]
ककुभः —अपि कुशली आर्यरामो महाराजश्च ।
बिलमुखः —आम् ।
ककुभः —कोऽभिप्रायो महाराजस्य ।
( बिलमुखः पेसिओ म्हि इति पूर्ववत् पठति )
ककुभः —किं न जानीषे निष्ठितमर्धं कार्यस्य ।
बिलमुखः —किं किम् ।
ककुभः —श्रूयतां,लब्ध्वा वृत्तान्तं रामपत्न्याः खगेन्द्राद्आरुह्यागेन्द्रं सद्विपेन्द्रं महेन्द्रम् ।लङ्कामभ्येतुं वायुपुत्रेण शीघ्रंवीर्यप्राबल्याल्लङ्घितः सागरोऽद्य ॥ १ ॥तस्मादागच्छ, कुमारपादमूलमेव संश्रयावः ।
( निष्क्रान्तौ । )
विष्कम्भकः ।
( ( त )( )( )तः( प्रविशति राक्षसीगणपरिवृता सीता । ) )
सीता —हद्धि अदिधीरा खु म्हि मन्दभाआ । जा अय्यउत्तविरहिदा रक्खसराअभवणं आणीदा अणिट्ठाणि अणरिहाणि जहमणोरहप्पवुत्ताणि वअणाणि साविअमाणा जीवामि मन्दभाआ । आदुअय्यउत्तसाअअप्पञ्चएण कहं वि अत्ताणं पय्यवत्थावेमि । किंणुखु अज्ज पज्जाळिअमाणे कम्मआरग्गिमण्डळे उदअप्पसेओ विअ किञ्चि हिअअप्पसादो समुप्पण्णो । किंणुखु मं अन्तरेण पसण्णहिअओ अय्यउत्तो भवे । [ हा धिग् अतिधीरा खल्वस्मि मन्दभागा । यार्यपुत्रविरहिता राक्षसराजभवनमानीतानिष्टान्यनर्हाणि यथामनोरथप्रवृत्तानि वचनानि श्राव्यमाणा जीवामि मन्दभागा । अथवा आर्यपुत्रसायकप्रत्ययेन कथमप्यात्मानं पर्यवस्थापयामि । किन्नुखल्वद्य प्रज्वाल्यमाने कर्मकाराग्निमण्डले उदकप्रसेक इव किञ्चिद् हृदयप्रसादः समुत्पन्नः। किन्नुखलु मामन्तरेण प्रसन्नहृदय आर्यपुत्रो भवेत् । ]
( ततः प्रविशति हनूमान् अङ्गुलीयकहस्तः । )
हनुमान् —( लङ्कां प्रविश्य ) अहो रावणभवनस्य विन्यासः ।कनकरचितचित्रतोरणाढ्यामणिवरविद्रुमशोभितप्रदेशा ।विमलविकृतसञ्चितैर्विमानै-र्वियति महेन्द्रपुरीव भाति लङ्का ॥ २ ॥अहोतुखलु, एतां प्राप्य दशग्रीवो राजलक्ष्मीमनुत्तमाम् ।विमार्गप्रतिपन्नत्वाद् व्यापादयितुमुद्यतः ॥ ३ ॥( सर्वतो गत्वा ) विचरितप्राया मया लङ्का । गर्भागारविनिष्कुटेषु बहुशः शालाविमानादिषुस्नानागारनिशाचरेन्द्रभवनप्रासादहर्म्येषु च ।पानागारनिशान्तदेशविवरेष्वाक्रान्तवानस्म्यहंसर्वं भोः ! विचितं न चैव नृपतेः पत्नी मया दृश्यते ॥ ४ ॥अहो व्यर्थो मे परिश्रमः । भवतु, एतद्धर्म्याग्रमारुह्यावलोकयामि । ( तथा कृत्वा ) अये अयं प्रमदवनराशिः । इमं प्रविश्य परीक्षिष्ये । ( प्रविश्यावलोक्य ) अहो प्रमदवनसमृद्धिः । इह हि, कनकरचितविद्रुमेन्द्रनीलै-र्विकृतमहाद्रुमपङ्क्तिचित्रदेशा ।रुचिरतरनगा विभाति शुभ्रानभसि सुरेन्द्रविहारभूमिकल्पा ॥ ५ ॥अपि च, चित्रप्रस्तुतहेमधातुरुचिराः शैलाश्वदृष्टा मयानानावारिचराण्डजैर्विरचिता दृष्टा मया दीर्घिकाः ।नित्यं पुष्पफलाढ्यपादपयुता देशाश्च दृष्टा मयासर्वं दृष्टमिदं हि रावणगृहे सीता न दृष्टा मया ॥ ६ ॥कोनुखल्वेतस्मिन् प्रदेशे सप्रभ इव दृश्यते । तत्र तावदवलोकयामि । ( तथा कृत्वा ) अये कानुखल्वियम् । राक्षसीभिः परिवृता विकृताभिः सुमध्यमा ।नीलजीमूतमध्यस्था विद्युल्लेखेव शोभते ॥ ७ ॥यैषा, असितभुजगकल्पां धारयन्त्येकवेणींकरपरिमितमध्या कान्तसंसक्तचित्ता ।अनशनकृशदेहा बाष्पसंसिक्तवस्त्रासरसिजवनमालेवातपे विप्रविद्धा ॥ ८ ॥अये कथं दीपिकावलोकः । ( विलोक्य ) अये रावणः । मणिविरचितमौलिश्चारुताम्रायताक्षो मदसललितगामी मत्तमातङ्गलीलः ।किमिदानीं करिष्ये । भवतु, दृष्टम् । एनमशोकपादपमारुह्य कोटरान्तरितो भूत्वा दृढं वृत्तान्तं ज्ञास्यामि । ( तथा करोति । ) युवतिजननिकाये भात्यसौ राक्षसेशोहरिवि हरिणीनामन्तरे चेष्टमानः ॥ ९ ॥
( ततः प्रविशति रावणः सपरिवारः । )
रावण: —दिव्यास्त्रैः सुरदैत्यदानवचमूविद्रावणं रावणंयुद्धे क्रुद्धसुरेभदन्तकुलिशव्यालीढवक्षस्स्थलम् ।सीता मामविवेकिनी न रमते सक्ता च मुग्धेक्षणाक्षुद्रे क्षत्रियतापसे ध्रुवमहो दैवस्य विघ्नक्रिया ॥ १० ॥( ऊर्ध्वमवलोक्य ) एष एष चन्द्रमाः, रजतरचितदर्पणप्रकाशःकरनिकरैर्हृदयं ममाभिपीड्य ।उदयति गगने विजृम्भमाणःकुमुदवनप्रियबान्धवः शशाङ्कः ॥ ११ ॥( परिक्रम्य ) एषा सीता पादपमूलमाश्रित्य ध्यानसंवतिहृदयानशनक्षामवदना स्वदेहमिव प्रवेष्टुकामा सङ्गूढस्तनोदरी दुर्दिनान्तर्गता चन्द्रलेखेव राक्षसीगणपरिवृतोपविष्टा । यैषा, अपास्य भोगान् मां चैव श्रियं च महतीमिमाम् ।मानुषे न्यस्तहृदया नैव वश्यत्वमागता ॥ १२ ॥
हनूमान् —हन्त सुविज्ञातम् ।इयं सा राजतनया पत्नी रामस्य मैथिली ।सिंहदर्शनवित्रस्ता मृगीव परितप्यते ॥ १३ ॥
रावणः —( उपेत्य )सीते! त्यज त्वं व्रतमुग्रचर्यंभजस्व मां भामिनि ! सर्वगात्रैः ।अपास्य तं मानुषमद्य भद्रे !गतायुषं कामपथान्निवृत्तम् ॥ १४ ॥
सीता —हस्सो खु रावणओ, जो वअणगदसिद्धिं वि ण जाणादि ।हास्यः खलु रावणकः, यो वचनगतसिद्धिमपि न जानाति ।
हनूमान् —( सक्रोधम् ) अहो रावणस्यावलेपः ।तौ च बाहू न विज्ञाय तच्चापि सुमहद् धनुः ।सायकं चापि रामस्य गतायुरिति भाषते ॥ १५ ॥न शक्नोमि रोषं धारयितुम् । भवतु, अहमेवार्यरामस्य कार्यं साधयामि । अथवा, यद्यहं रावणं हन्मि कार्यसिद्धिर्भविष्यति ।यदि मां प्रहरेद् रक्षो महत् कार्यं विपद्यते ॥ १६ ॥
रावणः —वरतनु ! तनुगात्रि ! कान्तनेत्रे ।कुवलयदामनिभां विमुच्य वेणीम् ।बहुविधमणिरत्नभूषिताङ्गंदशशिरसं मनसा भजस्व देवि ! ॥ १७ ॥
सीता —हं विपरीओ खु धम्मो, जं जीवदि खु अअं पापरक्खसो ।हैं, विपरीतः खलु धर्मः, यद् जीवति खल्वयं पापराक्षसः ।
रावणः —ननु देवि ।
सीता —सत्तो सि ।शप्तोऽसि ।
रावणः —हहह, अहो पतिव्रतायास्तेजः ।देवाः सेन्द्रादयो भग्ना दानवाश्च मया रणे ।सोऽहं मोहं गतोऽस्म्यद्य सीतायास्त्रिभिरक्षरैः ॥ १८ ॥
( नेपथ्ये )
जयतु देवः । जयतु लङ्केश्वरः । जयतु स्वामी । जयतु महाराजः । दश नाडिकाः पूर्णाः । अतिक्रामति स्नानवेला । इत इतो महाराजः ।
( निष्क्रान्तः सपरिवारो रावणः । )
हनूमान् —हन्त निर्गतो रावणः, सुप्ताश्च राक्षसस्त्रियः । अयं कालो देवीमुपसर्पितुम् ।( कोटरादवरुह्य ) जयत्वविधवा ।प्रेषितोऽहं नरेन्द्रेण रामेण विदितात्मना ।त्वद्गतस्नेहसन्तापविक्लवीकृतचेतसा ॥ १९ ॥
सीता —( आत्मगतम् ) कोणुखु अअं, पापरक्खसो अय्यउत्तरओ त्ति अत्ताणं ववदिसिअ वाणररूवेण मं वञ्चिदुकामो भवे । भोदु, तुह्णिआ भविस्सं । [ कोनुखल्वयं, पापराक्षस आर्यपुत्रसंबन्धीत्यात्मानं व्यपदिश्य वानररूपेण मां वञ्चयितुकामो भवेत् । भवतु, तूष्णीका भविष्यामि । ]
हनूमान् —कथं न प्रत्येति भवती । अलमन्यशङ्कया । श्रोतुमर्हति भवती ।इक्ष्वाकुकुलदीपेन सन्धाय हरिणा त्वहम् ।प्रेषितस्त्वद्विचित्यर्थं हनूमान् नाम वानरः ॥ २० ॥
सीता —( आत्मगतम् ) जो वा को वा भोदु । अय्यउत्तणामसङ्कि त्तणेण अहं एदेण अभिभासिस्सं । ( प्रकाशम् ) भद्द ! को वुत्तन्तो अय्यउत्तस्स । [ यो वा को वा भवतु । आर्यपुत्रनामसंकीर्तनेनाहमेतेनाभिभाषिष्ये । भद्र ! को वृत्तान्त आर्यपुत्रस्य । ]
हनूमान् —भवति ! श्रूयताम्,अनशनपरितप्तं पाण्डु स क्षामवक्त्रंतव वरगुणचिन्तावीतलावण्यलीलम् ।वहति विगतधैर्यं हीयमानं शरीरंमनसिजशरदग्धं बाष्पपर्याकुलाक्षम् ॥ २१ ॥
सीता —( आत्मगतम् ) हद्धि वीळिआ खु म्हि मन्दभाआ एवं सोअन्तं अय्यउत्तं सुणिअ । अय्यउत्तस्स विरहपरिस्समो वि मे सफळो संवुत्तो त्ति पेक्खामि, जदि खु अअं वाणरो सच्चं मन्तेदि । अय्यउत्तस्स इमस्सिं जणे अणुक्कोसं परिस्समं च सुणिअ सुहस्स दुक्खस्स अ अन्तरे डोळाअदि विअ मे हिअअं ( प्रकाशम ) भद्द ! कहं तुम्हेहि अय्यउत्तस्स सङ्गमो जादो । [ हा धिग् व्रीडिता खल्वस्मि मन्दभागा एवं शोचन्तमार्यपुत्रं श्रुत्वा । आर्यपुत्रस्य विरहपरिश्रमोऽपि मे सफलः संवृत्त इति पश्यामि, यदि खल्वयं वानरः सत्यं मन्त्रयते । आर्यपुत्रस्यास्मिन् जनेऽनुक्रोशं परिश्रमं च श्रुत्वा सुखस्य दुःखस्य चान्तरे दोलायत इव मे हृदयम् । भद्र ! कथं युष्माभिरार्यपुत्रस्य संगमो जातः । ]
हनूमान् —भवति ! श्रूयतां ।हत्वा वालिनमाहवे कपिवरं त्वत्कारणादग्रजंसुग्रीवस्य कृतं नरेन्द्रतनये ! राज्यं हरीणां ततः ।राज्ञा त्वद्विचयाय चापि हरयः सर्वा दिशः प्रेषिता-स्तेषामस्म्यहमद्य गृध्रवचनात् त्वां देवि ! सम्प्राप्तवान् ॥ २२ ॥अपि च, ईदृशमिव ।
सीता —अहो अअरुणा क्खु इस्सरा एव्वं सोअन्तं अय्यन्तं करअन्तो ।अहो अकरुणाः खल्वीश्वरा एवं शोचन्तमार्यपुत्रं कुर्वन्तः ।
हनूमान् —भवति ! मा विषादेन । रामो हि,प्रगृहीतमहाचापो वृतो वानरसेनया ।समुद्धर्तुं दशग्रीवं लङ्कामेवाभियास्यति ॥ २३ ॥
सीता —किण्णुखु सिविणो मए दिट्ठो । भद्द ! अवि सच्चं । ण आणामि ।[ किन्नुखलु स्वप्नो मया दृष्टः । भद्र ! अपि सत्यम् । न जानामि । ]
हनूमान् —( स्वगतम् ) भोः ! कष्टम् ।एवं गाढं परिज्ञाय भर्तारं भर्तृवत्सला ।न प्रत्यायति शोकार्ता यथा देहान्तरं गता ॥ २४ ॥( प्रकाशम् ) भवति ! अयमिदानीं, समुदितवरचापबाणपाणिं पतिमिह राजसुते ! तवानयामि ।भव हि विगतसंशया मयि त्वं नरवरपार्श्वगता विनीतशोका ॥ २५ ॥
सीता —भद्द ! एदं मे अवत्थं सुणिअ अय्यउत्तो जह सोअपरवसो ण होइ, तह मे उत्तन्तं भणेहि ।[ भद्र ! एतां मेऽवस्थां श्रुत्वार्यपुत्रो यथा शोकपरवशो न भवति, तथा मे वृत्तान्तं भण । ]
हनूमान् —यदाज्ञापयति भवती ।
सीता —गच्छ, कय्यसिद्धी होदु ।गच्छ कार्यसिद्धिर्भवतु ।
हनूमान् —अनुगृहीतोऽस्मि ।( परिक्रम्य ) कथमिदानीं ममागमनं रावणाय निवेदयामि । भवतु, दृष्टम् ।परभृतगणजुष्टं पद्मषण्डाभिरामंसुरुचिरतरुषण्डं तोयदाभं त्रिकूटम् ।करचरणविमर्दैः काननं चूर्णयित्वाविगतविषयदर्पं राक्षसेशं करोमि ॥ २६ ॥
( निष्क्रान्तौ )
द्वितीयोऽङ्कः ।

अथ तृतीयोऽङ्कः ।

( ततः प्रविशति शङ्कुकर्णः )
शङ्कुकर्णः —क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।
( प्रविश्य )
प्रतिहारी —अय्य! अहं विजआ । किं करीअदु ।[ आर्य ! अहं विजया । किं क्रियताम् । ]
शङ्कुकर्णः —विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय--भग्नप्रायाशोकवनिकेति । कुतः,यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरीस्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् ।वीजन्तो मलयानिला अपि करैरस्पृष्टबालद्रुमासेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥
प्रतिहारी —अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठपुरुवो अअं सम्भमो । किं एदं ।[ आर्य ! नित्यं भर्तृपादमूले वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ]
शङ्कुकर्णः —भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां निवेद्यताम् ।
प्रतिहारी —अय्य ! इयं णिवेदेमि ।( निष्क्रान्ता ) [ आर्य ! इयं निवेदयामि । ]
शङ्कुकर्णः —( पुरतो विलोक्य ) अये अयं महाराजो लङ्केश्वर इत एवाभिवर्तते । य एषः,अमलकमलसन्निभोग्रनेत्रःकनकमयोज्ज्वलदीपिकापुरोगः ।त्वरितमभिपतत्यसौ सरोषोयुगपरिणामसमुद्यतो यथार्कः ॥ २ ॥
( ततः प्रविशति यथानिर्दिष्टो रावणः । )
रावण: —कथं कथं भो नववाक्यवादिञ्छृणोमि शीघ्रं वद केन चाद्य ।मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ॥ ३ ॥
शङ्कुकर्णः —( उपसृत्य ) जयतु महाराजः । अविदितागमनेन केनचिद् वानरेण ससंरम्भमभिमृदिताशोकवनिका ।
रावणः —( सावज्ञम् ) कथं वानरेणेति । गच्छ, शीघ्रं निगृह्यानय ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावणः —भवतु भवतु ।युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशैरिदमप्रियम् ।अनुभवन्त्वचिरादमृताशिनः फलमतो निजशाठ्यसमुद्भवम् ॥ ४ ॥
( प्रविश्य )
शङ्कुकर्णः —जयतु महाराजः । महाराज ! महाबलः खलु स वानरः । तेन खलु मृणालवदुत्पाटिताः सालवृक्षाः, मुष्टिना भग्नो दारुपर्वतकः, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव विसंज्ञीकृताः प्रमदवनपालाः । तस्य ग्रहणसमर्थं बलमाज्ञापयितुमर्हति महाराजः ।
रावणः —तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्णः —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) जयतु महाराजः ।अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः ।क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ॥ ५ ॥
रावणः —कथं हता इति । तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्ण: —यदाज्ञापयति महाराज: ।( निष्क्रान्तः । )
रावण: —( विचिन्त्य )कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि ।प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ॥ ६ ॥
( प्रविश्य )
शङ्कुकर्णः —अनन्तरीयं बलमाज्ञापयितुमर्हति महाराजः ।
रावणः —किमर्थम् ।
शङ्कुकर्णः —श्रोतुमर्हति महाराजः । कुमारं वानरमभिगच्छन्तं दृष्ट्वा महाराजेनानाज्ञापिता अप्यनुगताः पञ्च सेनापतयः ।
रावणः —ततस्ततः ।
शङ्कुकर्णः —- ततस्तानभिद्रुतान् दृष्ट्वा किञ्चिद् भीत इव तोरणमाश्रित्य काञ्चपरिघमुद्यम्य निपातितास्तेन हरिणा पञ्च सेनापतयः ।
रावणः —ततस्ततः ।
शङ्कुकर्णः —ततः कुमारमक्षंक्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तंप्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् ।तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्घयित्वाकण्ठे सङ्गृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ॥ ७ ॥
रावणः —( सरोषम् ) आः, कथं कथं निर्जघानेति ।तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् ।एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ॥ ८ ॥
शङ्कुकर्ण: —प्रसीदतु प्रसीदतु महाराजः । कुमारमक्षं निहतं श्रुत्वा क्रोधाविष्टहृदयः कुमारेन्द्रजिदभिगतवांस्तं वनौकसम् ।
रावण: —तेन हि गच्छ । भूयो ज्ञायतां वृत्तान्तः ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावण: —कुमारो हि कृतास्त्रश्च,अवश्यं युधि वीराणां वधो वा विजयोऽथवा ।तथापि क्षुद्रकर्मेदं मह्यमीषन्मनोज्वरः ॥ ९ ॥
( प्रविश्य )
शङ्कुकर्णः —जयतु महाराजः । जयतु लङ्केश्वरः । जयतु भद्रमुखः ।संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च ।ततः स वानरः शीघ्रं बद्धः पाशेन साम्प्रतम् ॥ १० ॥
रावणः —कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति । कोऽत्र भोः ! ।
( प्रविश्य )
राक्षसः —जयतु महाराजः ।
रावणः —गच्छ विभीषणस्तावदाहूयताम् ।
राक्षसः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावणः —त्वमपि तावद् वानरमानय ।
शङ्कुकर्णः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । ) ( विचिन्त्य ) भोः ! कष्टम् ।अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः ।अभिभूय दशग्रीवं प्रविष्टः किल वानरः ॥ ११ ॥अपि च, जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेनक्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या ।लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद्दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ॥ १२ ॥
( ततः प्रविशति विभीषणः । )
विभीषणः —( सविमर्शम् ) अहोतुखलु महाराजस्य विपरीता खलु बुद्धिः संवृत्ता । कुतः,मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३ ॥
( उपेत्य )
जयतु महाराजः ।
रावणः —विभीषण ! एह्येहि । उपविश ।
विभीषण: —एष एष उपविशामि ।( उपविशति )
रावणः —विभीषण ! निर्विण्णमिव त्वां लक्षये ।
विभीषणः —निर्वेद एव खल्वनुक्तग्राहिणं स्वामिनमुपाश्रितस्य भृत्यजनस्य ।
रावणः —छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।
विभीषणः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )
सर्वे —आः इत इतः ।
हनूमान् —नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥
( उपगम्य )
भो राजन् ! अपि कुशली भवान् ।
रावणः —( सावज्ञम् ) विभीषण ! किमस्य तत् कर्म ।
विभीषणः —महाराज ! अतोऽप्यधिकम् ।
रावणः —कथं त्वमवगच्छसि ।
विभीषणः —प्रष्टुमर्हति महाराजः कस्त्वमिति ।
रावणः —भो वानर ! कस्त्वम् । केन कारणेन धर्षितोऽस्माकमन्तःपुरं प्रविष्टः ।
हनूमान् —भोः ! श्रूयताम्,अञ्जनायां समुत्पन्नो मारुतस्यौरसः सुतः ।प्रेषितो राघवेणाहं हनूमान् नाम वानरः ॥ १५ ॥
विभीषणः —महाराज ! किं श्रुतम् ।
रावणः —किं श्रुतेन ।
विभीषणः —हनूमन् ! किमाह तत्रभवान् राघवः ।
हनूमान् —भोः ! श्रूयतां रामशासनम् ।
रावणः —कथं कथं रामशासनमित्याह । आः हन्यतामयं वानरः ।
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । सर्वापराधेष्ववध्याः खलु दूताः । अथवा रामस्य वचनं श्रुत्वा पश्चाद् यथेष्टं कर्तुमर्हति महाराजः ।
रावणः —भो वानर ! किमाह स मानुषः ।
हनूमान् —भोः ! श्रूयतां,वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा ।शरवरपरिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ॥ १६ ॥इति ।
रावणः —ह ह ह ।दिव्यास्त्रैस्त्रिदशगणा मयाभिभूतादैत्येन्द्रा मम वशवर्तिनः समस्ताः ।पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नोभो ! रामः कथमभियाति मानुषो माम् ॥ १७ ॥
हनूमान् —एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् ।
विभीषणः —सम्यगाह हनूमान् ।अपास्य मायया रामं त्वया राक्षसपुङ्गव ! ।भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ॥ १८ ॥
रावणः —विभीषण ! किं विपक्षपक्षमवलम्बसे ।
विभीषण: —प्रसीद राजन् ! वचनं हितं मे प्रदीयतां राघवधर्मपत्नी ।इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ॥ १९ ॥
रावण : —विभीषण ! अलमलं भयेन ।कथं लम्बसटः सिंहो मृगेण विनिपात्यते ।गजो वा सुमहान् मत्तः शृगालेन निहन्यते ॥ २० ॥
हनूमान् —भो रावण ! विपद्यमानभाग्येन भवता किं युक्तं राघवमेवं वक्तुम् । मा तावद् भोः !नक्तञ्चरापसद ! रावण ! राघवं तंवीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् ।प्रक्षीणपुण्य ! भवता भुवनैकनाथंवक्तुं किमेवमुचितं गतसार ! नीचैः ॥ २१ ॥
रावणः —कथं कथं नामाभिधत्ते । हन्यतामयं वानरः । अथवा दूतवधः खलु वचनीयः । शङ्कुकर्ण ! लाङ्गूलमादीप्य विसृज्यतामयं वानरः ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः । इत इतः ।
रावणः —अथवा एहि तावत् ।
हनूमान् —अयमस्मि ।
रावण: —अभिधीयतां मद्वचनात् स मानुषः ।अभिभूतो मया राम ! दारापहरणादसि ।यदि तेऽस्ति धनुःश्लाघा दीयतां मे रणो महान् ॥ २२ ॥
हनूमान् —अचिराद् द्रक्ष्यसि,अभिहतवरवप्रगोपुराट्टांरघुवरकार्मुकनादनिर्जितस्त्वम् ।हरिगणपरिपीडितैः समन्तात्प्रमदवनैरभिसंवृतां स्वलङ्काम् ॥ २३ ॥
रावण : —आः निर्वास्यतामयं वानरः ।
राक्षसाः —इत इतः ।
( रक्षोभि: सह निष्क्रान्तो हनूमान् । )
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । अस्ति काचिद् विवक्षा महाराजस्य हितमन्तरेण ।
रावणः —उच्यतां, तच्छ्रेयो वयमपि श्रोतारः ।
विभीषणः —सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये ।
रावणः —केन कारणेन ।
विभीषणः —महाराजस्य विप्रतिपत्त्या ।
रावणः —का मे विप्रतिपत्तिः ।
विभीषणः —ननु सीतापहरणमेव ।
रावण: —सीतापहरणेन को दोषः स्यात् ।
विभीषणः —अधर्मश्च ।
रावणः —चशब्देन सावशेषमिव ते वचनम् । तद् ब्रूहि ।
विभीषणः —तदेव ननु ।
रावणः —विभीषण ! किं गूहसे । मम खलु प्राणैः शापिताः स्याः, यदि सत्यं न ब्रूयाः ।
विभीषण: —अभयं दातुमर्हति महाराजः ।
रावणः —दत्तमभयम् । उच्यताम् ।
विभीषण: —बलवद्विग्रहश्च ।
२रावणः —( सरोषम् ) कथं कथं बलवद्विग्रहो नाम ।शत्रुपक्षमुपाश्रित्य मामयं राक्षसाधमः ।क्रोधमाहारयंस्तीव्रमभीरुरभिभाषते ॥ २४ ॥कोऽत्र । ममानवेक्ष्य सौभ्रात्रं शत्रुपक्षमुपाश्रितम् ।नोत्सहे पुरतो द्रष्टुं तस्मादेष निरस्यताम् ॥ २५ ॥
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । अहमेव यास्यामि ।शासितोऽहं त्वया राजन् ! प्रयामि न च दोषवान् ।त्यक्त्वा रोषं च कामं च यथा कार्यं तथा कुरु ॥ २६ ॥( परिक्रम्य ) अयमिदानीम् - अद्यैव तं कमललोचनमुग्रचापंरामं हि रावणवधाय कृतप्रतिज्ञम् ।संश्रित्य संश्रितहितप्रथितं नृदेवंनष्टं निशाचरकुलं पुनरुद्धरिष्ये ॥ २७ ॥
( निष्क्रान्तः । )
रावणः —हन्त निर्गतो विभीषणः । यावदहमपि नगररक्षां सम्पादयामि ।( निष्क्रान्तः । )
तृतीयोऽङ्कः ।

अथ चतुर्थोऽङ्कः ।

( ततः प्रविशति वानरकाञ्चुकीयः । )
काञ्चुकीयः —भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।
( प्रविश्य )
बलाध्यक्षः —आर्य ! किंकृतोऽयं समुद्योगः ।
काल्चुकीयः —तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया वृत्तान्तः ।
बलाध्यक्ष : —किमिति किमिति ।
काञ्चुकीयः —श्रूयतां,लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशंपौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः ।श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिनाराज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥
बलाध्यक्षः —एवम् । यदाज्ञापयति महाराजः ।
काञ्चुकीयः —यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय निवेदयामि ।
( निष्क्रान्तौ । )
विष्कम्भकः ।
( ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । )
रामः —आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताःसिंहव्याघ्रगजेन्द्रपीतसलिला नद्यश्व तीर्णा मया ।क्रान्तं पुष्पफलाढ्यपादपयुतं चित्रं महत् काननंसम्प्राप्तोऽस्मि कपीन्द्रसैन्यसहितो वेलातटं साम्प्रतम् ॥ २ ॥
लक्ष्मणः —एष एष भगवान् वरुणः,सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः ।समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३ ॥
रामः —कथं कथं भोः !रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥
सुग्रीवः —अये वियतिसजलजलदसन्निभप्रकाशःकनकमयामलभूषणोज्ज्वलाङ्गः ।अभिपतति कुतो नु राक्षसोऽसौशलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥
हनूमान् —भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः ।शैलैर्द्रुमैः सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुग्रनादैः ।रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥ ६ ॥
रामः —राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण ।
हनूमान् —यदाज्ञापयति देवः ।
( ततः प्रविशति विभीषणः । )
विभीषणः —भोः ! प्राप्तोऽस्मि राघवस्य शिबिरसन्निवेशम् ।( विचिन्त्य ) अकृतदूतसम्प्रेषणमविदितागमनममित्रसम्बन्धिनं कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तःस्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।तस्यानुजं रघुपतिः शरणागतं मांकिं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥अथवा, दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥( अधोऽवलोक्य ) इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवतरामि । ( अवतीर्य ) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।
हनूमान् —( ऊर्ध्वमवलोक्य ) अये कथं तत्रभवान् विभीषणः ।
विभीषण: —अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय ।
हनूमान् —बाढम् ।( उपगम्य ) जयतु जयतु देवः ।राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः ।विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९ ॥
रामः —कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।
लक्ष्मण: —यदाज्ञापयत्यार्यः ।
रामः —सुग्रीव वक्तुकाममिव त्वां लक्षये ।
सुग्रीवः —देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्रधार्य प्रवेश्यतां विभीषणः ।
हनूमान् —महाराज ! मा मैवं,देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् ।भ्रात्रा विवदमानोऽपि दृष्टः पूर्वं पुरे मया ॥ १० ॥
राम: —यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( परिक्रम्य ) अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः —अये कुमारो लक्ष्मणः। कुमार ! अद्य कुशली संवृत्तोऽस्मि ।
लक्ष्मणः —विभीषण ! उपसर्पावस्तावदार्यम् ।
विभीषण: —बाढम् ।
( उपसर्पतः । )
लक्ष्मणः —जयत्वार्यः ।
विभीषणः —प्रसीदतु देवः । जयतु देवः ।
राम: —अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः —देव ! अद्य कुशली संवृत्तोऽस्मि ।भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मषः ॥ ११ ॥
रामः —अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव ।
विभीषणः —अनुगृहीतोऽस्मि ।
रामः —विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे खलूपायो नाधिगम्यते ।
विभीषणः —देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।
राम: —साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।
( सहसोत्तिष्ठन् सरोषम् )
मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥
( ( त )( )( )तः( प्रविशति वरुणः । ) )
वरुण: —( ससम्भ्रमम् )नारायणस्य नररूपमुपाश्रितस्यकार्यार्थमभ्युपगतस्य कृतापराधः ।देवस्य देवरिपुदेहहरात् प्रतूर्णंभीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥( विलोक्य ) अये अयं भगवान्, मानुषं रूपमास्थाय चक्रशार्ङ्गगदाधरः ।स्वयं कारणभूतः सन् कार्यार्थी समुपागतः ॥ १४ ॥नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
लक्ष्मण: —( विलोक्य ) अये कोनुखल्वेषः ।मणिविरचितमौलिश्चारुताम्रायताक्षोनवकुवलयनीलो मत्तमातङ्गलीलः ।सलिलनिचयमध्यादुत्थितस्त्वेष शीघ्र-मवनतमिव कुर्वंस्तेजसा जीवलोकम् ॥ १५ ॥
विभीषणः —देव ! अयं खलु भगवान् वरुणः प्राप्तः ।
रामः —किं वरुणोऽयम् । भगवन् ! वरुण ! नमस्ते ।
वरुणः —न मे नमस्कारं कर्तुमर्हति देवेशः । अथवा,राजपुत्र ! कुतः कोपो रोषेण किमलं तव ।कर्तव्यं तावदस्माभिर्वद शीघ्रं नरोत्तम ! ॥ १६ ॥
राम: —लङ्कागमने मार्गं दातुमर्हति भवान् ।
वरुणः —एष मार्गः । प्रयातु भवान् ।( अन्तर्हितः । )
राम: —कथमन्तर्हितो भगवान् वरुणः । विभीषण! पश्य पश्य भगवत्प्रसादान्निष्कम्पवीचिमन्तं सलिलाधिपतिम् ।
विभीषणः —देव ! साम्प्रतं द्विधाभूत इव दृश्यते जलनिधिः ।
राम: —क्व हनूमान् ।
हनूमान् —जयतु देवः ।
रामः —हनूमन् ! गच्छाग्रतः ।
हनूमान् —यदाज्ञापयति देवः ।
( सर्वे परिक्रामन्ति । )
रामः —( विलोक्य सविस्मयम् ) वत्स लक्ष्मण ! वयस्य विभीषण !महाराज सुग्रीव ! सखे हनूमन् ! पश्यन्तु पश्यन्तु भवन्तः । अहो विचित्रता सागरस्य । इह हि, क्वचित् फेनोद्गारी क्वचिदपि च मीनाकुलजल:क्वचिच्छङ्खाकीर्णः क्वचिदपि च नीलाम्बुदनिभः ।क्वचिद् वीचीमालः क्वचिदपि च नक्रप्रतिभयःक्वचिद् भीमावर्तः क्वचिदपि च निष्कम्पसलिलः ॥ १७ ॥भगवत्प्रसादादतीतः सागरः ।
हनूमान् —देव ! इयमियं लङ्का ।
रामः —( चिरं विलोक्य ) अहो राक्षसनगरस्य श्रीरचिराद् विपत्स्यते ।मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता ।उदधिजलगतेव नौर्विपन्ना निपतति रावणकर्णधारदोषात् ॥ १८ ॥सुग्रीव ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः । ( उपविशति । )
सुग्रीवः —यदाज्ञापयति देवः । नील ! एवं क्रियताम् ।
( प्रविश्य )
नील: —यदाज्ञापयति महाराज: ।( निष्क्रम्य प्रविश्य ) जयतु देवः । क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तकप्रामाण्यात् कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ । वयं न जानीमः कर्तव्यम् । देवस्तस्मात् प्रमाणम् ।
रामः —शीघ्रं प्रवेशयत्वेतौ ।
नील: —यदाज्ञापयति देवः ।( निष्क्रान्तः )
( ( तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ सम्पुटिकाहस्तौ शुकसारणौ च । ) )
वानराः —अङ्घो भणथ । तुम्हे भणथ ।[ अङ्घो भणतं कौ युवां भणतम् । ]
उभौ —भट्टा ! अम्हे अय्यकुमुदस्स सेवआ[ भर्तः ! आवामार्यकुमुदस्य सेवकौ । ]
वानराः —भट्टा ! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति ।( सावधानं शुकसारणौ विलोक्य )भर्तः ! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशतः ।स्वसैनिकौ न चाप्येतौ न चाप्येतौ वनौकसौ ।प्रेषितौ रावणेनैतौ राक्षसौ शुकसारणौ ॥ १९ ॥
उभौ —( आत्मगतम् ) हन्त कुमारेण विज्ञातौ स्वः । ( प्रकाशम् ) आर्य ! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षसकुलं दृष्ट्वास्पदमलभमानौ आर्यसंश्रयार्थं वानररूपेण सम्प्राप्तौ ।
रामः —वयस्य ! विभीषण ! कथमिव भवान् मन्यते ।
विभीषणः —देव !एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप ! ।प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चतः ॥ २० ॥तस्माद् यथार्हं दण्डमाज्ञापयतु देवः ।
रामः —विभीषण ! मा मैवम् ।अनयोः शासनादेव न मे वृद्धिर्भविष्यति ।क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ॥ २१ ॥
लक्ष्मण: —यदि विमुञ्चेत्, सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मोक्षमाज्ञापयत्वार्यः ।
रामः —सम्यगभिहितं लक्ष्मणेन । नील ! एवं क्रियताम् ।
नील: —यदाज्ञापयति देवः ।
रामः —अथवा एहि तावत् ।
उभौ —इमौ स्वः ।
रामः —अभिधीयतां मद्वचनात् स राक्षसेन्द्रः ।मम दारापहारण स्वयङ्ग्राहितविग्रहः । आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथिः ॥ २२ ॥ इति ।
उभौ —यदाज्ञापयति देवः ।( निष्क्रान्तौ । )
रामः —विभीषण ! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे ।
विभीषणः —यदाज्ञापयति देवः ।
राम: —( परिक्रम्य विलोक्य ) अये अस्तमितो भगवान् दिवाकरः । सम्प्रति हि,अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुःसन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः ।रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भेजाम्बूनदेन रचितः पुलको यथैव ॥ २३ ॥
( निष्क्रान्ताः सर्वे । )
चतुर्थोऽङ्कः ।

अथ पञ्चमोऽङ्कः ।

( ततः प्रविशति राक्षसकाञ्चुकीयः )
राक्षसकाञ्चुकीयः —क इह भोः ! प्रवालतोरणद्वारमशून्यं कुरुते ।
( प्रविश्यान्यो राक्षसः )
राक्षसः —आर्य ! अयमस्मि । किं क्रियताम् ।
काञ्चुकीयः —गच्छ, महाराजस्य शासनाद् विद्युज्जिह्वस्तावदाहूयताम् ।
राक्षसः —आर्य ! तथा ।( निष्क्रान्तः । )
काञ्चुकीयः —अहोतुखलु विपद्यमानाभ्युदये राक्षसकुले विपन्नसर्वसाधनस्य निहतवीरपुरुषस्य स्वयं च प्राणसंशयं प्राप्तस्येदानीमपि प्रसन्नत्वं नोपगच्छति महाराजस्य बुद्धिः । को हि नाम,चलत्तरङ्गाहतभीमवेलमुदीर्णनक्राकुलनीलनीरम् ।समुद्रमाक्रान्तमवेक्ष्य तस्मै दारप्रदानान्न करोति शान्तिम् ॥ १ ॥अपि प्रहस्तप्रमुखा वीराः कुम्भकर्णपुरस्सराः ।निहता राघवेणाद्य शक्रजिच्चापि निर्गतः ॥ २ ॥एवमपि गते, मदनवशगतो महानयार्थं सचिववचोऽप्यनवेक्ष्य वीरमानी ।रघुकुलवृषभस्य तस्य देवीं जनकसुतां न ददाति योद्धुकामः ॥ ३ ॥
( प्रविश्य )
विद्युजिह्वः —अपि सुखमार्यस्य ।
काञ्चुकीयः —विद्युज्जिह्व ! गच्छ, महाराजवचनाद् रामलक्ष्मणयोः शिरःप्रतिकृतिरानीयताम् ।
विद्युजिह्वः —यदाज्ञापयति महाराज: ।( निष्क्रान्तः । )
काञ्चुकीयः —यावदहमपि महाराजस्य प्रत्यन्तरीभविष्यामि ।
( निष्क्रान्तः । )
विष्कम्भकः ।
( तत: प्रविशति राक्षसीगणपरिवृता सीता )
सीता —किण्णुहु अय्यउत्तस्स आगमणेण पहळादिअस्स हिअअस्स अज्ज आवेओ विअ संवृत्तो । अणिट्ठाणि निमित्ताणि अ दिस्सन्ति । एवं वि दाणि( अच्चाहिअं ? ) हिअअस्स महन्तो अब्भुदओ वड्ढइ । सव्वहा इस्सरा सन्तिं करन्तु । [ किन्नु खल्वार्थ-पुत्रस्यागमनेन प्रह्लादितस्य हृदयस्याद्यावेग इव संवृत्तः । अनिष्टानि निमित्तानि च दृश्यन्ते । एवमपीदानीं हृदयस्य महानभ्युदयो वर्धते । सर्वथेश्वराः शान्तिं कुर्वन्तु । ]( ( त )( )( )तः( प्रविशति रावणः । ) )
रावणः —मा तावद्,एषा विहाय भवनं मम सम्प्रयातानारी नवामलजलोद्भवलग्नहस्ता ।लङ्का यदा हि समरे वशमागता मेपौलस्त्यमाशु परिजित्य तदा गृहीता ॥ ४ ॥भवति ! तिष्ठ तिष्ठ । न खलु न खलु गन्तव्यम् । किं ब्रवीषि उत्सृज्य त्वां राममुपगच्छामीति । आः अपध्वंस । बलादेव गृहीतासि तदा वैश्रवणालये ।बलादेव ग्रहीष्ये त्वां हत्वा राघवमाहवे ॥ ५ ॥किमनया । यावदहमपि सीतां विलोभयिष्ये । ( मदनावेशं निरूप्य ) अहोतुखल्वतुलबलता कुसुमधन्वनः । कुतः, निद्रां मे निशि विस्मरन्ति नयनान्यालोक्य सीताननंतत्संश्लेषसुखार्थिनी तनुतरा याता तनुः पाण्डुताम् ।सन्तापं रमणीयवस्तुविषये बध्नाति पुष्पेषुणाकष्टं निर्जितविष्टपत्रयभुजो निर्जीयते रावणः ॥ ६ ॥
( उपेत्य )
सीते! त्यजत्वमरविन्दपलाशनेत्रे !चित्तं हि मानुषगतं मम चित्तनाथे ! ।शस्त्रेण मेऽद्य समरे विनिपात्यमानंप्रेक्षस्व लक्ष्मणयुतं तव चित्तकान्तम् ॥ ७ ॥
सीता —हं मूढो खुसि रावणओ, जो मन्दरं हत्थेण तुळयिदुकामो ।हं मूढः खल्वसि रावणकः, यो मन्दरं हस्तेन तुलयितुकामः ।
( प्रविश्य )
राक्षसः —जयतु महाराजः ।एते तयोर्मानुषयोः शिरसी राजपुत्रयोः ।युधि हत्वा कुमारेण गृहीते त्वत्प्रियार्थिना ॥ ८ ॥
रावणः —सीते ! पश्य पश्य तयोर्मानुषयोः शिरसी ।
सीता —हा अय्यउत्त ! ।( इति मूर्च्छिता पतति । ) हा आर्यपुत्र ! ।
रावणः —सीते ! भावं परित्यज्य मानुषेऽस्मिन् गतायुषि ।अद्यैव त्वं विशालाक्षि ! महतीं श्रियमाप्नुहि ॥ ९ ॥
सीता —( प्रत्यभिज्ञाय ) हा अय्यउत्त ! परिमळणवकमळसण्णिहे वदणे परिवृत्तणअणे पेक्खन्ती अदिधीरा खु म्हि मन्दभाआ । हा अय्यउत्त ! एदस्सिं दुःखसाअरे मं णिक्खिविअ कहिं गदो सि । जाव ण मरामि । किंणुखु अळिअं एदं भवे । भद्द ! जेण असिणा अय्यउत्तस्स असदिसं किदं, तेण मं वि मारेहि । [ हा आर्यपुत्र ! परिमलनवकमलसन्निभे वदने परिवृत्तनयने पश्यन्ती अतिधीरा खल्वस्मि मन्दभागा । हा आर्यपुत्र ! एतस्मिन् दुःखसागरे मां निक्षिप्य कुत्र गतोऽसि । यावन्न म्रिये । किन्नुखल्वलीकमेतद् भवेत् । भद्र ! येनासिनार्यपुत्रस्यासदृशं कृतं तेन मामपि मारय । ]
रावणः —व्यक्तमिन्द्रजिता युद्धे हते तस्मिन् नराधमे ।लक्ष्मणेन सह भ्रात्रा केन त्वं मोक्षयिष्यसे ॥ १० ॥
( नेपथ्ये )
रामेण रामेण ।
सीता —चिरं जीव ।
( प्रविश्य )
राक्षसः —( ससम्भ्रमम् ) रामेण रामेण ।
रावणः —कथं कथं रामेणेति ।
राक्षसः —प्रसीदतु प्रसीदतु महाराजः । अतिपातिवृत्तान्तनिवेदनत्वरयावस्थान्तरं नावेक्षितम् ।
रावणः —ब्रूहि ब्रूहि । किं कृतं मनुजतापसेन ।
राक्षसः —श्रोतुमर्हति महाराजः । तेन खलु,उदीर्णसत्त्वेन महाबलेन लङ्केश्वरं त्वामभिभूय शीघ्रम् ।सलक्ष्मणेनाद्य हि राघवेण प्रसह्य युद्धे निहतः सुतस्ते ॥ ११ ॥
रावणः —आः दुरात्मन्! समरभीरो !देवाः सेन्द्रा जिता येन दैत्याश्चापि पराङ्मुखाः ।इन्द्रजित् सोऽपि समरे मानुषेण निहन्यते ॥ १२ ॥
राक्षसः —प्रसीदतु प्रसीदतु महाराजः । महाराजपादमूले कुमारमन्तरेणानृतं नाभिधीयते ।( इति मूर्च्छितः पतति । )
राक्षसः —महाराज ! समाश्वसिहि समाश्वसिहि ।
रावण: —( प्रत्यभिज्ञाय )हा वत्स ! सर्वजगतां ज्वरकृत् ! कृतास्त्र !हा वत्स ! वासवजिदानतवैरिचक्र ! ।हा वत्स ! वीर ! गुरुवत्सल ! युद्धशौण्ड !हा वत्स ! मामिह विहाय गतोऽसि कस्मात् ॥ १३ ॥
( इति मोहमुपगतः । )
राक्षसः —हा धिक् त्रैलोक्यविजयी लङ्केश्वर एतामवस्थां प्रापितो हतकेन विधिना । महाराज ! समाश्वसिहि समाश्वसिहि ।
रावण: —( समाश्वस्य ) इदानीमनर्थहेतुभूतया सीतया किमनया त्रैलोक्यविजयविफलया चपलया श्रिया च । किं भोः कृतान्तहतक ! अद्यापि भयविह्वलोऽसि ।इदानीमपि निःस्नेहो वत्सेनेन्द्रजिता विना ।कष्टं कठोरहृदयो जीवत्येष दशाननः ॥ १४ ॥
( इति सन्तापात् पतति । )
राक्षस: —हा भो रजनीचरवीराः ! एवंगते राजन्यन्तःकक्ष्यास्थिता रक्षिणश्चाप्रमत्ता भवन्तु भवन्तः ।
( नेपथ्ये )
भो भो रजनीचरवीराः ! समरमुखनिरस्तप्रहस्तनिकुम्भकुम्भकर्णेन्द्रजिद्विकलबलजलधिजनितभयचकितविमुखाः ! चपलपलायनमनुचितमविरतममरसमराणि जितवतां भवताम्, अथ च विश्वलोकविजयविख्यातविंशद्बाहुशालिनि भर्तर्यत्र स्थितवति लङ्केश्वरे ।
रावणः —( श्रुत्वा सामर्षम् ) गच्छ, भूयो ज्ञायतां वृत्तान्तः ।
राक्षसः —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) जयतु महाराजः । एष हि रामः,धनुषि निहितबाणस्त्वामतिक्रम्य गर्वा-द्धरिगणपरिवारो हाससम्फुल्लनेत्रः ।रणशिरसि सुतं ते पातयित्वा तु राज-न्नभिपतति हि लङ्कां सन्दिधक्षुर्यथैव ॥ १५ ॥
रावणः —( सहसोत्थाय सरोषम् ) कासौ कासौ । ( असिमुद्यम्य )वज्रीभकुम्भतटभेदकठोरधारःक्रोधोपहारमसिरेष विधास्यति त्वाम् ।सम्प्रत्यवन्त्वनिमिषा इह मत्करस्थःक्षुद्र ! क्व यास्यसि कुतापस ! तिष्ठ तिष्ठ ॥ १६ ॥
राक्षस: —महाराज ! अलमतिसाहसेन ।
सीता —अणिट्ठाणि अणरुहाणि अणिमित्ताणि इदाणिं करअंतस्स रावणस्स अइरेण मरणं भविस्सिदि ।[ अनिष्टान्यनर्हाण्यनिमित्तानीदानीं कुर्वतो रावणास्याचिरेण मरणं भविष्यति । ]
रावणः —अस्याः कारणेन बहवो भ्रातरः सुताः सुहृदश्व मे निहताः । तस्मादमित्रविषयमस्या हृदयं भित्त्वा कृष्टान्त्रमालालङ्कृतः खड्गाशनिपातेन समनुजयुगलं सकलवानरकुलं ध्वंसयामि ।
राक्षसः —प्रसीदतु प्रसीदतु महाराजः । अलमलमिदानीमरिबलावलेपमन्तरेणानवरतवृथाप्रयासेन । अवश्यं च स्त्रीवधो न कर्तव्यः ।
रावणः —तेन हि स्यन्दनमानय ।
राक्षसः —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) जयतु महाराजः । इदं स्यन्दनम् ।
रावण: —( रथमारुह्य )समावृतं सुरैरद्य सीते ! द्रक्ष्यसि राघवम् ।मम चापच्युतैस्तीक्ष्णैर्बाणैराक्रान्तचेतसम् ॥ १७ ॥
( निष्क्रान्तः सपरिवारो रावणः । )
सीता —इस्सरा ! अत्तणो कुळसदिसेण चारित्तेण जदि अहं अणुसरामि अय्यउत्तं, अय्यउत्तस्स विजओ होदु ।[ ईश्वराः ! आत्मनः कुलसदृशेन चारित्रेण यद्यहमनुसराम्यार्यपुत्रम्, आर्यपुत्रस्य विजयो भवतु । ]
( निष्क्रान्ता । )
पञ्चमोऽङ्कः ।

अथ षष्ठोऽङ्कः ।

( ततः प्रविशन्ति विद्याधरास्त्रयः । )
सर्वे —एते स्मो भो ! एते स्मः ।
प्रथमः —इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः
द्वितीय: —रामस्य रावणवधाय कृतोद्यमस्य ।
तृतीयः —सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः
सर्वे —प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥
प्रथमः —चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः ।
उभौ —बाढम् ।
( तथा कृत्वा )
प्रथमः —अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि,रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा ।उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥
द्वितीयः —एवमेतत् ।एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताःक्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः ।कण्ठग्राहविवृत्ततुङ्गनयनैर्दष्टोष्ठतीव्रैर्मुखैःशैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥
तृतीयः —एते चापि द्रष्टव्या भवद्भ्यांनिशितविमलखड्गाः क्रोधविस्फारिताक्षाविमलविकृतदंष्ट्रा नीलजीमूतकल्पाः ।हरिगणपतिसैन्यं हन्तुकामाः समन्ताद्रभसविवृतवक्त्रा राक्षसाः सम्पतन्तिः ॥ ४ ॥
प्रथमः —- अहोतुखलु,बाणाः पात्यन्ते राक्षसैर्वानरेषु
द्वितीय: —शैला क्षिप्यन्ते वानरैर्नैर्ऋतेषु ।
तृतीय: —मुष्टिप्रक्षेपैर्जानुसङ्घट्टनैश्च
सर्वे —भीमश्चित्रं भोः ! सम्प्रमर्दः प्रवृत्तः ॥ ५ ॥
प्रथमः —रावणमपि पश्येतां भवन्तौ,कनकरचितदण्डां शक्तिमुल्लालयन्तंविमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् ।उदयशिखरमध्ये पूर्णबिम्बं शशाङ्कंग्रहमिव भगणेशं राममालोक्य रुष्टम् ॥ ६ ॥
द्वितीय: —राममपि पश्येतां भवन्तौ ।सव्येन चापमवलम्ब्य करेण वीर-मन्येन सायकवरं परिवर्तयन्तम् ।भूमौ स्थितं रथगतं रिपुमीक्षमाणंक्रौञ्चं यथा गिरिवरं युधि कार्त्तिकेयम् ॥ ७ ॥
तृतीयः —हहह ।रावणेन विमुक्तेयं शक्तिः कालान्तकोपमा ।रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ॥ ८ ॥
प्रथमः —शक्तिं निपातितां दृष्TvA क्रोधविस्फारितेक्षणः रामं प्रत्यैषवं वर्षमभिवर्षति रावणः ॥ ९ ॥
द्वितीय: —अहो रामस्य शोभा ।एता रावणजीमूताद् बाणधारा विनिस्सृताः ।विभान्ति राममासाद्य वारिधारा वृषं यथा ॥ १० ॥
तृतीय: —एष एषः,कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रंरणशिरसि सुघोरं बाणजालं विधून्वन् ।रथगतमभियान्तं रावणं याति पद्भ्यांगजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्रः ॥ ११ ॥
सर्वे —अये ज्वलित इव प्रभायायं देशः । किन्नुखल्विदम् ।
प्रथमः —आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलिवाहितो रथः ।
द्वितीयः —उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान् रामः ।
तृतीया: —एष हि,सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति ।रजनिचरविनाशकारणः संस्त्रिपुरवधाय यथा पुरा कपर्दी ॥ १२ ॥
प्रथमः —अहो महत् प्रवृत्तं युद्धम् ।शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयोः समीक्ष्य युद्धम् ।विरतविविधशस्त्रपातमेते हरिवरराक्षससैनिकाः स्थिताश्च ॥ १३ ॥
द्वितीय: —अहोतुखलु,चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ ।स्वरश्मिजालैर्धरणिं दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ॥ १४ ॥
तृतीयः —रावणमपि पश्येतां भवन्तौ ।शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेनाभिहत्य ।महद् बाणवर्षं सृजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ॥ १५ ॥
प्रथमः —एष हि रामः,स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वैतीव्रं वाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभः ।व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान्क्रुद्धः संहितवान् वरास्त्रममितं पैतामहं पार्थिवः ॥ १६ ॥
द्वितीय: —एतदस्त्रं,रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् ।रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेव शीघ्रम् ॥ १७ ॥
सर्वे —हन्त निपातितो रावणः ।
प्रथमः —रावणं निहतं दृष्ट्वा पुष्पवृष्टिर्निपातिता ।एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ॥ १८ ॥
द्वितीयः —भवतु । सिद्धं देवकार्यम् ।
प्रथमः —तदागम्यताम् । वयमपि तावत् सर्वहितं रामं सम्भावयिष्यामः ।
उभौ —बाढम् । प्रथमः कल्पः ।
( निष्क्रान्ताः सर्वे । )
विष्कम्भकः ।
( ततः प्रविशति रामः । )
राम: —हत्वा रावणमाहवेऽद्य तरसा मद्बाणवेगार्दितंकृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् ।तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवंलङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥
( प्रविश्य )
लक्ष्मणः —जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति ।
रामः —वत्स ! लक्ष्मण !अपायाच्च हि वैदेह्या उषिताया रिपुक्षये ।दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( निष्क्रान्तः । )
( प्रविश्य )
विभीषणः —जयतु देवः ।एषा हि राजंस्तव धर्मपत्नी त्वद्बाहुवीर्येण विधूतदुःखा ।लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥
रामः —विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्शजातकल्मषा इक्ष्वाकुकुलस्याङ्कभूता । राजानं दशरथं पितरमुद्दिश्य न युक्तं भो लङ्काधिपते ! मां द्रष्टुम् । अपिच,मज्जमानमकार्येषु पुरुषं विषयेषु वै ।निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ॥ २२ ॥
विभीषणः —प्रसीदतु देवः ।
रामः —नार्हति भवानतः परं पीडयितुम् ।
( प्रविश्य )
लक्ष्मण: —जयत्वार्यः । आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं प्रतिपालयत्यार्या ।
राम: —लक्ष्मण ! अस्याः पतिव्रतायाइछन्दमनुतिष्ठ ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( परिक्रम्य ) भोः ! कष्टम् ।विज्ञाय देव्याः शौचं च श्रुत्वा चार्यस्य शासनम् ।धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥ २३ ।कोऽत्र ।
( प्रविश्य )
हनूमान् —जयतु कुमारः ।
लक्ष्मणः —हनूमन् ! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यार्यः
हनुमान् —अत्र किं तर्कयति कुमारः ।
लक्ष्मणः —निष्फलो मम तर्कः । अथवा वयमार्यस्याभिप्रायमनुवर्तितारः । गच्छामस्तावत् ।
हनूमान् —यदाज्ञापयति कुमारः ।
( निष्क्रान्तौ । )
( प्रविश्य )
लक्ष्मणः —प्रसीदत्वार्यः । आर्य ! आश्चर्यमाश्चर्यम् । एषा ह्यार्यां,विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा ।श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ॥ २४ ॥
रामः —आश्चर्यमाश्चर्यम् । लक्ष्मण ! निवारय निवारय ।
लक्ष्मणः —यदाज्ञापयत्यार्थः ।
( प्रविश्य )
हनूमान् —जयतु देवः ।एषा कनकमालेव ज्वलनाद् वर्धितप्रभा ।पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥
रामः —( सविस्मयम् ) किमिति किमिति ।
लक्ष्मणः —अहो, आश्चर्यम् ।
( प्रविश्य )
सुग्रीवः —जयतु देवः ।कोनुखल्वेष जीवन्तीमादाय जनकात्मजाम् ।प्रणम्यरूपः सम्भूतो ज्वलतो हव्यवाहनात् ॥ २६ ॥
लक्ष्मणः —अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसुः ।
रामः —अये अयं भगवान् हुताशनः । उपसर्पामस्तावत् ।
( सर्वे उपसर्पन्ति । )
( ततः प्रविश्यत्यग्निः सीतां गृहीत्वा । )
अग्निः —एष भगवान् नारायणः । जयतु देवः ।
रामः —भगवन् ! नमस्ते ।
अग्निः —न मे नमस्कारं कर्तुमर्हति देवेशः ।इमां गृह्णीष्व राजेन्द्र ! सर्वलोकनमस्कृताम् ।अपापामक्षतां शुद्धां जानकी पुरुषोत्तम ! ॥ २७ ॥अपिच, इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् ।सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ॥ २८ ॥
राम: —अनुगृहीतोऽस्मि ।जानतापि च वैदेह्याः शुचितां धूमकेतन ! ।प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ॥ २९ ॥
( नेपथ्ये दिव्यगन्धर्वा गायन्ति । )
नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
( पुनर्नेपथ्ये अपरे गायन्ति । )
अग्निः - भ —द्रमुख ! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः स्वविभवैर्भवन्तं वर्धयन्ति ।
रामः —अनुगृहीतोऽस्मि ।
अग्निः —भद्रमुख ! अभिषेकार्थमित इतो भवान् ।
रामः —यदाज्ञापयति भगवान् ।
( निष्क्रान्तौ । )
( नेपथ्ये )
जयतु देवः । जयतु स्वामी । जयतु भद्रमुखः । जयतु महाराजः जयतु रावणान्तकः । जयत्वायुष्मान् ।
विभीषण: —एष एष महाराजः,तीर्त्वा प्रतिज्ञार्णवमाहवेऽद्यसम्प्राप्य देवीं च विधूतपापाम् ।देवैः समस्तैश्च कृताभिषेकोविभाति शुभ्रे नभसीव चन्द्रः ॥ ३२ ॥
लक्ष्मणः —अहोतुखल्वार्यस्य वैष्णवं तेजः ।यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति ।दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥
( ततः प्रविशति कृताभिषेको रामः सीतया सह । )
रामः —वत्स ! लक्ष्मण !येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो-ऽप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः ।व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतंतेनैवाद्य पुनः प्रहृष्टमनसा प्राप्ताभिषेकः कृतः ॥ ३४ ॥
अग्नि: —भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः प्रकृतयो भवन्तमुपस्थिताः ।
रामः —भगवान् ! प्रहृष्टोऽस्मि ।
अभिः —इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ।
रामः —अनुगृहीतोऽस्मि ।
अभिः —भद्रमुख ! किं ते भूयः प्रियमुपहरामि ।
राम: —यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
( भरतवाक्यम् । )
( निष्क्रान्ताः सर्वे )
षष्ठोऽङ्कः ।
अभिषेकनाटकं समाप्तम् ।