2026-02-09 02:22:47 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>गोपीचन्दनोपनिषत्
</ignore>
<verse>कृष्णगोपीरतोद्भूतं पापन्घ्नं गोपिचन्दनम् ।
तत्प्रदानात्सर्व वेद चतुर्वर्गफलप्रदम् ॥ १५ ॥
</verse>
<verse>तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ।
कुङ्कुमं कृष्णगोपीनां जलक्रीडासु संभृतम् ॥ १६ ॥
</verse>
<verse>गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ।
कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् ॥ १७ ॥
</verse>
<verse>तिलमात्रं प्रदायेदं पुनात्यादशमं कुलम् ।
गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् ।
विष्णुरूपमिदं पुण्यं पावनं पीतवर्णकम् ॥ १८ ॥
</verse>
<ignore>६९
</ignore>
<p>आपो ह वाग्रे आसन् । तत्र प्रजापतिर्वायुर्भूत्वा श्राम्यतेदं सृजेयमिति ।
स तपोऽतप्यत । तत ओङ्कारमपश्यत्ततो व्याहृतीस्ततो गायत्री गायत्र्या
वेदास्तैरिदमसृजत् । धूममार्गविसृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकान-
सृजत् । तत उपनिषदः श्रुतय: आविर्बभूवुः । अर्चिर्मार्गविसृतं वेदार्थमभिसन्धाय
सर्वान् वेदान् सरहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास । स एताश्च चो-
पनिषद्वैवस्वतेन्तरे सगुणं ब्रह्म विधिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां
वसुदेवसद्मन्याविर्भविष्यति । तत्रभवत्यः सर्वलोकैः कृष्णसौन्दर्ययं क्रीडाभो-
गागोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजिप्ष्यथ । तत्र श्लोकौ
---</p>
<verse>इति ब्रह्मवरं लब्ध्वा श्रुतयो ब्रह्मलोकगाः ।
कृष्णमाराधयामासुर्गोकुले धर्मसंकुले ॥
</verse>
<verse>श्रीकृष्णाख्यपरं ब्रह्म गोपिकाः श्रुतयोऽभवन् ।
एतत्संभोगसंभूतं चन्दनं गोपिचन्दनम् । इति ॥
</verse>
<trailer>इत्यथर्ववेदोक्तगोपीचन्दनोपनिषत् समाप्ता
</trailer>
</page>
<ignore>गोपीचन्दनोपनिषत्
<verse>कृष्णगोपीरतोद्भूतं पाप
तत्प्रदानात्सर्व
<verse>तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ।
कुङ्कुमं कृष्णगोपीनां जलक्रीडासु संभृतम् ॥ १६ ॥
<verse>गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ।
कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् ॥ १७ ॥
<verse>तिलमात्रं प्रदायेदं पुनात्यादशमं कुलम् ।
गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् ।
विष्णुरूपमिदं पुण्यं पावनं पीतवर्णकम् ॥ १८ ॥
<ignore>६९
<p>आपो ह वाग्रे आसन् । तत्र प्रजापतिर्वायुर्भूत्वा
स तपोऽतप्यत । तत ओङ्कारमपश्यत्ततो व्याहृतीस्ततो गायत्री गायत्र्या
वेदास्तैरिदमसृजत् । धूममार्गविसृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकान-
सृजत् । तत उपनिषदः श्रुतय: आविर्बभूवुः । अर्चिर्मार्गविसृतं वेदार्थमभिसन्धाय
सर्वान् वेदान् सरहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास । स एताश्
पनिषद्वैवस्वतेन्तरे सगुणं ब्रह्म विधिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां
वसुदेवसद्मन्याविर्भविष्यति । तत्रभवत्यः सर्वलोकैः कृष्णसौन्दर्
गागोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजि