2026-02-09 02:17:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>६८
</ignore>
<ignore>वैष्णव- उपनिषदः
</ignore>
<verse>ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च गुरुतल्पगः ।
तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३ ॥
</verse>
<verse>गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् ।
अभिव्याप्यायतो भूत्वा देवेन्द्रदमनुते ॥ ४ ॥
</verse>
<verse>गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते ।
एवं ब्रह्मादयो देवाः सन्मुखास्तमुपासते ॥ ५ ॥
</verse>
<verse>गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते ।
विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥ ६ ॥
</verse>
<verse>सदाचारः शुभाकल्पो मिताहारो जितेन्द्रियः ।
गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७ ॥
</verse>
<verse>गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् ।
ततः कोटिगुणं पुण्यमित्येवं मनुरब्रवीत् ॥ ८ ॥
</verse>
<verse>गीपीचन्दनलिप्ताङ्गैर्जपदानादिकं कृतम् ।
न्यूनं संपूर्णतां याति विधानेन विशेषतः ॥ ९ ॥
</verse>
<verse>गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् ।
कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १० ॥
</verse>
<verse>अग्निष्टोमसहस्राणि वाजपेयशतानि च ।
तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११ ॥
</verse>
<verse>गोपीचन्दनदानस्य चाश्वमेधसमं फलम् ।
न गङ्गया समं तीर्थं न शुद्धिर्गोपिचन्दनात् ॥ १२ ॥
</verse>
<verse>बहुनात्र किमुक्तेन गोपीचन्दनमण्डनम् ।
न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा ॥ १३ ॥
</verse>
<verse>चन्दनं वापि गोपीनां केलिकुङ्कुमसम्भवम् ।
मण्डनात् पावनंनृनॄणां भुक्तिमुक्तिफलप्रदम् ॥ १४ ॥
</verse>
</page>

मण्डनात् पावनं
</page>