This page has been fully proofread once and needs a second look.

<page>
<ignore>
६६

</ignore>
<ignore>
वैष्णव- उपनिषदः

</ignore>

विष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनात् गोपीचन्दनमा-

ख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तः स्थितं चक्रसमायुक्तं पीतवर्णM मुक्तिसाधनं

भवति ॥ अथ गोपीचन्दनं नमस्कृत्योद्धृत्य,

<verse>
गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।

चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ॥

</verse>
<ignore>
66

</ignore>
<ignore>""</ignore>
<ignore>
66

</ignore>

इति प्रार्थनम् । " "इमम्मे गङ्गे "" इति जलमादाय, " "विष्णोर्नुकं "" इति

मर्दयेत् । "अतो देवा अवन्तु नः"" इत्येताभिर्ऋग्भिर्विष्णुगायत्र्या

त्रिवारमभिमन्त्रय,

<verse>
शंखचक्रगदापाणे द्वारका निलयाच्युत ।

गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥

</verse>

इति मां ध्यात्वा, गृहस्थो ललाटादिस्थलेप्ष्वनामिकाङ्गुल्या

विष्णुगायत्र्या केशवादिद्वादशनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो

ललाट कण्ठहृदयबाहुमूलेषु वैष्णवगायत्र्या कृष्णादिपञ्चनाभिर्वा धारयेत् ।

यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेन धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो

व्याहृतयस्त्रीणि छन्दांसि त्रयो लोकाः त्रयो वेदास्त्रयः स्वराः
त्रयोs

त्रयोऽग्न
यो ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः पुण्ड्रास्त्रयः

ऊर्ध्वाः अकारोकारमकाराः एते सर्वे प्रणवमयोर्ध्वपुण्डुड्रलयात्मकास्तदेतदोमि.

त्येकधा समभवन् । परमहंसो ललाटे प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् । तत्र

दीपप्रकाशं स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्य -

मवाप्नोति ॥

भावयेत् ॥

अथान्यो हृदयस्योर्ध्वं पुण्ड्रं मध्ये बहुहृदयकमलमध्ये वा स्वमात्मानं

भावयेत् ॥

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।

</page>