This page has not been fully proofread.

६६
 
वैष्णव- उपनिषदः
 
विष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनात् गोपीचन्दनमा-
ख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तः स्थितं चक्रसमायुक्तं पीतवर्ण मुक्तिसाधनं
भवति ॥ अथ गोपीचन्दनं नमस्कृत्योद्धृत्य,
 
गोपीचन्दन पापन विष्णुदेहसमुद्भव ।
 
चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ॥
 
66
 
""
 
66
 
इति प्रार्थनम् । " इमम्मे गङ्गे " इति जलमादाय, " विष्णोर्नुकं " इति
मर्दयेत् । अतो देवा अवन्तु नः" इत्येताभिर्ऋग्भिर्विष्णुगायत्र्या
त्रिवारमभिमन्त्रय,
 
शंखचक्रगदापाणे द्वारका निलयाच्युत ।
 
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
 
इति मां ध्यात्वा, गृहस्थो ललाटादिस्थलेप्वनामिकाङ्गुल्या
विष्णुगायत्र्या केशवादिद्वादशनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो
ललाट कण्ठहृदयबाहुमूलेषु वैष्णवगायत्र्या कृष्णादिपञ्चनाभिर्वा धारयेत् ।
यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेन धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो
व्याहृतयस्त्रीणि छन्दांसि त्रयो लोकाः त्रयो वेदास्त्रयः स्वराः
त्रयोsयो ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः पुण्ड्रास्त्रयः
ऊर्ध्वाः अकारोकारमकाराः एते सर्वे प्रणवमयोर्ध्वपुण्डुलयात्मकास्तदेतदोमि.
त्येकधा समभवन् । परमहंसो ललाटे प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् । तत्र
दीपप्रकाशं स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्य -
मवाप्नोति ॥
 
भावयेत् ॥
 
अथान्यो हृदयस्योर्ध्वं पुण्ड्रं मध्ये बहुहृदयकमलमध्ये वा स्वमात्मानं
 
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।