This page has been fully proofread once and needs a second look.

<page>
<ignore>
1
 
</ignore>
<ignore>
गोपीचन्दनोपनिषत्
 
</ignore>
<ignore>
६५
 
"
 
</ignore>
<ignore>&quot;</ignore>
<p>
भो पवित्रं सुलभं सुकरम् । यद्विष्णुक्षेत्रम् । तत्र मृत्स्नां श्वेतां " &quot;उद्धृतासि

इत्युद्धरेत् । अमृतमेव श्वेतमृत्स्ना भवति । तां शुद्धजलेन प्रणवेन घर्षयत् ।
येत् ।
देवपितृकर्माण्यारभमाणस्तया नित्यमूर्ध्वपुण्ड्रं बिभृयान्मन्त्रैः केशवादीनाम् ।

तद्रहितं कर्म निष्फलं रक्षांसि गृह्णीयुः । तदेवमभ्युक्तं भवति । नासादि-

केशान्तमूर्ध्वपुण्ड्रं विष्णोः स्थितस्य चरणद्वयाकृति । एकाङ्गुलं पादतरो-

रस्य मूलम् । तदुत्पन्ने द्वे शाखे । तदेव च मध्याकारोऽङ्गुलादन्यूनः ।

स श्रीः प्रतिष्ठायै । श्रीर्हरिद्रा । यतो हरिं द्रावयति तच्छ्रीचूर्णM श्रियावधृतं

आदित्यवर्णM श्रीफले धारयेत् । तज्जलेन श्रीबीजेन संमृज्य तत्सूक्ष्मरेखां

धारयेत् । स श्रीमान् भवति । ते द्वे शाखे हंसवर्णे गायत्रीत्रिष्टुप्छन्दसी

आत्मपरमात्मदैवत्ये दर्शपूर्णमासिके इष्टापूर्तक्रिये भुक्तिमुक्तिफले । सा

रेखा श्रीवर्णा । गायत्री छन्दः । आनन्दक्रियामृतत्वफला । अयमूर्ध्वपुण्ड्र -

विधिः । एवं विदित्वा यो धारयति स सर्वकर्मार्हो भवति । कायिकात्पूतो

भवति । स विष्णुसायुज्यमवाप्नोति स विष्णुसायुज्यमवाप्नोति । य एवं

वेद । इत्युपनिषत् ॥
 
</p>
<trailer text="KATYA_END">
इति कात्यायनोपनिषत् समाप्ता
 
</trailer>
<title>
गोपीचन्दनोपनिषत्
 
</title>
<p merge-next="true">
ॐ नमस्कृत्य भगवन्तं नारदः सर्वेश्वरं वासुदेवं पप्रच्छ । श्रीभगवन्

ऊर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थलादिसहितं मे ब्रूहीति । तं होवाच भगवान्

वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं

वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितं चन्दनं कुङ्कुमादिसहितं
 
</p>
<ignore>
9
 
</ignore>
</page>