2026-02-08 07:39:53 by ambuda-bot
This page has not been fully proofread.
1
गोपीचन्दनोपनिषत्
६५
"
भो पवित्रं सुलभं सुकरम् । यद्विष्णुक्षेत्रम् । तत्र मृत्स्नां श्वेतां " उद्धृतासि
इत्युद्धरेत् । अमृतमेव श्वेतमृत्स्ना भवति । तां शुद्धजलेन प्रणवेन घर्षयत् ।
देवपितृकर्माण्यारभमाणस्तया नित्यमूर्ध्वपुण्ड्रं बिभृयान्मन्त्रैः केशवादीनाम् ।
तद्रहितं कर्म निष्फलं रक्षांसि गृह्णीयुः । तदेवमभ्युक्तं भवति । नासादि-
केशान्तमूर्ध्वपुण्ड्रं विष्णोः स्थितस्य चरणद्वयाकृति । एकाङ्गुलं पादतरो-
रस्य मूलम् । तदुत्पन्ने द्वे शाखे । तदेव च मध्याकारोऽङ्गुलादन्यूनः ।
स श्रीः प्रतिष्ठायै । श्रीर्हरिद्रा । यतो हरिं द्रावयति तच्छ्रीचूर्ण श्रियावधृतं
आदित्यवर्ण श्रीफले धारयेत् । तज्जलेन श्रीबीजेन संमृज्य तत्सूक्ष्मरेखां
धारयेत् । स श्रीमान् भवति । ते द्वे शाखे हंसवर्णे गायत्रीत्रिष्टुप्छन्दसी
आत्मपरमात्मदैवत्ये दर्शपूर्णमासिके इष्टापूर्तक्रिये भुक्तिमुक्तिफले । सा
रेखा श्रीवर्णा । गायत्री छन्दः । आनन्दक्रियामृतत्वफला । अयमूर्ध्वपुण्ड्र -
विधिः । एवं विदित्वा यो धारयति स सर्वकर्मा भवति । कायिकात्पूतो
भवति । स विष्णुसायुज्यमवाप्नोति स विष्णुसायुज्यमवाप्नोति । य एवं
वेद । इत्युपनिषत् ॥
इति कात्यायनोपनिषत् समाप्ता
गोपीचन्दनोपनिषत्
ॐ नमस्कृत्य भगवन्तं नारदः सर्वेश्वरं वासुदेवं पप्रच्छ । श्रीभगवन्
ऊर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थलादिसहितं मे ब्रूहीति । तं होवाच भगवान्
वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं
वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितं चन्दनं कुङ्कुमादिसहितं
9