This page has been fully proofread once and needs a second look.

<page>
<ignore>
६४
 
</ignore>
<ignore>
वैष्णव- उपनिषदः
 
</ignore>
<verse>
श्रीचूर्णं श्रीकरं दिव्यं श्रियश्चाङ्गे समुद्भवम् ।
 

पुण्डंड्रं च यस्य मध्ये तु धार्येयं मोक्षार्थिभिः स्मृतम् ॥
 

तिस्रो रेखाः प्रकुर्वीत व्रतमेतत्तु वैष्णवम् ॥
 
</verse>
<p>
यस्त्वेवं विजानीयात् स नारायणसायुज्यमवाप्नोति । न च

पुनः कुत्र कुत्र धार्यम् । मत्पादाकृतयश्च ऊर्ध्वपुण्ड्रा नासादयः स्मृताः

रेखाद्वादशकस्थाने । प्रथमं तु ललाटके द्वितीयं तु नाभौ तृतीयं

वक्षसि चतुर्थं कण्ठे पञ्चमं नाभिदक्षिणे षष्ठं दक्षिणबाहौ सप्तमं तदू-

र्ध्वस्कन्धे अष्टमं नाभ्युत्तरे नवमं वामबाहौ दुशमं तदूर्ध्वस्कन्धे एकादशं

पृष्ठोर्ध्वतः द्वादशं कण्ठपृष्ठे मोक्षं देहि शिरसि । नारायणे मय्यचला

भक्तिस्तु वर्धते । संज्ञेन फलं लब्ध्वा तद्विष्णोः परमं पदमवाप्नोति ।

केशवादिद्वादशनामभिः ब्रह्मचारी गृहस्थो यतिश्च सर्वेभ्यो दुःखेभ्यो मुक्तो

भवति । सर्वेषु तीर्थेषु स्नातो भवति । सर्वैर्देवैः ज्ञातो भवति ।

अश्रोत्रियः श्रोत्रियो भवति । अनुपनीतोऽप्युपनीतो भवति । आचक्षुषः पङ्क्ति
तिं
पुनाति । न च पुनरावर्तते न च पुनरावर्तते । इत्याह भगवान् वराहरूपी ।

य एवं वेदेत्युपनिषत् ॥
 
</p>
<ignore>
.
 
</ignore>
<trailer text="URDHVA_END">
इत्यूर्ध्वपुण्ड्रोपनिषत् समाप्ता
 
</trailer>
<title text="KATYA_START">
कात्यायनोपनिषत्
 
</title>
<p merge-next="true">
अथ प्रणिपत्य कात्यायनो ब्रह्माणमन्वयुङ्क्त । अधीहि भगवः किं

पवित्राणां पवित्रम् । केन वा कर्मणा सफलानि । किं दुष्करं तपो

मर्त्यानाम् । केन सुकरेणामृतत्वमेति । स होवाच । साधु ते सुयोगः शृणु ।
 
</p>
<ignore>
1
 
</ignore>
</page>