2026-02-08 07:39:53 by ambuda-bot
This page has not been fully proofread.
६४
वैष्णव- उपनिषदः
श्रीचूर्ण श्रीकरं दिव्यं श्रियश्चाङ्गे समुद्भवम् ।
पुण्डं च यस्य मध्ये तु धार्ये मोक्षार्थिभिः स्मृतम् ॥
तिस्रो रेखाः प्रकुर्वीत व्रतमेतत्तु वैष्णवम् ॥
यस्त्वेवं विजानीयात् स नारायणसायुज्यमवाप्नोति । न च
पुनः कुत्र कुत्र धार्यम् । मत्पादाकृतयश्च ऊर्ध्वपुण्ड्रा नासादयः स्मृताः
रेखाद्वादशकस्थाने । प्रथमं तु ललाटके द्वितीयं तु नाभौ तृतीयं
वक्षसि चतुर्थ कण्ठे पञ्चमं नाभिदक्षिणे षष्ठं दक्षिणबाहौ सप्तमं तदू-
र्ध्वस्कन्धे अष्टमं नाभ्युत्तरे नवमं वामबाहौ दुशमं तदूर्ध्वस्कन्धे एकादशं
पृष्ठोर्ध्वतः द्वादशं कण्ठपृष्ठे मोक्षं देहि शिरसि । नारायणे मय्यचला
भक्तिस्तु वर्धते । संज्ञेन फलं लब्ध्वा तद्विष्णोः परमं पदमवाप्नोति ।
केशवादिद्वादशनामभिः ब्रह्मचारी गृहस्थो यतिश्च सर्वेभ्यो दुःखेभ्यो मुक्तो
भवति । सर्वेषु तीर्थेषु स्नातो भवति । सर्वैर्देवैः ज्ञातो भवति ।
अश्रोत्रियः श्रोत्रियो भवति । अनुपनीतोऽप्युपनीतो भवति । आचक्षुषः पङ्क्ति
पुनाति । न च पुनरावर्तते न च पुनरावर्तते । इत्याह भगवान् वराहरूपी ।
य एवं वेदेत्युपनिषत् ॥
.
इत्यूर्ध्वपुण्ड्रोपनिषत् समाप्ता
कात्यायनोपनिषत्
अथ प्रणिपत्य कात्यायनो ब्रह्माणमन्वयुङ्क्त । अधीहि भगवः किं
पवित्राणां पवित्रम् । केन वा कर्मणा सफलानि । किं दुष्करं तपो
मर्त्यानाम् । केन सुकरेणामृतत्वमेति । स होवाच । साधु ते सुयोगः शृणु ।
1