2026-02-08 07:39:52 by ambuda-bot
This page has not been fully proofread.
३. वैष्णव - उपनिषदः
ऊर्ध्वपुण्ड्रोपनिषत्
अथ श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ । अधीहि
भगवन् ऊर्ध्वपुण्ड्रविधिम् । किं द्रव्यं किं स्थानं का रेखा को मन्त्रः कः
कर्ता किं फलमिति च । श्रीवराह उवाच । क्षीराब्धितः श्वेतद्वीपे
क्षीरखण्डान् वैनतेय आनीय सटाभिः द्विदळनश्वेतमृत्तिकाखण्डमुक्तिसाधिका
भवन्ति । विष्णुपत्नीं महीं देवीमिति श्वेतमृत्तिकां नमस्कृत्य, ओमिति
हस्तेनोद्धृत्य ।
अश्वक्रान्ते रथकान्ते विष्णुकान्ते वसुन्धरा ।
शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥
इत्येताभिः प्रार्थयेत् । इमं मे गङ्गेति जलमादाय, गन्धद्वारेति
निक्षिप्य विष्णोर्नुकमिति मर्दयेत् । तन्मध्ये नृसिंहबीजं विलिख्य, "अतो
देवा अवन्तु नः" इति विष्णुगायत्र्या तिवारमभिमन्त्रय " नारायणाय विद्महे
वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् । " इत्येकवारम् ॥
1
वेव पापघ्ने विष्णुदेहसमुद्भवे ।
चाङ्किते नमस्तेऽस्तु धारणान्मुक्तिदा भव ॥