2026-03-28 00:54:10 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>बाष्कलमन्त्रोपनिषत्
४३
</ignore>
<p>संसारेऽस्मिन् विरश्पी विविधं रपति शब्दं करोतीति विरश्पी रपधातोः
शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् । <bold>अहं न्वहिं पर्वते शिश्रियाणम् ।</bold> नु
इति निश्चये । अहमेव नान्यः । अहिं वृत्रासुरं पर्वते शिश्रियाणं पर्वताश्रितं
।
अहनम् । <bold>उग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥</bold> उग्रः क्रूरकर्मा नु निश्चितं
अहमेव । तवसा वज्रेण अद्धा निश्चितम् । अवस्युः अन्नेच्छुः । ऐश्वर्येच्छुरिति
यावत् । सोऽप्यहमेव । <bold>प्रवङ्क्षणानभिदं पर्वतानाम् ।</bold> प्रवङ्क्षणान् पक्षा
न्
पर्वतानां अभिदं भेदितवानस्मि । <bold>यत्सीमिन्द्रो अकरोदनीकैः ।</bold> यत्
पुरुषसाध्यं कर्मेन्द्रः अनीकैः अकरोत्तत् अहमेवाकरवमिति वाक्यशेपः ।
षः ।
सीमिति निरर्थको निपातः । <bold>को अद्धा वेद क इह प्रवोचत् ।</bold> अद्धा सत्यं
मम स्वरूपमिति शेषः । को वेद कः वेत्ता । को वा प्रवक्ता । <bold>को अश्नव-
दभिमातिं विजघ्नुपःषः ॥ १० ॥</bold> किं च अभिमातिं अरिसैन्यं विजघ्नुषः
हतवतो मम मामित्यर्थः । कः अश्नवत् कः अश्नोत् । मयि व्यापकतां कर्तुं
।
न कोऽपि समर्थ इत्यर्थः । <bold>को मे अवो दाशुषो विष्वगूतीरित्या ददश्रे
भुवनाधि विश्वा ।</bold> अवोऽन्नं दाशुषो दत्तवतः मे ऊतीः शक्ती: विश्वा
भुवनान्यधि । अधिरीश्वर इति कर्मप्रवचनीयता । सर्वेषु भुवनेषु कः ददश्रे
कः ददर्श । किं च । <bold>रूपंरूपं जनुषा वोभवीमि ।</bold> <bold>।</bold> जनुषा शरीरग्रहणेन
रूपंरूपं अनेकरूपः बोभवीमि भवामि शुद्धस्य तव कथं शरीरग्रहणमत
आह । <bold>मायाभिरेको अभिचाकशानः ॥ ११ ॥</bold> अनेकाभिर्विचित्रशक्ति-
भिर्मायाभिः एकोऽपि अभितः चाकशानः भासमान: मायाप्रतिविम्बित इति
यावत् । किं च । <bold>विश्वं विचक्षे यमयन्नभीकः ।।</bold> अभीको निर्भयः विश्वं
यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् । विचक्षे पश्यामि । किं च ।
<bold>नेशे मे कश्च महिमानमन्यः ।।</bold> महिमानं प्राप्तुमिति शेषः । स्पष्टम् । किं
च । <bold>अहं द्यावापृथिवी आततानो विभर्मि धर्ममवसे जनानाम् ॥ १२ ॥
</bold></p>
<ignore>CC.0- Jangamwadi Math Collection. Digitized by eGangotri
</ignore>
</page>
<ignore>बाष्कलमन्त्रोपनिषत्
<p>संसारेऽस्मिन् विरश्पी विविधं रपति शब्दं करोतीति विरश्पी रपधातोः
शिनिन् । शब्दवान् वेदप्रवक्तेति यावत् । <bold>अहं न्वहिं पर्वते शिश्रियाणम् ।</bold> नु
इति निश्चये । अहमेव नान्यः । अहिं वृत्रासुरं पर्वते शिश्रियाणं पर्वताश्रितं
।
अहनम् । <bold>उग्रो न्वहं तवसावस्युरद्धा ॥ ९ ॥</bold> उग्रः क्रूरकर्मा नु निश्चितं
अहमेव । तवसा वज्रेण अद्धा निश्चितम् । अवस्युः अन्नेच्छुः । ऐश्वर्येच्छुरिति
यावत् । सोऽप्यहमेव । <bold>प्रवङ्क्षणानभिदं पर्वतानाम् ।</bold> प्रवङ्क्षणान् पक्षा
पर्वतानां अभिदं भेदितवानस्मि । <bold>यत्सीमिन्द्रो अकरोदनीकैः ।</bold> यत्
पुरुषसाध्यं कर्मेन्द्रः अनीकैः अकरोत्तत् अहमेवाकरवमिति वाक्यशे
सीमिति निरर्थको निपातः । <bold>को अद्धा वेद क इह प्रवोचत् ।</bold> अद्धा सत्यं
मम स्वरूपमिति शेषः । को वेद कः वेत्ता । को वा प्रवक्ता । <bold>को अश्नव-
दभिमातिं विजघ्नु
हतवतो मम मामित्यर्थः । कः अश्नवत् कः अश्नोत् । मयि व्यापकतां कर्तुं
।
न कोऽपि समर्थ इत्यर्थः । <bold>को मे अवो दाशुषो विष्वगूतीरित्या ददश्रे
भुवनाधि विश्वा ।</bold> अवोऽन्नं दाशुषो दत्तवतः मे ऊतीः शक्ती: विश्वा
भुवनान्यधि । अधिरीश्वर इति कर्मप्रवचनीयता । सर्वेषु भुवनेषु कः ददश्रे
कः ददर्श । किं च । <bold>रूपंरूपं जनुषा वोभवीमि
रूपंरूपं अनेकरूपः बोभवीमि भवामि शुद्धस्य तव कथं शरीरग्रहणमत
आह । <bold>मायाभिरेको अभिचाकशानः ॥ ११ ॥</bold> अनेकाभिर्विचित्रशक्ति-
भिर्मायाभिः एकोऽपि अभितः चाकशानः भासमान: मायाप्रतिविम्बित इति
यावत् । किं च । <bold>विश्वं विचक्षे यमयन्नभीकः
यमयन् । अन्तर्यामिस्वरूपेण अधितिष्ठन् । विचक्षे पश्यामि । किं च ।
<bold>नेशे मे कश्च महिमानमन्यः