Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>४२ सामान्यवेदान्त - उपनिषदः</ignore>
<p merge-next="true"><bold>पथो विदुः</bold> । ।</bold> नूनं निश्चितोऽयमर्थः । इमे देवाः मां इत्था इत्थंभूतं न
विदुः । <bold>ये मा न यन्ति मिथु चाकशानाः</bold> ॥ ६ ॥</bold> ये पथो मार्गात्
मा मां न नयन्ति । कीदृशः मिथु मिथः चाकशानाः भासमानाः । अतः
परमिन्द्रस्य मेषवेषधारिणः प्रतिवचनमुपक्रमते । <bold>परः स्मियानो अविवरस्य
शूकम्</bold> । ।</bold> परः इन्द्रः स्मियानः हसन् अस्य मेधातिथेः शूकं शङ्कां अविवः
विवृतवान् । <bold>किं सीमिच्छरणं मन्यमानः</bold> । ।</bold> सीमिति निरर्थको निपातः ।
इत् प्रश्ने । किं शरणं रक्षकं मन्यमानः असीति शेषः । इत्थंभूतस्त्वं किं
शरणं मन्यस इत्यर्थः । पुनरिन्द्र आह --- <bold>न ह त्वाहमप्रणीय स्वविष्ठामित्था
जहामि शपमानमिन्नु</bold> ॥ ७ ॥</bold> हेत्यैतिह्यार्थः । त्वा त्वां स्वविष्ठां
स्वस्थानं अप्रणीय अप्रापय्य इत्था इत्थंभूतं अज्ञानपङ्कनिमग्नं न जहामि
शपमानमिन्नु शपमानमपि । तथा च त्वामज्ञानपङ्कादुद्धृत्य स्वस्थानमात्म-
स्वरूपं यावन्न प्रापयामि तावन्न त्वां मुञ्चामीति फलितोऽर्थः । तदिच्छाधि
यो असि सर्ववित्तमः इत्यस्योत्तरमाह । <bold>अहमस्मि जरितृणामु दावा</bold> । ।</bold>
अहं उ इति निश्चये । जरितॄणां यजमानानां <quote>&quot;जरिता वै यजमानः&quot;</quote>
इति श्रुतेः । दावा दाता फलस्येति शेषः । अस्मि भवामि। यागादिफल-
प्रदोऽहमेव । <bold>अहमाशिरम्</bold> । ।</bold> सोमसंस्कारकं पयः तदप्यहमेव । <bold>अहमिदं</bold>
<bold>दधग्वान्</bold> । ।</bold> इदं हविः दधग्वान् दाहकः । एतस्य हविषो दाहकश्चाहमेवेत्यर्थः ।
किं च । <bold>अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः</bold> ॥ ८ ॥</bold> विश्वा
भुवनानि विश्वेषां भुवनानां विचक्षन् साक्षी सन्नहं देवानां आसन् आस्ये
अवः अन्नाद्यं अदः ददामि । कुहेव ते चित्रतमप्रतिष्ठा इत्यस्योत्तरमाह ।
<bold>मम प्रतिष्ठा भुव आण्डकोशाः</bold> । ।</bold> भुव उत्पादकस्य मम आण्डकोशाः
ब्रह्माण्डानि प्रतिष्ठा <quote>&quot;तत्सृष्ट्वा&quot;</quote> इति श्रुतेः । <bold>वि चैमि सं च हि नु यो
विरश्पी</bold> । ।</bold> योऽहं व्येमि वियुक्तो भवामि समेमि सङ्गतश्च भवामि</p>
</page>