2026-02-15 08:34:48 by ambuda-bot
This page has not been fully proofread.
४२
सामान्यवेदान्त - उपनिषदः
I
पथो विदुः । नूनं निश्चितोऽयमर्थः । इमे देवाः मां इत्था इत्थंभूतं न
विदुः । ये मा न यन्ति मिथु चाकशाना: ॥ ६ ॥ ये पथो मार्गात्
मा मां न नयन्ति । कीदृशः मिथु मिथः चाकशानाः भासमानाः । अतः
परमिन्द्रस्य मेषवेषधारिणः प्रतिवचनमुपक्रमते । परः स्मियानो अविवरस्य
शूकम् । परः इन्द्रः स्मियान: हसन् अस्य मेधातिथेः शूकं शङ्कां अविवः
विवृतवान् । किं सीमिच्छरणं मन्यमानः । सीमिति निरर्थको निपातः ।
इत् प्रश्ने । किं शरणं रक्षकं मन्यमानः असीति शेषः । इत्थंभूतस्त्वं किं
शरणं मन्यस इत्यर्थः । पुनरिन्द्र आह -- न ह त्वाहमप्रणीय स्वविष्ठामित्था
जहामि शपमानमिन्नु ॥ ७ ॥ हेत्यैतिह्यार्थः । त्वा त्वां स्वविष्ठां
स्वस्थानं अप्रणीय अप्रापय्य इत्था इत्थंभूतं अज्ञानपङ्कनिमग्नं न जहामि
शपमानमिन्नु शपमानमपि । तथा च त्वामज्ञानपङ्कादुद्धृत्य स्वस्थानमात्म-
स्वरूपं यावन्न प्रापयामि तावन्न त्वां मुञ्चामीति फलितोऽर्थः । तदिच्छाधि
यो असि सर्ववित्तमः इत्यस्योत्तरमाह । अहमस्मि जरितृणामु दावा ।
अहं उ इति निश्चये । जरितॄणां यजमानानां " जरिता वै यजमानः
इति श्रुतेः । दावा दाता फलस्येति शेषः । अस्मि भवामि। यागादिफल-
प्रदोऽहमेव । अहमाशिरम् । सोमसंस्कारकं पयः तदप्यहमेव । अहमिदं
दधग्वान् । इदं हविः दधग्वान् दाहकः । एतस्य हविषो दाहक श्चाहमेवेत्यर्थः ।
किं च । अहं विश्वा भुवना विचक्षन्नहं देवानामासन्नवोऽदः ॥ ८ ॥ विश्वा
भुवनानि विश्वेषां भुवनानां विचक्षन् साक्षी सन्नहं देवानां आसन् आस्ये
अवः अन्नाद्यं अदः ददामि । कुहेव ते चित्रतमप्रतिष्ठा इत्यस्योत्तरमाह ।
मम प्रतिष्ठा भुव आण्डकोशाः । भुव उत्पादकस्य मम आण्डकोशाः
ब्रह्माण्डानि प्रतिष्ठा " तत्सृष्ट्रा " इति श्रुतेः । वि चैमि सं च हि नु यो
विरश्पी । योऽहं व्येमि वियुक्तो भवामि समेमि सङ्गतश्च भवामि
.
"
CC.0- Jangamwadi Math Collection. Digitized by eGangotri