2026-02-08 07:39:46 by ambuda-bot
This page has not been fully proofread.
३२.
सामान्यवेदान्त-उपनिषदः
यस्मिन् स लीयते शब्दस्तत्परं ब्रह्म गीयते ।
सोऽमृतत्वाय कल्पते सोऽमृतत्वाय कल्पते ॥ इति ॥
इति प्रणवोपनिषत् समाप्ता
प्रणवोपनिषत्
ब्रह्म ह वै ब्रह्माणं पुष्करे पुष्करे ससृजे । स खलु ब्रह्मा सृष्ट-
श्चिन्तामापेदे । केनाहमेकेनाक्षरेण सर्वाश्च कामान् सर्वोश्च लोकान् सर्वाश्च
देवान् सर्वांश्च वेदान् सर्वाश्च यज्ञान् सर्वोश्च शब्दान् सर्वाश्च व्युष्टीः
सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयमिति । स ब्रह्मचर्यमचरत् । स
ओमित्येतदक्षरमपश्यत् । विवर्ण चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयाम-
ब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवतं तथा सर्वाश्च कामान् सर्वाश्च लोकान्
सर्वोश्च देवान् सर्वाश्च वेदान् सर्वाश्च यज्ञान् सर्वाश्च शब्दान् सर्वाश्च
व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत् । तस्य प्रथमेन
वर्णेनापस्नेहश्चान्वभवत् । तस्य द्वितीयेन वर्णेन तेजो ज्योतींप्यन्वभवत् । तस्य
प्रथमया स्वरमात्र या पृथिवीमग्निमोषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिर्गायत्रं
छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तमृतुं वाचमध्यात्मं जिह्वां रसमितीन्द्रि-
याण्यन्वभवत् । तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव
इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्ममृतुं
प्राणमध्यात्मं नासिके गन्धघ्राणमितीन्द्रियाण्यन्वभवत् । तस्य तृतीयया
स्वरमात्रया दिवमादित्यं सामवेदं स्वरितिव्याहृतिं जागतं छन्दः सप्तदशं