2026-02-08 23:49:06 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३०.</ignore>
<ignore>सामान्यवेदान्त - उपनिषदः</ignore>
<verse text="PINDA">त्र्यहं वसति तोयेषु त्र्यहं वसति चाग्निषु ।
त्र्यहमाकाशगो भूत्वा दिनमेकन्तु वायुगः ॥</verse>
<verse text="PINDA">प्रथमेन तु पिण्डेन कलानां तस्य सम्भवः ।
द्वितीयेन तु पिण्डेन मांसत्वक्च्छोणितोद्भवः ॥</verse>
<verse text="PINDA">तृतीयेन तु पिण्डेन मतिस्तस्याभिजायते ।
चतुर्थेन तु पिण्डेन अस्थि मज्जा प्रजायते ॥</verse>
<verse text="PINDA">पञ्चमेन तु पिण्डेन हस्ताङ्गुल्यः शिरो मुखम् ।
षष्ठेन कृतपिण्डेन हृत्कण्ठं तालु जायते ॥</verse>
<verse text="PINDA">सप्तमेन तु पिण्डेन दीर्घमायुः प्रजायते ।
अष्टमेन तु पिण्डेन वाचं पुष्यति वीर्यवान् ॥</verse>
<verse text="PINDA">नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः ।
दशमेन तु पिण्डेन भावनं प्लावनं तथा ।
पिण्डे पिण्डे शरीरस्य पिण्डदानेन सम्भवः ॥</verse>
<trailer text="PINDA">इति पिण्डोपनिषत् समाप्ता</trailer>
<title text="PRAN">प्रणवोपनिषत्</title>
<p text="PRAN">ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः ॥</p>
<verse text="PRAN">पुरस्ताद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।
रहस्यं ब्रह्मविद्याया धृताग्निं संप्रचक्षते ॥</verse>
</page>