2026-02-08 07:39:45 by ambuda-bot
This page has not been fully proofread.
पिण्डोपनिषत्
.२९
ततश्च दशमे मासे प्रजायते । जातश्च वायुना स्पृष्टो न स्मरति जन्म
मरणम् । अन्ते च शुभाशुभं कर्मैतच्छरीरस्य प्रामाण्यम् ॥
इति निरुक्तोपनिषदि विंशतितमोध्यायः
अष्टोत्तरं सन्धिशतमष्टाकपालं शिरः संपद्यते । षोडश वपापलानि ।
नव स्नायुशतानि । सप्तशतं पुरुषस्य मर्माणि । अर्धचतस्रो रोमाणि कोटयः ।
हृदयं ष्टकपलानि । द्वादशकपलानि जिह्वा । वृषणो हृष्टसुपर्णी । तत उपस्थ-
गुदयोन्येतन्मूत्रपुरीषं कस्मादाहारापान सिक्तत्वादनुपचति । कर्मणा अन्योन्यं
जायत इति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च । महत्यज्ञानतमसि
मग्नो जरामरणक्षुत्पिपासाशोक क्रोधद्रोहलोभमोहमदभयमत्सरहर्षविषादेर्ष्या-
सूयात्मकैर्द्वन्द्वैरभिभूयमानः सोऽस्मादार्जवं जवीभावनान्तं निर्मुच्यते । सोऽस्मा-
दान्तं महाभूमिकावत् शरीरान्निमेषमात्रैः प्रक्रम्य प्रकृतिभिरभिपरीत्य तैजसं
शरीरं कृत्वा कर्मणानुरूपं फलमनुभूय तस्य संक्षये पुनरिमं लोकं प्रतिपद्यते ॥
इति निरुक्तोपनिषदि एकविंशोऽध्यायः
इति निरुक्तोपनिषत् समाप्ता
पिण्डोपनिषत्
ॐ देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् ।
मृतस्य दीयते पिण्डं कथं गृह्णन्त्यचेतसः ॥
भने पञ्चात्मके देहे गते पञ्चसु पञ्चधा ।
हंसस्त्यक्त्वा गतो देहं कस्मिन् स्थाने व्यवस्थितः