This page has been fully proofread once and needs a second look.

<page>
<ignore>
२८
 
</ignore>
<ignore>
*
 
</ignore>
<ignore>
सामान्यवेदान्त-उपनिषदः
 
</ignore>
<title>
निरुक्तोपनिषत्
 
</title>
<ignore>
*
 
</ignore>
<ignore>
*
 
</ignore>
<ignore>
*
 
रसाच्छोणितम् ।
 
</ignore>
<ignore>
1
 
</ignore>
<ignore>
1
 
</ignore>
<p>
स यद्यनुरुध्यते तद्भवति । यदि धर्मोऽनुरुध्यते तदेवोद्भवति ।

यदि ज्ञानमनुरुध्यते तदमृतो भवति । यदि काममनुरुध्यते संचरतां इमां

योनिं संदध्यात्तदिदमत्र मनः श्लेष्मरेतसः संभवति । श्लेप्ष्मणो रसः ।

रसाच्छोणितम् ।
शोणितान्मांसम् । मांसान्मेद: । मेदसः स्त्रानावा ।

स्नावोsस्थीनि । अस्थिभ्यो मज्जा । मज्जातो रेतः । तदिदं योनौ रेतः सिक्तं

पुरुषः संभवति । शुक्रातिरेके पुमान् भवति । शोणितातिरेके स्त्री भवति ।

द्वाभ्यां समेन नपुंसको भवति । शुक्रभिन्नेन यमो भवति । शुक्रशोणित-

संयोगान्मातृपितृसंयोगाच्च कथमिदं शरीरं परं संयम्यते । सौम्यो

भवत्येक रात्रोषितं कललं भवति । पञ्चरात्राहुहुद्बुद्बुदः । सप्तरात्रात्
पेशी 1

द्विसप्तरात्रादर्बुदः । पंचविंशतिरात्त्रस्थितो योनौ घनो भवति । मास-

मात्रात् कठिनो भवति । द्विमासाभ्यन्तरे शिरः संपद्यते । मासत्रयेण

ग्रीवाव्यादेशः । मासचतुष्केण त्वग्व्यादेशः । पञ्चमे मासे नखरोमव्यादेशः ।

षष्ठे मुखनासिकाक्षिश्रोतंत्रं च संभवति । सप्तमे चलनसमर्थो भवति । अष्टमे

बुद्ध्याध्यवस्यते । नवमे सर्वाङ्गसंपूर्णो भवति ॥
 
</p>
<verse n="1">
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।

नानायोनिसहस्राणि मया यान्युषितानि वै ॥
 
</verse>
<verse>
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ।

मातरो विविधा दृष्टाः पितरः सुहृदस्तथा ॥
</verse>
<verse>
अवाङ्मुखः पीड्यमानो जन्तुश्चैव समन्वितः ।
 

सांख्यं योगं समभ्यस्ये पुरुषं पञ्चविंशकम् ॥ इति ॥
 
</verse>
</page>