This page has not been fully proofread.

२८
 
*
 
सामान्यवेदान्त-उपनिषदः
 
निरुक्तोपनिषत्
 
*
 
*
 
*
 
रसाच्छोणितम् ।
 
1
 
1
 
स यद्यनुरुध्यते तद्भवति । यदि धर्मोऽनुरुध्यते तदेवोद्भवति ।
यदि ज्ञानमनुरुध्यते तदमृतो भवति । यदि काममनुरुध्यते संचरतां इमां
योनिं संदध्यात्तदिदमत्र मनः श्लेष्मरेतसः संभवति । लेप्मणो रसः ।
शोणितान्मांसम् । मांसान्मेद: । मेदसः स्त्रावा ।
स्नावोsस्थीनि । अस्थिभ्यो मज्जा । मज्जातो रेतः । तदिदं योनौ रेतः सिक्तं
पुरुषः संभवति । शुक्रातिरेके पुमान् भवति । शोणितातिरेके स्त्री भवति ।
द्वाभ्यां समेन नपुंसको भवति । शुक्रभिन्नेन यमो भवति । शुक्रशोणित-
संयोगान्मातृपितृसंयोगाच्च कथमिदं शरीरं परं संयम्यते । सौम्यो
भवत्येक रात्रोषितं कललं भवति । पञ्चरात्राहुहुदः । सप्तरात्रात्
पेशी 1
द्विसप्तरात्रादर्बुदः । पंचविंशतिरात्त्रस्थितो योनौ घनो भवति । मास-
मात्रात् कठिनो भवति । द्विमासाभ्यन्तरे शिरः संपद्यते । मासत्रयेण
ग्रीवाव्यादेशः । मासचतुष्केण त्वग्व्यादेशः । पञ्चमे मासे नखरोमव्यादेशः ।
षष्ठे मुखनासिकाक्षिश्रोतं च संभवति । सप्तमे चलनसमर्थो भवति । अष्टमे
बुद्ध्याध्यवस्यते । नवमे सर्वाङ्गसंपूर्णो भवति ॥
 
मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ।
नानायोनिसहस्राणि मया यान्युषितानि वै ॥
 
आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः ।
मातरो विविधा दृष्टाः पितरः सुहृदस्तथा ॥
अवाङ्मुखः पीड्यमानो जन्तुश्चैव समन्वितः ।
 
सांख्यं योगं समभ्यस्ये पुरुषं पञ्चविंशकम् ॥ इति ॥