This page has been fully proofread once and needs a second look.

<page>
<ignore>
द्वयोपनिषत्
 
</ignore>
<title>
द्वयोपनिषत्
 
</title>
<ignore>
२७
 
</ignore>
<p>
ॐ अथातः श्रीमद्द्वयोत्पत्तिः । वाक्यो द्वितीयः । षट्पदान्यष्टादश ।

पञ्चविंशत्यक्षराणि । पञ्चदशाक्षरं पूर्वम् । दशाक्षरं परम् । पूर्वो नारायणः

प्रोक्तोऽनादिसिद्धो मन्त्ररत्नः सदाचार्यमूलः ।
 
</p>
<verse n="1">
आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।

मन्त्रज्ञो मन्त्रभक्तश्च सदामन्वात्राश्रयः शुचिः ॥
</verse>
<verse>
गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषवित् ।

एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥
</verse>
<verse>
आचिनोति हि शास्त्रार्थानाचारस्थापनादपि ।

स्वयमाचरते यस्तु तस्मादाचार्य उच्यते ॥
</verse>
<verse>
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।

अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥
</verse>
<verse>
गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।
 

गुरुरेव परं विद्या गुरुरेव परं धनम् ॥
 
</verse>
<verse>
गुरुरेव परः कामः गुरुरेव परायणः ।

यस्मात्तदुपदेष्टासौ तस्माद्गुरुतरो गुरुः ॥
 
</verse>
<p>
यस्सकृदुच्चारणः संसारविमोचनो भवति । सर्वपुरुषार्थसिद्धिर्भवति ।

न च पुनरावर्तते न च पुनरावर्तत इति । य एवं वेदेत्युपनिषत् ॥
 
</p>
<trailer>
इति द्वयोपनिषत् समाप्ता
 
</trailer>
</page>