This page has been fully proofread once and needs a second look.

<page>
<ignore>
२६
 
</ignore>
<ignore>
*
 
</ignore>
<ignore>
*
 
</ignore>
<p>
सामान्यवेदान्त - उपनिषदः
 
</p>
<title>
तुरीयोपनिषत्
 
</title>
<ignore>
*
 
</ignore>
<ignore>
*
 
</ignore>
<ignore>
*
 
</ignore>
<p>
कलातीतश्चेति । तन्न चत्वारः । अकारश्चायुतावयवान्वितः । उकारः

शतावयवान्वितः । मकारः सहस्रावयवान्वितः । अर्धमात्रप्रणवोऽनन्तावय-

वान्वितः । सगुणो विराट्प्रणवः । संहारो निर्गुणप्रणवः । उभयात्मक

उत्पत्तिप्रणवः । यथार्थकथनोमित्युच्चार्याभिमानोत्पत्तिप्रणवः । सर्वोपसंहारेण

संहारप्रणवः । उभयात्मकत्वात् विराट्प्रणवः । उत्पत्तिप्रणवो दीर्घप्लुत-

विराट् । प्लुतप्लुत्युपसंहारः । विराट्प्रणवः षोडशमात्रान्वितः । षट्त्रिंशत्त-

त्वायुतः । षोडशमात्रात्मकं कथमित्युच्यते । अकारः प्रथमः । द्वितीय

उकारः । मकारस्तृतीयः । अर्धमात्रा चतुर्थः । नादः पञ्चमः । बिन्दुः

षष्ठः । कला सप्तमः । शक्तिरष्टमी । शान्तिर्नवमी । समाना दशमी ।

आत्मनैकादश । मनोन्मना द्वादश । वैखरी त्रयोदश । मध्यमा चतुर्दश ।

पश्यन्ती पञ्चदश । परा षोडश । इति षोडशमात्रात्मकः प्रणवः । षोडश-

मात्रा जाग्रत्स्वप्नसुषुप्तितुरीयावस्था भेदैरेकैकमात्राचातुर्विध्यमेत्य । षोडश-

मात्राश्चतुष्षष्टिभेदमेत्य । पुनश्चतुष्ष्टिमात्रा: प्रकृतिपुरुषद्वैविध्यमापाद्याष्टा-

विंशत्युत्तर भेदमात्रास्वरूपमासाद्य सगुण निर्गुणत्वमेत्य एकोपि ब्रह्म प्रणवः ॥
</p>
<verse>
सर्वाधारः परं ज्योतिरेष सर्वेश्वरो विभुः ।

सर्वदेवमयः सर्वप्रपञ्चाधारगर्भितः ।
 

सर्वाक्षरमयः कालः सदसद्भक्तिवर्जितः ॥ </verse>
<p>
इति ।
 

य एवं वेदेत्युपनिषत् ॥
 
</p>
<trailer>
इति तुरीयोपनिषत् समाप्ता
 
</trailer>
</page>